मत्स्यपुराणम् - अध्यायः १२९
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
मयासुराख्यानवर्णनम् ।
ऋषय ऊचुः ।
कथं जगाम भगवन् पुरारित्वं महेश्वरः ।
ददाह च कथं देवस्तन्नो विस्तरतो वद ॥१॥
पृच्छामस्त्वां वयं सर्वे बहुमानात् पुनः पुनः ।
त्रिपुरन्तद्यथादुर्गं मयमाया विनिर्मितम् ॥
देवेनैकेषुणा दग्धं तथा नो वद मानद! ॥२॥
सूत उवाच ।
श्रृणुध्वं त्रिपुरं देवो यथा दारितवान् भवः ।
मयोनाम महामायो मायानां जनकोऽसुरः ॥३॥
निर्जितः स तु संग्रामे तताप परमन्तपः ।
तपस्यन्तन्तु तं विप्रा दैत्यावन्यावनुग्रहात् ॥४॥
तस्यैव कृत्यमुद्दिश्य तेपतुः परमन्तपः ।
विद्युन्माली च बलवान् तारकाख्यश्च वीर्यवान् ॥५॥
मयतेजः समाक्रान्तौ तेपतुर्मयपार्श्वगौ ।
लोका इव यथामूर्तास्त्रयस्त्रय इवाग्नयः ॥६॥
लोकत्रयं तापयन्तस्ते तेपुर्दानवास्तपः ।
हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा ॥७॥
वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः ।
सेवानाः फलमूलानि पुष्पाणि च जलानि च ॥८॥
अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः ।
मग्नाः शैवालपङ्केषु विमला विमलेषु च ॥९॥
निर्मासाश्च ततो जाताः कृशा धमनि सन्तताः ।
तेषां तपः प्रभावेण प्रभावविधुतं यथा ॥१०॥
निष्प्रभन्तु जगत् सर्वं मन्दमेवाभिभाषितम् ।
दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः ॥११॥
तेषामग्रे जगद् बन्धुः प्रादुर्भूतः पितामहः ।
ततः साहसकर्तारः प्राहुस्ते सहसागतम् ॥१२॥
स्वकम्पितामहं दैत्यास्तं वै तुष्टुवुरेव च ।
अथ तान् दानवान् ब्रह्मा तपसा तपनप्रभान् ॥१३॥
उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा ।
वरदोऽहं हि वो वत्सास्तपस्तोषित आगतः ॥१४॥
व्रीयतामीप्सितं यच्चसाभिलाषं तदुच्यताम् ।
इत्येवमुच्यमानन्तु प्रतिपन्नं पितामहम् ॥१५॥
विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः ।
देवदैत्याः पुरा देवैः संग्रामे तारकामय ॥१६॥
निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि ।
देवे र्वैरानुबन्धाच्च धावन्तो भयवेपिताः ॥१७॥
शरणन्नैव जानीमः शर्म्म वा शरणार्थिनः ।
सोऽहं तपः प्रभावेण तव भक्त्या तथैव च ॥१८॥
इच्छामि कर्त्तुं तद्दुर्गं यद्देवैरपि दुस्तरम् ।
तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वरः ॥१९॥
भूम्यानां जलजानाञ्च शापानां मुनितेजसाम् ।
देवप्रहरणानाञ्च देवानाञ्च प्रजापते! ॥२०॥
अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम् ।
विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा ॥२१॥
उवाच प्रहसन् वाक्यं मयं दैत्यगणाधिपम् ।
सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव ॥२२॥
तस्माद्र्दुर्गविधानं हि तृणादपि विधीयताम् ।
पितामहवचः श्रुत्वा तदैवं दानवो मयः ॥२३॥
प्राञ्चलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम् ।
शम्भुरेकेषुणा र्दुर्गं सकृन् मुक्तेन निर्दहेत् ॥२४॥
समं स संयुगे हन्यादवध्यं शेषतो भवेत् ।
एवमस्त्विति चाप्युत्तवामयं देवः पितामहः ॥२५॥
स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ ।
गते पितामहे दैत्या गता मयरविप्रभाः ॥२६॥
वरदानाद्विरेजुस्ते तपसा च महाबलाः ।
समयस्तु महाबुद्धिर्दानवो वृषसत्तमः ॥२७॥
दुर्गं व्यवसतिः कर्त्तुमिति चाचिन्तयत् तदा ।
कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम् ॥२८॥
वत्स्यं हि तत् पुरं दिव्यं मत्तो नान्यैर्न संशयः ।
यथा चैकेषुणा तेन तत् पुरं न हि हन्यते ॥२९॥
देवैस्तथा विधातव्यं मया मतिविचारणम् ॥
विस्तारो योजनशतमेकैकस्य पुरस्य तु ॥३०॥
कार्यस्तेषाञ्च विष्कम्भश्चैकैकशतयोजनम् ।
पुष्पयोगेन निर्माणं पुराणञ्च भविष्यति ॥३१॥
पुष्पयोगेन च दिवि समेष्यन्ति परस्परम् ।
पुष्पयोगेन युक्तानि यस्तान्यासादयिष्यति ॥३२॥
पुराण्येकप्रहारेण शतानि निहनिष्यति ।
आयसन्तु क्षितितले राजतन्तु नभस्तले ॥३३॥
राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम् ।
एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति ॥
शतयोजनविष्कम्भैरन्तरैस्तद्दुरासदम् ॥३४॥
अट्टालकैर्यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च ।
द्वारैर्महामन्दरमेरुकल्पैः प्राकारश्रृङ्गैः सुविराजमानम् ॥३५॥
सतारकाख्येन मयेन गुप्तं स्वस्थञ्च गुप्तं तडिन्मालिनापि ।
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् ॥३६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP