संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १६० मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १६० मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १६० Translation - भाषांतर तारकोपाख्यानम् । सूत उवाच । श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देववन्दिभिः । सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम् ॥१॥स्मृत्वा धर्मं ह्यवर्माङ्गः पदातिरपदानुगः । मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेतसा ॥२॥कालनेमिमुखा दैत्याः संरम्भाद् भ्रान्तचेतसः । योधा! धावतगृह्णीत योजयध्वं वरूथिनीम् ॥३॥कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः । किं बाल! योद्धुकामोऽसि क्रीड कन्दुकलीलया ॥४॥त्वया न दानवा दृष्टा यत् सङ्गर विभीषकाः । बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी ॥५॥कुमारोऽपि तमग्रस्थं बभाषे हर्षयन् सुरान् । श्रृणु तारक! शास्त्रार्थस्तव चैव निरूप्यते ॥६॥शास्त्रैरर्था न दृश्यन्ते समये निर्भये भटैः । शिशुत्वं मावमंस्था मे शिशुः कालभुजङ्गमः ॥७॥दुष्प्रेक्ष्यो भास्करो बालस्तथाहं दुर्जयः शिशुः । अल्पाक्षरो न मन्त्रः किं सुस्फुरो दैत्य! दृश्यते ॥८कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरम् । कुमारस्तं निरस्याथ वज्रेणामोघवर्चसा ॥९ततश्चिक्षेप दैत्येन्द्रो भिन्दि पालमयोमयम् । करेण तच्च जग्राह कार्तिकेयोऽमरारिहा ॥१०॥गदां मुमोच दैत्याय षण्मुखोऽपि खरस्वनाम् । तया हतस्ततो देत्यश्चकम्पेऽचलराडिव ॥११॥मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे । चिन्तयामास बुद्ध्या वै प्राप्तः कालो न संशयः ॥१२कुपितन्तु तमालोक्य कालनेमि पुरोगमाः । सर्वे दैत्येश्वरा जघ्नुः कुमारं रणदारुणम् ॥१३३स तैः प्रहारैरस्स्पृष्टो वृथा क्लेशो महाद्युतिः । रणशौण्डास्तु दैत्येन्द्राः पुनः प्रासैः शिलीमुखैः ॥१४॥कुमारं सामरञ्जघ्नुर्बलिनो देवकण्टकाः । कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु ॥१५॥प्राणान्तकरणो जातो देवानां दानवाहवः । देवान्निपीडितान् दृष्ट्वा कुमारः कोपमाविशत् ॥१६॥ततोऽस्त्रैर्वारयामास दानवानामनीकिनीम् । तैरस्त्रैर्निष्प्रतीकारै स्ताडिताः सुरकण्टकाः ॥१७॥कालनेमिमुखाः सर्वे रणादासन् पराङ्मुखाः । विद्रुतेष्वथ दैत्येषु हतेषु च समन्ततः ॥१८॥ततः क्रुद्धो महादैत्य स्तारकोऽसुरनायकः । जग्राह च गदां दिव्यां हेमजाल परिष्कृताम् ॥१९॥जघ्ने कुमारं गदया निष्टप्त कनकाङ्गदः । शरैर्मयूरं चित्रैश्च चकार विमुखं रणे ॥२०॥दृष्ट्वा पराङ्मुखं देवो मुक्त रक्तं स्ववाहनम् । जग्राह शक्तिं विमलां रणे कनकभूषणाम् ॥२१॥बाहुना हेमकेयूररुचिरेण षडाननः । ततो जवान्महासेनस्तारकं दानवाधिपम् ॥२२॥तिष्ठ तिष्ठ सुदुर्बुद्धे! जीवलोकं विलोकय । हतोऽस्यद्य मया शक्त्या स्मर शस्त्रं सुशिक्षितम् ॥२३॥इत्युक्त्वा च ततः शक्ति मुमोच दितिजम्प्रति । सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा ॥२४॥बिभेद दैत्यहृदयं वज्रशैलेन्द्र कर्कशम् । गतासुः स पपातोर्व्या प्रलये भूधरो यथा ॥२५॥विकीर्णमुकुटोष्णीषो विस्रस्ताखिल भूषणः । तस्मिन् विनिहते दैत्ये त्रिदशानां महोत्सवे ॥२६॥नाभूत् कश्चित्तदा दुःखी नरकेष्वपि पापकृत् । स्तुवन्तः षण्मुखं देवाः क्रीडन्त श्चाङ्गनायुताः ॥२७॥जग्मुः स्वानेव भवनान् भूरिधामान उत्सुकाः । ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं प्रति । तुष्टा संप्राप्त सर्वेच्छः सह सिद्धैस्तपोधनैः ॥२८॥देवा ऊचुः । यः पठेत् स्कन्दसंबद्धां कथां मर्त्यो महामतिः ॥२९॥श्रृणुयाच्छ्रावयेद्वापि स भवेत् कीर्तिमान् नरः । बह्वायुः सुभगः श्रीमान् कान्तिमान् शुभदर्शनः ॥३०॥भूतेभ्यो निर्भयश्चापि सर्वदुःख विवर्जितः । सन्ध्यामुपास्य वै पूर्वां स्कन्दस्य चरितं पठेत् ॥३१॥स मुक्तः किल्बिषैः सर्वैर्महाधन पतिर्भवेत् । बालानां व्याधिजुष्टानां राजद्वारञ्च सेवताम् ॥३२॥इदं तत्परमन्दिव्यं सर्वदा सर्वकामदम् । तनु क्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः ॥३३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP