संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १७

मत्स्यपुराणम् - अध्यायः १७

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


साधारणाभ्युदयकीर्त्तनम् ।

सूत उवाच ।
अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम् ।
श्राद्धं साधारणं नाम भुक्ति मुक्ति फलप्रदम् ॥१॥

अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ।
अमावास्याष्टकाकृष्णपक्षे पञ्चदशीषु च ॥२॥

आर्द्रा मघा रोहिणीषु द्रव्यब्राह्मण सङ्गमे ।
गजच्छायाव्यतीपाते विष्टि वैधृतिवासरे ॥३॥

वैशाखस्य तृतीयायां नवमी कार्तिकस्य च ।
पञ्चदशी च माघस्य नभस्ये च त्रयोदशी ॥४॥

युगादयः स्मृता ह्येता दत्तस्याक्षय्यकारिकाः ।
तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ॥५॥

अश्वयुक् शुक्लनवमी द्वादशी कार्तिके तथा ।
तृतीया चैत्र मासस्य तथा भाद्रपदस्य च ॥६॥

फाल्गुनस्य ह्यमावास्या पौषस्यैकादशी तथा ।
आषाढस्याऽपि दशमी माघमासस्य सप्तमी ॥७॥

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्च दशीसिता ॥
मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः ॥८॥

यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः ।
माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी ॥९॥

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्‌ पितरो वदन्ति ॥१०॥

वैशाख्यामुपरागेषु तथोत्सव महालये ।
तीर्थायतनगोष्ठेषु द्वीपोद्यानगृहेषु च ॥११॥

विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता ।
विप्रान् पूर्वे परेचाह्नि विनीतात्मा निमन्त्रयेत् ॥१२॥

शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान् ।
द्वौ देवे वींस्तथा पैत्र्ये एकैकमुभयत्र वा ॥१३॥

भोजयेत्‌ सुसमृद्धोऽपि प्रसज्जेत सुविस्तरे ।
विश्वान्‌ देवान्‌ यवैः पुष्पैरभ्यर्च्यासनपूर्वकम् ॥१४॥

पूरयेत्पात्रयुग्मन्तु स्थाप्य दर्भ पवित्रकम् ।
श्न्नोदेवीत्यपः कुर्य्याद्यवोऽसीति यवानपि ॥१५॥

गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रतिन्यसेत् ।
विश्वेदेवास इत्याभ्यामावाह्य विकिरेद्यवान् ॥१६॥

गुन्धपुप्षैरलङ्‌कृत्य या दिव्येत्यप उत्सृजेत् ।
अभ्यर्च्यताभ्यामुत्‌सृष्टं पितृकार्य्यं समारभेत् ॥१७॥

दर्भासनन्तु तत्त्वादौ त्रीणि पात्राणि पूरयेत् ।
सपवित्राणि कृत्वादौ शन्नोदेवीत्यपः क्षिपेत् ॥१८॥

तिलोऽसीति तिलान् कुर्य्याद्गन्धपुष्पादिकं पुनः ।
पात्रं वनस्पतिमयं तथा पर्णमयं पुनः ॥१९॥

जलजं वाथ कुर्व्वीत तथा सागरसम्भवम् ।
सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते ॥२०॥

रजतस्य कथा वापि दर्शनं दानमेव वा ।
राजतैर्भाजनैरेषामथवा रजतान्वितैः ॥२१॥

वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ।
तथार्घ्यपिण्डभौज्यादौ पितॄणां राजतं मतम् ॥२२॥

शिवनेत्रोद्भवं यस्मात् तस्मात् तत्‌ पितृवल्लभम् ।
अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत् ॥२३॥

एवं पात्राणि संङ्कल्प्य यथालाभं विमत्सरः ।
या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत् ॥२४॥

पितॄनावाहयिष्यामि कुर्वित्युक्तस्तु तै पुनः ।
उशन्तस्त्वा तथायन्तु ऋग्‌भ्यामावाहयेत् पितॄन् ॥२५॥

यादिव्येत्यर्घ्यमुत्‌सृज्य दद्याद् गन्धादिकांस्ततः ।
हस्तात्तदुदकं पूर्वं दत्त्वा संश्रवमादितः ॥२६॥

पितृपात्रे निधायाथन्युब्जमुत्तरतो न्यसेत् ।
पितृभ्यः स्थानमसीति निधाय परिषेचयेत् ॥२७॥

तत्रापि पूर्ववत् कुर्यादग्निकार्यं विमत्सरः ।
उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ॥२८॥

प्रशान्तचित्तः सततं दर्भपाणिरशेषतः ।
गुणाढ्यैः सूपशाकैस्तु नानाभक्ष्यैर्विशेषतः ॥२९॥

अन्नन्तु सदधिक्षीरं गोघृतं शर्करान्वितम् ।
मासम्प्रीणाति वै सर्वान्‌ पितॄनित्याह केशवः ॥३०॥

द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्‌ हारिणेन तु ।
औरभ्रमेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥३१॥

षण्मासंच्छागमांसेन तृप्यन्ति पितरस्तथा ।
सप्त पार्षतमांसेन तथाष्टा वेणजेन तु ॥३२॥

दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मज मांसेन मासानेकादशैव तु ॥३३॥

संवत्सरन्तु गव्येन पयसा पायसेन च ।
रौरवेण च तृप्यन्ति मासान् पञ्चदशैव तु ॥३४॥

व्याघ्र्याः सिंहस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।
कालशाकेन चानन्ता खड्‌गमांसेन चैव हि ॥३५॥

यत्किञ्चिन्मधु संमिश्रं गोक्षीरं घृतपायसम् ।
दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः ॥३६॥

स्वाध्यायं श्रावयेत् पित्र्यं पुराणान्यखिलानि च ।
ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च ॥३७॥

इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः ।
बृहद्रथन्तरं तद्वज्ज्येष्ठसामसरौहिणम् ॥३८॥

तथैव शान्तिकाध्यायं मधु ब्राह्मणमेव च ।
मण्डलं ब्राह्मणं तद्वत्‌ प्रीतिकारि तु यत्‌ पुनः ॥३९॥

विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत् ।
भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप! ॥४०॥

सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा ।
समुत्सृजेद् भुक्तवतामग्रतो विकिरेद् भुवि ॥४१॥

अग्निदग्धास्तु ये जीवा येऽप्यदग्धाकुले मम ।
भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमाङ्गतिम् ॥४२॥

येषां न माता न पिता न बन्धुर्न गोत्रशुद्धिर्न तथान्नमस्ति ।
तत्तृप्तयेऽन्नं भुवि दत्तमेतत् प्रयातु लोकेषु सुखाय तद्वत् ॥४३॥

असंस्कृतप्रमीतानान्त्यक्तानां कुलयोषिताम् ।
उच्छिष्टभागधेयः स्याद्दर्भे विकिरयोश्च यः ॥४४॥

तृप्ता ज्ञात्वोदकं दद्यात् सकृद्विप्रकरे तथा ।
उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा ॥४५॥

निधाय दर्भान् विधिवद्दक्षिणाग्रान्‌ प्रयन्ततः ।
सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत् ॥४६॥

अवनेजनपूर्वन्तु नामगोत्रेण मानवः ।
गन्ध धूपादिकं दद्यात् कृत्वा प्रत्यवने जनम् ॥४७॥

जान्वाच्यसव्यं सव्येन पाणिनाथ प्रदक्षिणम् ।
पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना ॥४८॥

दीपप्रज्वालनं तद्वत् कुर्यात्पुष्पार्चनं बुधः ।
अथाचान्तेषु चाचम्य वारि दद्यात्‌ सकृत्‌ सकृत् ॥४९॥

अथ पुष्पाक्षतान् पश्चादक्षय्योदकमेव च ।
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥५०॥

गो भू हिरण्यवासंसि भव्यानि शयनानि च ।
दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च ॥५१॥

वित्त शठ्येन रहितः पितृभ्यः प्रीतिमावहन् ।
ततः स्वधा वाचनकं विश्वेदेवेषु चोदकम् ॥५२॥

दत्त्वाशीः प्रतिगृह्णीयाद्विश्वेभ्यः प्राङ्मुखो बुधः ।
अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर्द्विजैः ॥५२॥

गोत्रं तथा वर्द्धन्तान्नस्तथेत्युक्तश्च तै पुनः ।
दातारो नोऽभिवर्द्धन्तामिति चैवमुदीरयेत् ॥५३॥

एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः ।
स्वस्तिवाचनकं कुर्यात् पिण्डानुद्‌धृत्य भक्तितः ॥५४॥

उच्छेषणन्तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ।
ततो ग्रहबलिं कुर्यादिति धर्म्मव्यवस्थितिः ॥५५॥

उच्छेषणं भूमिगतमजिह्मस्यास्ति कस्य च ।
दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते ॥५६॥

पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा ।
अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप! ॥५७॥

ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम् ।
वाजेवाज इति जपन् कुशाग्रेण विसर्जयेत् ॥५८॥

बहिः प्रदक्षिणान्कुर्यात् पदान्यष्टावनुव्रजन् ।
बन्धुवर्गेण सहितः पुत्रभार्या समन्वितः ॥५९॥

निवृत्य प्राणपत्याथ पर्युक्ष्याग्निं समन्त्रवत् ।
वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च ॥६०॥

ततस्तु वैश्वदेवान्ते सभृत्य सुत बान्धवः ।
भुञ्जीता तिथिसंयुक्तः सर्वं पितृनिषेवितम् ॥६१॥

एतच्चानुपनीतोऽपि कुर्यात् सर्वेषु पर्वसु ।
श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥६२॥

भार्याविरहितोऽप्येतत् प्रवासस्थोऽपि भक्तिमान् ।
शूद्रोऽप्यमन्त्रवत् कुर्यादनेन विधिना बुधः ॥६३॥

तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते ।
उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्ले ॥६४॥

मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् ।
ततो मातामहा राजन् विश्वेदेवास्तथैव च ॥६५॥

प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः ।
प्राङ्मुखो निर्वपेत्‌ पिण्डा न् दूर्वया च कुशैर्युतान् ॥६६॥

सम्पन्नमित्यभ्युदये दद्यादर्घ्यं द्वयोर्द्वयोः ।
युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः ॥६७॥

तिलार्थस्तु यवैः कार्यो नान्दिशब्दानुपूर्वकः ।
माङ्गल्यानि च सर्वाणि वाचयेद्‌ द्विजपुङ्गवैः ॥६८॥

एवं शूद्रोऽपि सामान्य वृद्धिश्राद्धेऽपि सर्वदा ।
नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा ॥६९॥

दानप्रधानः शूद्रः स्यादित्याह भगवान्‌ प्रभुः ।
दानेन सर्वकामाप्तिरस्य सञ्जायते यतः ॥७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP