मत्स्यपुराणम् - अध्यायः ३७
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययातिशक्रसम्वादवर्णनम् ।
इन्द्र उवाच ।
सर्वाणि कार्याणि समाप्य राजन्!
गृहान् परित्यज्य वनं गतोऽसि ॥
तत्त्वां पृच्छामि नहुषस्य पुत्र!
केनापि तुल्यस्तपसा ययाते ॥१॥
ययातिरुवाच ।
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु ।
आत्मनस्तपसा तुल्यं कञ्चित् पश्यामि वासव ॥२॥
इन्द्र उवाच ।
यदावमंस्थाः सदृशः श्रेयसश्च पापीयसश्चाविदितप्रभावः ।
तस्माल्लोकाऽह्यन्तवन्तस्तवेमे क्षीणे पुण्ये पतितोऽस्यद्य राजन् ॥३॥
ययातिरुवाच ।
सुरर्षि गन्धर्व नरावमानात् क्षयं गता मे यदि शक्रलोकाः ।
इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥४॥
इन्द्र उवाच ।
सतां सकाशे पतितोऽसि राजन्! श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः ।
एवं विदित्वा तु पुनर्ययाति न तेऽवमान्याः सद्रृशः श्रेयसे च ॥५॥
शौनक उवाच ।
ततः पपातामरराजजुष्टात् पुण्याल्लोकात्पतमानं ययातिम् ।
संप्रेक्ष्य राजर्षिवरोष्टकस्तमुवाच सद्धर्मविधानगोप्ता ॥६॥
अष्टक उवाच ।
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः ।
पतस्युदीर्णोऽम्बुधरप्रकाशः खे खेचराणां प्रवरो यथाऽर्कः ॥७॥
द्रृष्ट्वा च त्वां सूर्यपथात् पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् ।
किन्नु स्विदे तत् पततीव सर्वे वितर्कयन्तः परिमोहिताः स्मः ॥८॥
द्रृष्ट्वा च त्वा धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् ।
प्रत्युद्गतास्त्वां वयमद्यसर्वे तस्मात्पाते तव जिज्ञासमानाः ॥९॥
न चापि त्वां धृष्णवः प्रष्टुमग्रे न च त्वमस्मान् पृच्छसि के वयं स्म ।
तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किन्निमित्तं त्वमागाः ॥१०॥
भयन्तु तेऽव्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप! ॥
त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहापि शक्तः ॥११॥
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प! ॥
ते सङ्गताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सद्रृशेषु सत्सु ॥१२॥
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।
प्रभुः सूर्य्य प्रकाशाच्च सतां चाभ्यागतः प्रभुः ॥१३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP