मत्स्यपुराणम् - अध्यायः ६४
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
शुक्लतृतीयाव्रतकथनम् ।
ईश्वर उवाच ।
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।
नाम्ना च लोके विख्यातां आर्द्रानन्दकरीमिमाम् ॥१॥
यदा शुक्लतृतीयायामाषाढर्क्षं भवेत् क्वचित् ।
ब्रह्मर्क्षं वा मृगर्क्षं वा हस्तो मूलमथापि वा ॥
दर्भगन्धोदकैः स्नानं तदा सम्यक् समाचरेत् ॥२॥
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।
भवानीमर्चयेद् भक्त्या शुक्लपुष्पैः सुगन्धिभिः ॥
महादेवेन सहितामुपविष्टां महासने ॥३॥
वासुदेव्यै नमः पादौ शङ्कराय नमो हरम् ।
जङ्घे शोकविनाशिन्यै नमः आनन्दाय नमः प्रभोः ॥४॥
रम्भायै पूजयेद् रुद्रं शिवाय च पिनाकिनः ।
अदित्यै च कटिं देव्याः शूलिनः शूलपाणये ॥५॥
माधव्यै च तथा नाभिमथ शम्भोर्भवाय च ।
स्तनावानन्दकारिण्यै शङ्करस्येन्दुधारिणे ॥६॥
उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम् ।
करावुत्पलधारिण्यै रुद्राय च जगत्पते ।
बाहू च परिरम्भिण्यै त्रिशूलाय हराय च ॥७॥
देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः ।
स्मितं सस्मेरलीलायै विश्ववक्त्राय वै विभोः ॥८॥
नेत्रे मदनवासिन्यै विश्वधाम्ने त्रिशूलिनः ।
भ्रुवौ नित्यप्रियायै तु ताण्डवेशाय शूलिनः ॥९॥
देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः ।
स्वाहायै मुकुटं देव्या विभोर्गङ्गाधराय वै ॥१०॥
विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ ।
प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ ॥११॥
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः ।
पद्मोत्पलानि रजसा नानावर्णेन कारयेत् ॥१२॥
शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान् ।
यावन्तः पांसवस्तत्र रजसः पतिता भुवि ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥१३॥
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः ।
दत्त्वा द्विजाय करकमुदकान्नसमन्वितम् ॥
प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयत् ॥१४॥
ततस्तु चतुरो मासान् पूर्ववत् करकोपरि ।
चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम् ॥१५॥
गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् ।
अपक्वं दधिदुग्धञ्च गोश्रृङ्गोदकमेव च ॥१६॥
पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः ।
उशीरसलिलं तद्वद्यवचूर्णोदकं पुनः ॥१७॥
तिलोदकञ्च संप्राश्य स्वपेन्मार्गशिरादिषु ।
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम् ॥१८॥
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने ।
दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत् ॥१९॥
गौरी मे प्रियतां नित्यमघनाशाय मङ्गला ।
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ॥२०॥
संवत्सरान्ते लवणं गुडकुम्भञ्च सर्जिकाम् ।
चन्दनं नेत्रपट्टञ्च सहिरण्याम्बुजेन तु ॥२१॥
उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् ।
सतूलावरणां शय्यां सविश्रामां निवेदयेत् ।
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति ॥२२॥
आर्द्रानन्दकरी नाम्ना तृतीयैषां सनातनी ।
यामुपोष्य नरो याति शम्भोर्यत्परमम्पदम् ॥२३॥
इहलोके सदानन्दमाप्नोति धनसम्पदः ।
आयुरारोग्यसन्तप्तो न कश्चिच्छोकमाप्नुयात् ॥२४॥
नारी वा कुरुते या तु कुमारी विधवा च या ।
सापि तत् फलमाप्नोति देव्यनुग्रहलालिता ॥२५॥
प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानवित् ।
रुद्राणी लोकमभ्येति पुनरावृत्तिदुर्लभम् ॥२६॥
य इदं श्रृणुयान्नित्यं श्रावयेद्वाऽपि मानवः ।
शक्रलोके सगन्धर्वैः पूज्यतेऽपि युगत्रयम् ॥२७॥
आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोत्यविधवाऽविधवाथ वापि ।
सा स्वे गृहे मुखशतान्यनुभूय भूयो गौरीपदं सदयिता दयिता प्रयाति ॥२८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP