संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्| अध्यायः १८४ मत्स्यपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० मत्स्यपुराणम् - अध्यायः १८४ मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते. Tags : matsya puranpuranपुराणमत्स्य पुराणसंस्कृत अध्यायः १८४ Translation - भाषांतर वारणसीक्षेत्रमाहात्म्यम् ।महेश्वर उवाच ।सेवितं बहुभिः सिद्धैरपुनर्भवकाङ्क्षिभिः ।विदित्वा तु परं क्षेत्रमविमुक्तनिवासिनाम् ॥१॥तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ।परं स्थानं तु ते यान्ति सम्भवन्ति न ते पुनः ॥२॥ज्ञाने विहितनिष्ठानां परमानन्दमिच्छताम् ।या गतिर्विहिता सद्भिः साविमुक्ते मृतस्य तु ॥३॥भवस्य प्रीतिरतुला ह्यविमुक्ते ह्यनुत्तमा ।असङ्ख्येयं फलं तत्र ह्यक्षया च गतिर्भवेत् ॥४॥परं गुह्यं समाख्यातं श्मशानमिति संज्ञितम् ।अविमुक्तं न सेवन्ते वञ्चितास्ते नरा भुवि ॥५॥अविमुक्ते स्थितैः पुण्यैः पांसुभिर्वायुनेरितैः ।अपि दुष्कृतकर्म्माणो यास्यन्ति परमाङ्गतिम् ॥६॥मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्म्मणः ।अविमुक्तं समासाद्य तत् सर्वं व्रजति क्षयम् ॥७॥श्मशानमिति विख्यातमविमुक्तं शिवालयम् ।तद्गुह्यं देवदेवस्य तत्तीर्थं तत्तपोवनम् ॥८॥तत्र ब्रह्मादयो देवा नारायणपुरोगमाः ।योगिनश्च तथा साध्या भगवन्तं सनातनम् ॥९॥उपासन्ते शिवं मुक्ता मद्भक्ता मत्परायणाः ।या गतिर्ज्ञानतपसां या गतिर्यज्ञ याजिनाम् ॥१०॥अविमुक्ते मृतानान्तु सा गतिर्विहिता शुभा ।संहर्तारश्च कर्त्तारस्तस्मिन् ब्रह्मादयः सुराः ॥११॥सम्राङ्विराण्मया लोका जायन्ते ह्यपुनर्भवाः ।महर्जनस्तपश्चैव सत्यलोकस्तथैव च ॥१२॥मनसः परमो योगो भूतभव्यभवस्य च ।ब्रह्मादि स्थावरान्तस्य योनौ साङ्क्यादिमोक्षयोः ॥१३॥येऽविमुक्तं न मुञ्चन्ति नरास्ते नैव चिन्तिताः ।उत्तमं सर्वतीर्थानां स्थानानामुत्तमञ्च यत् ॥१४॥क्षेत्राणामुत्तमञ्चैव श्मशानानां तथैव च ।तटाङ्कानाञ्च सर्वेषां कूपानां स्रोतसां तथा ॥१५॥शैलानामुत्तमञ्चैव तडागानां तथोत्तमम् ।पुण्यकृद् भवभक्तैश्च ह्यविमुक्तन्तु सेव्यते ॥१६॥ब्रह्मणः परमं स्थानं ब्रह्मणाध्यासितञ्च यत् ।ब्रह्मणा सेवितं नित्यं ब्रह्मणा चैव रक्षितम् ॥१७॥अत्रैव सप्तभुवनं काञ्चनो मेरुपर्वतः ।मनसः परमो योगः प्रीत्यर्थ ब्रह्मणः स तु ॥१८॥ब्रह्मा तु तत्र भगवांस्त्रिसन्ध्यं चेश्वरे स्थितः ।पुण्यात् पुण्यतमं क्षेत्रं पुण्यकृद्भिर्निषेवितम् ॥१९॥आदित्योपासनं कृत्वा विप्राश्चामरताङ्गताः ।अन्येऽपि ये त्रयोवर्णा भवभक्त्या समाहिताः ॥२०॥अविमुक्ते तनुन्त्यक्त्वा गच्छन्ति परमाङ्गतिम् ।अष्टौ मासान् विहारस्य यतीनां संयतात्मनाम् ॥२१॥एकत्र चतुरो मासान् मासौ वा निवसेत् पुनः ।अविमुक्ते प्रविष्टानां विहारस्तु न विद्यते ॥२२॥न देहो भविता तत्र दृष्टं शास्त्रे पुरातने ।मोक्षो ह्यसंशयस्तत्र पञ्चत्वन्तु गतस्य वै ॥२३॥स्त्रियः पतिव्रता याश्च भवभक्ताः समाहिताः ।अविमुक्ते विमुक्तास्ता यास्यन्ति परमाङ्गतिम् ॥२४॥अन्या याः कामचारिण्यः स्त्रियो भोगपरायणाः ।कालेन निधनं प्राप्ता गच्छन्ति परमाङ्गतिम् ॥२५॥यत्र योगश्च मोक्षश्च प्राप्यते दुर्लभो नरैः ।अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥२६॥सर्वात्मना तपः सेव्यं ब्राह्मणैर्नात्र संशयः ।अविमुक्ते वसेद्यस्तु मम तुल्यो भवेन्नरः ॥२७॥यतो मया न मुक्तं हि त्वविमुक्तं ततः स्मृतम् ।अविमुक्तं न सेवन्ते मूढा ये तमसावृताः ॥२८॥विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ।कामः क्रोधश्च लोभश्च दम्भस्तम्भोऽति मत्सरः ॥२९॥निद्रा तन्द्रा तथाऽऽलस्यं पैशून्यमिति ते दश ।अविमुक्ते स्थिता विघ्नाः शक्रेण विहिताः स्वयम् ॥३०॥विनायकोपसर्गाश्च सततं मूर्ध्नि तिष्ठति ।पुण्यमेतद् भवेत् सर्वं भक्तानामनुकम्पया ॥३१॥परं गुह्यमिति ज्ञात्वा ततः शास्त्रानुदर्शनात् ।व्याहृतं देवदेवैस्तु मुनिभिस्तत्वदर्शिभिः ॥३२॥मेदसा विप्लुता भूमिरविमुक्ते तु वर्जिता ।पूता समभवत् सर्वा महादेवेन रक्षिता॥३३॥संस्करस्तेन क्रियते भूमेरन्यत्र सूरिभिः ।ये भक्ता वरदं देवमक्षरं परमं पदम् ॥३४॥देवदानवगन्धर्व यक्षरक्षोमहोरगाः ।अविमुक्तमुपासन्ते तन्निष्ठस्तत्परायणाः ॥३५॥ते विशन्ति महादेवमाज्याहुतिरिवानलम् ।तं वै प्राप्य महादेवीमीश्वराध्युषितं शुभम् ॥३६॥अविमुक्तं कृतार्थोऽस्मीत्यात्मानमुपलभ्यते ।ऋषिदेवासुरगणैर्जपहोमपरायणैः ॥३७॥यतिभिर्मोक्षकामैश्च ह्यविमुक्तं निषेव्यते ।नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ॥३८॥ईश्वरानुगृहीता हि सर्वे यान्ति पराङ्गतिम् ।द्वियोजनमयार्द्धञ्च तत् क्षेत्रं पूर्वपश्चिमम् ॥३९॥अर्द्धयोजनविस्तीर्णं दक्षिणोत्तरतः स्मृतम् ।वाराणसी तदीया च यावच्छुक्लनदी तु वै ॥४०॥एतत् क्षेत्रस्य विस्तारः प्रोक्तो देवेन धीमता ।लब्ध्वा योगञ्च मोक्षञ्च काङ्क्षन्तो ज्ञानमुत्तमम् ॥४१॥अविमुक्तं न मुञ्चन्ति तन्निष्ठास्तत्परायणाः ।तस्मिन् वसन्ति ये मर्त्या न ते शोच्याः कदाचन ॥४२॥योगक्षेत्रं तपः क्षेत्रं सिद्धगन्धर्व सेवितम् ।सरितः सागराः शैला नाविमुक्त-समाभुवि ॥४३॥भूर्लोके चान्तरिक्षे च दिवि तीर्थानि यानि च ।अतीत्य वर्तते चान्यदविमुक्तं प्रभावतः ॥४४॥ये तु ध्यानं समासाद्य मुक्तात्मानः समाहिताः ।सन्नियम्येन्द्रियग्रामं जपन्ति शतरुद्रियम् ॥४५॥अविमुक्ते स्थिता नित्यं कृतार्थास्ते द्विजातयः ।भवभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः ॥४६॥संहृत्य शक्तितः कामान् विषयेभ्यो बहिः स्थिताः ।शक्तितः सर्वतो मुक्ताः शक्तितस्तपसि स्थिताः ॥४७॥कारणानीह चात्मानमपुनर्भवभाविताः ।तं वै प्राप्य महात्मानमीश्वरन्निर्भयाः स्थिताः ॥४८॥न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।अविमुक्ते तु गृह्यन्ते भवेन विभुना स्वयम् ॥४९॥उत्पादितं महाक्षेत्रं सिध्यन्ते यत्र मानवाः ।उद्देशमात्रं कथिता अविमुक्तगुणास्तथा ॥५०॥समुद्रस्येव रत्नानामविमुक्तस्य विस्तरम् ।मोहनं तदभक्तानां भक्तानां भक्तिवर्धनम् ॥५१॥मूढास्ते तु न पश्यन्ति श्मशानमिति मोहिताः ।हन्यमानोऽपि यो विद्वान् वसेद्विघ्नशतैरपि ॥५२॥स याति परमं स्थानं यत्र गत्वा न शोचति ।जन्म मृत्यु जरा मुक्तः परं याति शिवालयाम् ॥५३॥अपुनर्मरणानां हि सा गतिर्मोक्ष काङ्क्षिणाम् ।यां प्राप्य कृतकृत्यः स्यादिति मन्येत पण्डितः ॥५४॥न दानैर्न तपोभिर्वा न यज्ञैर्नापि विद्यया ।प्राप्यते गतिरिष्टा या ह्यविमुक्तेतु लभ्यते ॥५५॥नानावर्णा विवर्णाश्च चण्डाला ये जुगुप्सिताः ।किल्बिषैः पूर्णदेहाश्च प्रकृष्टैः पातकैस्तथा ॥५६॥भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ।जात्यन्तरसहस्रेषु ह्यविमुक्ते म्रियेत यः ॥५७॥भक्तो विश्वेश्वरे देवे न स भूयोऽभिजायते ।यत्र चेष्टं हुतं दत्तं तपस्तप्तं कृतं च यत् ॥५८॥सर्वमक्षयमेतस्मिन्नविमुक्ते न संशयः ।कालेनोपरता यान्ति भवे सायुज्यमक्षयम् ॥५९॥कृत्वा पापसहस्राणि पश्चात् सन्तापमेत्य वै ।यो विमुक्ते वियुज्येत स याति परमाङ्गतिम् ॥६०॥उत्तरं दक्षिणं चापि अयनं न विकल्पयेत् ।सर्वस्तेषां शुभः कालो ह्यविमुक्ते म्रियन्ति ये ॥६१॥न यत्र कालो मीमांस्यो शुभो वा यदि वा शुभः ।तस्य देवस्य माहात्म्य-स्थानमद्भुत कर्मणः ॥६२॥सर्वेषामेव नाथस्य सर्वेषां विभुना स्वयम् ।श्रुत्वेदं ऋषयः सर्वे स्कन्देन कथितं पुराअविमुक्ताश्रमं पुण्यं भावयेत् करणैः शुभैः ॥६३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP