मत्स्यपुराणम् - अध्यायः १३९
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
मयस्य युद्धार्थं दानवान्प्रति प्रोत्साहनम् ।
सूत उवाच ।
तारकाख्ये हते युद्धे उत्सार्य प्रमथान् मयः ।
उवाच दानवान् भूयो भूयः स तु भयावृतान् ॥१॥
भोः सुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम् ।
यत् कर्त्तव्यं मया चैव युष्माभिश्च महाबलैः ॥२॥
पुष्यं समेष्यते काले चन्द्र चन्द्रश्च निभाननाः ।
यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति ॥३॥
कुरुध्वं निर्भया! काले कोकिलाशंसितेन च ।
सकालः पुष्ययोगस्य पुरस्य च मया कृतः ॥४॥
काले तस्मिन् पुरे यस्तु सम्भावयति संहतिम् ।
स एनं कारयेच्चूर्णं बलिनैकेषुणा सुरः ॥५॥
योधां प्राणो बलं यच्च या च वो वैरिता सुराः ।! ।
तत् कृत्वा हृदये चैव पालयध्वमिदं पुरम् ॥६॥
महेश्वररथं ह्येकं सर्वप्राणेन भीषणम् ।
विमुखीकुर्वर्तात्यर्थं यथा नोत्सृजते शरम् ॥७॥
तत एवं कृतेऽस्माभिस्त्रिपुरस्यापि रक्षणे ।
प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः ॥८॥
निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः ।
मुहुः सिंहरवं कृत्वा मयमूचुर्यमोपमाः ॥९॥
प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम् ।
तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम् ॥१०॥
अद्य यास्यामः संग्रामे तद्रुद्रस्य जिघांसवः ।
कथयन्ति हितेः पुत्रा हृष्टा भिन्नतनूरुहाः ॥११॥
कल्पं स्थास्यन्ति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम् ।
अदानवं वा भविता नारायणपदत्रयम् ॥१२॥
वयं स्थास्यन्ति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम् ।
अदैवतमदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः ॥१३॥
इति संमन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः ।
प्रदोषे मुदिता भूत्वा चेरुर्मन्मथचारताम् ॥१४॥
मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः
तमांस्युत्सार्य भगवांश्चंद्रो जृम्भति सोऽम्बरम् ॥१५॥
कुमुदालङ्कृते हंसो यथा सरसि विस्तृते ।
सिंहो यथा चोपविष्टो वैढूर्यशिखरे महान् ॥१६॥
विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः ।
तथावगाढे नभसि चन्द्रो त्रिनयनोद्भवः ॥
भ्राजते भ्राजयन् लोकान् सृजत् ज्योत्स्नारसं बलात् ॥१७॥
शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णेपुरे सुराः ।
प्रदोषे ललितं चक्रुर्गृहमात्मनमेव च ॥१८॥
रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च ।
दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः ॥
तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः ॥१९॥
गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च ।
ज्वलतो दीपयन्दीपान् चन्द्रोदयमिव ग्रहाः ॥२०॥
चन्द्रांशुभिर्भासमानमन्तर्दीपैः सुदीपितम् ।
उपद्रवैः कुलमिव पीयते त्रिपुरे तमः ॥२१॥
तस्मिन् पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे ।
रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः ॥२२॥
विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन ।
तत्रासुरेष्वासुरपुङ्गवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः ॥२३॥
कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूर्च्छितांस्तु ।
मत्तप्रलापेषु च कोकिलानां स चापबाणो मदनो ममन्थ ॥२४॥
तमांसि नैशानि द्रुतं निहत्य ज्योत्स्ना वितानेन जगद्वितत्य ।
खे रोहिणीं ताञ्च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुतेऽधिराज्यम् ॥२५॥
स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्रीस्वकपोलमूले ।
धत्ते विशोकं रुदती करोति तेनाननं स्वं समलङ्करोति ॥२६॥
द्रृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा ।
स्मृत्वा वरङ्गीरमणेरितानि तेनैव भावेन रतीमवाप ॥२७॥
रोमाञ्चितैर्गात्रवरैर्युवभ्यो रतानुरागाद्रमणेन चान्याः ।
स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्क्कदिनावसाने ॥२८॥
पेपीयते चातिरसानुविद्धा विमार्गितान् या च प्रियं प्रसन्ना ।
काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च सम्प्रसन्ना ॥२९॥
गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षीरधरा सुरीणाम् ।
मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः ॥३०॥
क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः ।
तन्त्रीप्रलापा स्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनर्विरक्ताः ॥३१॥
क्वचित् प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम् ।
आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तन्त्वत साधयन्ति ॥३२॥
गेयं प्रवृत्तं त्वथ शोधयन्ति केचित् प्रियां तत्र च साधयन्ति ।
केचित् प्रियां सम्प्रति बोधयन्ति सम्बुध्य सम्बुध्य च रामयन्ति ॥३३॥
चूतप्रसूनप्रभवः सुगन्धः सूर्ये गते वै त्रिपुरे बभूव ।
समर्मरी नूपुरमेखलानां शब्दश्च सम्बाधति कोकिलानाम् ॥३४॥
प्रियावगूढा दयितोपगूढा काचित्प्ररूढाङ्गरुहापि नारी ।
सुचारुबाष्पाङ्कुरपल्लवानां नवाम्बुसिक्ता इव भूमिरासीत् ॥३५॥
शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम् ।
पानेन खिन्नादयितातिवेलङ्कपोलमाघ्रासि च किं ममेदम् ॥३६॥
आरोह मे श्रोणिमिमां विशालां पीनोन्नताङ्काञ्चनमेखलाढ्याम् ॥३७॥
रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु ।
दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते ॥३८॥
घण्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्यामदलोलभावात् ॥
सन्दोलयन्ते कलसम्प्रहासाः प्रोवाच काञ्चीगुण-सूक्ष्मनादा ॥३९॥
अम्लानमालान्वितसुन्दरीणाम् पर्याय एषोऽस्ति च हर्षितानाम् ।
श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः ॥४०॥
काञ्चीकलापश्च सहाङ्गरागः प्रेङ्खासुत-द्रासकृताश्च भावाः ।
छिन्दन्ति तासामसुराङ्गनानाम् प्रियालयान्मन्मथमार्गणानाम् ॥४१॥
चित्राम्बरश्चोद्धृतकेशपाशः सन्दोल्यमानः शुशुभेऽसुरीणाम् ।
सुचारुवेषाभरणैरुपेतस्तारागणैर्ज्योतिरिवास चन्द्रः ॥४२॥
सन्दोलनादुच्छसितैश्चिन्नसूत्रैः कालीभ्रष्टैर्मणिभिर्विप्रकीर्णैः ।
दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पार्श्वोपगतैर्विचित्रा ॥४३॥
सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम् ।
शरव्ययं प्राप्य पुरेऽसुराणां प्रक्षीणवाणो मदनश्चचार ॥४४॥
इति तत्र पुरेऽभविष्यतां सपदि हि पश्चिमकौमुदी तदासीत् ।
रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसङ्क्षया अरीणाम् ॥४५॥
चन्द्रोऽथकुन्दकुसुमाकरहारवर्णो ज्योत्स्ना वितान रहितोऽभ्र समानवर्णः ।
विच्छायतां हि समुपेत्य न भाति तद्वद्भाग्यक्षये धनपतिश्च नरो विवर्णः ॥४६॥
चन्द्रप्रभामरुणसारथिनाभिभूय सन्तप्तकाञ्चनरथाङ्गसमानबिम्बः ।
स्थित्वोदयाग्रमुकुटे बहुरेव सूर्य्यो भात्यम्बरे तिमिरतोयवहान्तरिष्यन् ॥४७ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP