संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ५०

मत्स्यपुराणम् - अध्यायः ५०

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कुरुवंशवर्णनम्  ।

सूत उवाच  ।
अजमीढस्य नीलिन्यां नीलः समभवन्नृपः  ।
नीलस्य तपसोग्रेण सुशान्तिरुपपद्यत ॥१॥

पुरुजानुः सुशान्तेस्तु पृथुस्तु पुरुजानुतः  ।
भद्राश्वः पृथुदायादो भद्राश्वतनयान् श्रृणु ॥२॥

मुद्गलश्च जयश्चैव राजा बृहदिषुस्तथा  ।
यवीनरश्च विक्रान्तः कपिलश्चैव पञ्चमः ॥३॥

पञ्चानाञ्चैव पाञ्चलानेतान् जनपदान् विदुः  ।
पञ्चालं रक्षिणो ह्येते देशानामिति नः श्रुतम् ॥४॥

मुद्गलस्यापि मौद्गल्याः क्षत्रोपेता द्विजातयः  ।
एते ह्यङ्गिरसः पक्षं संश्रिताः काण्वमुद्गलाः ॥५॥

मुद्गलस्य सुतो जज्ञे ब्रह्मिष्ठः सुमाहायशाः  ।
इन्द्रसेनः सुतस्तस्य विन्ध्याश्वस्तस्य चात्मजः ॥६॥

विन्ध्याश्वान् मिथुनं जज्ञे मेनकायामितिश्रुतिः  ।
दिवोदासश्च राजर्षि रहल्या च यशस्विनी ॥७॥

शरद्वतस्तु दायादमहल्या सम्प्रसूयत  ।
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहातपाः ॥८॥

सुतः सत्यधृतिर्नाम धनुर्वेदस्य पारगः  ।
आसीत् सत्यधृतेः शुक्रममोघं धार्मिकस्य तु ॥९॥

स्कन्नं रेतः सत्यधृतेर्द्रृष्ट्वा चाप्सरसं जले  ।
मिथुनं तत्र सम्भूतं तस्मिन् सरसि सम्भृतम् ॥१०॥

ततः सरसि तस्मिंस्तु क्रममाणं महीपतिः  ।
द्रृष्ट्वा जग्राह कृपया शन्तनुर्मृगयां गतः ॥११॥

एते शरद्वतः पुत्रा आख्याता गौतमावराः  ।
अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य वै प्रजाः ॥१२॥

दिवोदासस्य दायादो धर्मिष्ठो मित्रयुर्नृपः  ।
मैत्रायणावरः सोऽथ मैत्रेयस्तु ततः स्मृतः ॥१३॥

एते वंश्यायतेः पक्षाः क्षत्रोपेतास्तु भार्गवाः  ।
राजा चैद्यवरो नाम मैत्रेयस्य सुतः स्मृतः ॥१४॥

अथचैद्यवरात् विद्वान् सुदासस्तस्य चात्मजः  ।
अजमीढः पुनर्जातः क्षीणे वंशे तु सोमकः ॥१५॥

सोमकस्य सुतो जन्तुर्हते तस्मिन् शतं बभौ  ।
पुत्राणामजमीढस्य सोमकस्य महात्मनः ॥१६॥

महिषीत्वजमीढस्य धूमिनी पुत्रवर्धिनी  ।
पुत्राभावे तपस्तेपे शतं वर्षाणि दुश्चरम् ॥१७॥

हुत्वाग्निं विधिवत् सम्यक् पवित्रीकृतभोजना  ।
अग्निहोत्रक्रमेणैव सा सुष्वाप महाव्रता ॥१८॥

तस्यां वै धूमवर्णायामजमीढः समीयिवान्  ।
ऋक्षं सा जनयामास धूमवर्णं शताग्रजम् ॥१९॥

ऋक्षात् संवरणो जज्ञे कुरुः संवरणात्ततः  ।
यः प्रयागमतिक्रम्य कुरुक्षेत्रमकल्पयत् ॥२०॥

कृष्यतस्तु महाराजो वर्षाणि सुबहून्यथ  ।
कृष्यमाणस्ततः शक्रो भयात् तस्मै वरन् ददौ ॥२१॥

पुण्यञ्च रमणीयञ्च कुरुक्षेत्रन्तु तत् स्मृतम्  ।
तस्यान्ववायः सुमहान् यस्य नाम्ना तु कौरवाः ॥२२॥

कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नु रेव च  ।
परीक्षिच्च महातेजाः प्रजनश्चारिमर्दनः ॥२३॥

सुधन्वनस्तु दायादः पुत्रो मतिमतां वरः  ।
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थ तत्त्ववित् ॥२४॥

च्यवनस्य कृमिः पुत्र ऋक्षाज्जज्ञे महातपाः  ।
कृमेः पुत्रो महावीर्यः ख्यात इन्द्रसमो विभुः ॥२५॥

चैद्यो परिचरो वीरो वसुर्नामन्तरिक्षगः  ।
चैद्यो परिचराज्जज्ञे गिरिका सप्त वै सुतान् ॥२६॥

महारथो मगधराट् विश्रुतो यो बृहद्रथः  ।
प्रत्यश्रवाः कुशश्चैव चतुर्थो हरिवाहनः ॥२७॥

पञ्चमश्च यजुश्चैव मत्स्यः काली च सप्तमी  ।
बृहद्रथस्य दायादः कुशाग्रो नामविश्रुतः ॥२८॥

कुशाग्रस्यात्मजश्चैव वृषभो नामवीर्यवान्  ।
वृषभस्य तु दायादः पुण्यवान् नाम पार्थिवः ॥२९॥

पुण्यः पुण्यवतश्चैव राजा सत्यधृतिस्ततः  ।
दायादस्तस्य धनुषस्तस्मात् सर्वश्च जज्ञिवान् ॥३०॥

सर्वस्य सम्भवः पुत्रस्तस्माद्राजा बृहद्रथः  ।
द्वे तस्य शकले जाते जरया सन्धितश्च सः ॥३१॥

जरया सन्धितो यस्माज्जरासन्धस्ततः स्मृतः   ।
जेता सर्वस्य क्षत्रस्य जरासन्धो महाबलः ॥३२॥

जरासन्धस्य पुत्रस्तु सहदेवः प्रतापवान्  ।
सहदेवात्मजः श्रीमान् सोमवित्स महातपाः ॥३३॥

श्रुतश्रवास्तु सोमादेर्मागधाः परिकीर्तिताः  ।
जह्नुस्त्वजनयत् पुत्रं सुरथं नाम भूमिपम् ॥३४॥

सुरथस्य तु दायादो वीरो राजा विदूरथः  ।
विदूरथ सुतश्चापि सार्वभौम इति स्मृतः ॥३५॥

सार्वभौमात् जयत् सेनो रुचिरस्तस्य चात्मजः  ।
रुचिरात्तु ततो भौम स्त्वरितायुस्ततोऽभवत् ॥३६॥

अक्रोधनस्त्वायुसुत स्तस्माद्देवातिथिः स्मृतः  ।
देवातिथेस्तु दायादो दक्ष एव बभूव ह ॥३७॥

भीमसेनस्ततो दक्षाद् दिलीपस्तस्य चात्मजः  ।
दिलीपस्य प्रतीरस्तु तस्य पुत्रास्त्रयः स्मृताः ॥३८॥

देवापिः शन्तनुश्चैव बाह्लीकश्चैव ते त्रयः  ।
बाह्लीकस्य तु दायादाः सप्त बाह्लीश्वरानृप!
देवापिस्तु ह्यपध्यातः प्रजाभिरभवन् मुनिः ॥३९॥

मुनय ऊचुः  ।
प्रजाभिस्तु किमर्थं वै अपध्यातो जनेश्वरः  ।
को दोषो राजपुत्रस्य प्रजाभिः समुदाहृतः ॥४०॥

सूत उवाच  ।
किलासीद्राजपुत्रस्तु कुष्ठितं नाभ्यपूजयन्  ।
भविष्यं कीर्तयिष्यामि शन्तनोस्तु निबोधत ॥४१॥

शन्तनुस्त्वभवद्राजा विद्वान् सो वै महाभिषक्  ।
इदं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषक् ॥४२॥

यं यं कराभ्यां स्पृशति जीर्णं रोगिणमेव च  ।
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥४३॥

तत्तस्य शन्तनु त्वं हि प्रजाभिरिह कीर्त्यते  ।
ततो वृणुत भार्यार्थं शन्तनुर्जाह्नवीं नृपः ॥४४॥

तस्यां देवव्रतं नाम कुमारं जनयद् विभुः  ।
काली विचित्रवीर्य्यन्तु दासेयोऽजनयत् सुतम् ॥४५॥

शन्तनोर्दयितं पुत्रं शान्तात्मानमकल्मषम्  ।
कृष्णद्वैपायनो नाम क्षेत्रे वैचित्रवीर्य्यके ॥४६॥

धृतराष्ट्रञ्च पाण्डुञ्च विदुरं चाप्यजीजनत्  ।
धृतराष्ट्रस्तु गान्धार्य्यां पुत्रानजनयत् शतम् ॥४७॥

तेषां दुर्योधनः श्रेष्ठः सर्वक्षत्रस्य वै प्रभुः  ।
माद्री कुन्ती तथा चैव पाण्डोर्भार्ये बभूवतुः ॥४८॥

देवदत्ताः सुताः पञ्च पाण्डोरर्थेऽभिज्ञिरे  ।
धर्माद्युघिष्ठिरो जज्ञे मारुताच्च वृकोदरः ॥४९॥

इन्द्राद्धनञ्जयश्चैव इन्द्रतुल्य पराक्रमः  ।
नकुलं सहदेवञ्च माद्र्यशिवाभ्यामजीजनत् ॥५०॥

पञ्चैते पाण्डवेभ्यस्तु द्रौपद्यां जज्ञिरे सुताः  ।
द्रौपद्यजनयच्छ्रेष्ठं प्रतिविन्ध्यं युधिष्ठिरात् ॥५१॥

श्रुतसेनं भीमसेनाच्छ्रुतकीर्तिं धनञ्जयात्  ।
चतुर्थं श्रुतकर्माणं सहदेवादजायत ॥५२॥

नकुलाच्च शतानीकं द्रौपदेयाः प्रकीर्त्तिताः  ।
तेभ्योऽपरे पाण्डवेयाः षडेवान्ये महारथाः ॥५३॥

हैडम्बो भीमसेनात्तु पुत्रो जज्ञे घटोत्कचः  ।
काशीबलधरात् भीमाज्जज्ञे वै सर्वगं सुतम् ॥५४॥

सुहोत्रं तनयं माद्री सहदेवादसूयत  ।
करेणुमत्यां चैद्यायां निरमित्रस्तु नाकुलिः ॥५५॥

सुभद्राया रथी पार्थादभिमन्युरजायत  ।
योधेयं देवकीचैव पुत्रं यज्ञे युधिष्ठिरात् ॥५६॥

अभिमन्योः परिक्षित्तु पुत्रः परपुरञ्जयः  ।
जनमेजयः परिक्षितः पुत्रः परमधार्मिकः ॥५७॥

ब्रह्माणं कल्पयामास स वै वाजसनेयकम्  ।
स वैशम्पायनेनैव शप्तः किल महर्षिणा ॥५८॥

न स्तास्यतीह दुर्बुद्धे! तवैतद्वचनं भुवि  ।
यावत् स्थास्यसि त्वं लोके तावदेव प्रपत्स्यति ॥५९॥

क्षत्रस्य विजयं ज्ञात्वा ततः प्रभृति सर्वशः  ।
आभगम्य स्थिताश्चैव नृपञ्च जनमेजयम् ॥६०॥

ततः प्रभृति शापेन क्षत्रियस्य तु याजिनः  ।
उत्सन्ना याजिनो यज्ञे ततः प्रभृति सर्वशः ॥६१॥

क्षत्रस्ययाजिनः केचित् शापात्तस्य महात्मनः  ।
पौर्णमासेन हविषा इष्ट्वा तस्मिन् प्रजापतिम् ॥
स वैशम्पायने नैव प्रविशन् वारितस्ततः ॥६२॥

परिक्षितः सुतः सो वै पौरवो जनमेजयः  ।
द्विरश्वमेधमाहृत्य महावाजसनेयकः ॥६३॥

प्रवर्तयित्वा तं सर्वमृषिं वाजसनेयकम्  ।
विवादे ब्राह्मणैः सार्दमभिशप्तो वनं ययौ ॥६४॥

जनमेजयाच्छतानीकस्तस्माज्जज्ञे स वीर्यवान्  ।
जनमेजयः शतानीकं पुत्रं राज्येऽभिषिक्तवान् ॥६५॥

अथाश्वमेधेन ततः शतानीकस्य वीर्यवान्  ।
जज्ञेऽधिसोमकृष्णाख्यः साम्प्रतं यो महायशाः ॥६६॥

तस्मिन् शासति राष्ट्रे तु युष्माभिरिदमाहृतम्  ।
दुरापं दीर्घसत्रं वै त्रीणि वर्षाणि पुष्करे
वर्षद्वयं कुरक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥६७॥

मुनय ऊचुः  ।
भविष्यं श्रोतुमिच्छामः प्रजानां लोमहर्षणे  ।
पुरा किल यदेतद्वै व्यतीतं कीर्तितं त्वया ॥६८॥

येषु वै स्थास्यते क्षत्रं उत्पत्स्यन्ते नृपाश्चये  ।
तेषामायुः प्रमाणञ्च नामतश्चैव तान्नृपान् ॥६९॥

कृतयुगप्रमाणञ्च त्रेताद्वापरयोस्तथा  ।
कलियुगप्रमाणञ्च युगदोषं युगक्षयम् ॥७०॥

सुखदुःखप्रमाणञ्च प्रजादोषं युगस्य तु  ।
एतत्सर्वं प्रसंख्याय पृच्छतां ब्रूहि नः प्रभो ॥७१॥

सूत उवाच  ।
यथा मे कीर्तितं पूर्वं व्यासेनाक्लिष्टकर्म्मणा  ।
भाव्यं कलियुगञ्चैव तथा मन्वन्तराणि च ॥७२॥

अनागतानि सर्वाणि ब्रुवतो मे निबोधत  ।
अत ऊर्ध्वं प्रवक्ष्यामि भविष्या ये नृपास्तथा ॥७३॥

ऐडेक्ष्वाकान्वये चैव पौरवे चान्वये तथा  ।
येषु संस्थास्यते तच्च ऐक्ष्वाकु कुलं शुभम् ॥
तान् सर्वान् कीर्त्तयिष्यामि भविष्ये कथितान्नृपान् ॥७४॥

तेभ्योऽपरेऽपि ये त्वन्ये ह्युत्पत्स्यन्ते नृपाः पुनः  ।
क्षत्राः पराशवाः शूद्रास्तथान्ये ये महीश्वराः ॥७५॥

अन्धाः शकाः पुलिन्दाश्च चूलिका यवनास्तथा  ।
कैवर्त्ताभीरशवरा ये चान्यम्लेच्छसम्भवाः ॥
पर्य्यायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥७६॥

अधिसोमकृष्णश्चैतेषां प्रथमं वर्त्तते नृपः  ।
तस्यान्ववाये वक्ष्यामि भविष्ये कथितान्नृपान् ॥७७॥

त्यक्त्वा विवक्षुर्नगरं कौशाम्ब्यान्तु निवत्स्यति  ।
भविष्याष्टौ सुतास्तस्य महाबलपराक्रमाः ॥७९॥

भूरिर्ज्येष्ठः सुतस्तस्य तस्य चित्ररथः स्मृतः  ।
शुचिद्रवश्चित्ररथात् वृष्णिमांश्च शुचिद्रवात् ॥८०॥

वृष्णिमतः सुषेणश्च भविष्यति शुचिर्नृपः  ।
तस्मात् सुषेणात् भविता सुनीथो नाम पार्थिवः ॥८१॥

नृपात् सुनीथाद् भविता नृचक्षुः सुमहायशाः  ।
नृचक्षुषस्तु दायादो भविता वै सुखीबलः ॥८२॥

सुखीबलसुतश्चापि भावी राजा परिष्णवः  ।
परिष्णवसुतश्चापि भविता सुतपा नृपः ॥८३॥

मेधावी तस्य दायादो भविष्यति न संशयः  ।
मेधाविनः सुतश्चापि भविष्यति पुरञ्जयः ॥८४॥

उर्वो भाव्यः सुतस्तस्य तिग्मात्मा तस्य चात्मजः  ।
तिग्मात् बृहद्रथो भाव्यो वसुदामा बृहद्रथात् ॥८५॥

वसुदाम्नः शतानीको भविष्योदयनस्ततः  ।
भविष्यते च दयनात् वीरो राजा वहीनरः ॥८६॥

वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति  ।
दण्डपाणेर्निरामित्रो निरामित्रात्तु क्षेमकः ॥८७॥

अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुरातनैः  ।
ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ॥
क्षेमकं प्राप्य राजानं संस्थास्यति कलौ युगे ॥८८॥

इत्येष पौरवो वंशो यथावदिह कीर्त्तितः  ।
धीमतः पाण्डुपुत्रस्य अर्जुनस्य महात्मनः ॥८९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP