संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २५५ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २५५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २५५ Translation - भाषांतर दिलीप उवाच-कथितं भवता ब्रह्मन्सर्वधर्ममशेषतःसामान्यं च विशिष्टं च स्वरूपं परजीवयोः ॥१॥स्वर्गापवर्गौ कथितौ साधनं च तयोरपिधन्योऽस्म्यहं द्विजश्रेष्ठ त्वत्प्रसादात्सदागुरो ॥२॥एकमन्यं द्विजश्रेष्ठ पृच्छामि त्वां कुतूहलात्कथयस्व यथातथ्यमपि वात्सल्यगौरवात् ॥३॥महाभागवतश्रेष्ठो रुद्रस्त्रिपुरहंतकःकस्माद्विगर्हितं रूपं प्राप्तवान्सह भार्य्यया ॥४॥योनिलिंगस्वरूपं च कथं स्यात्सुमहात्मनःपंचवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः ॥५॥कथं विगर्हितं रूपं प्राप्तवान्द्विजपुंगवएवं सर्वं समाचक्ष्व मित्रावरुणनंदन ॥६॥वसिष्ठ उवाच-शृणु राजन्प्रवक्ष्यामि यन्मां पृच्छसि गौरवात्विशुद्धहृदये पुंसां बुद्धिः श्रेयसि जायते ॥७॥स्वायंभुवो मनुः पूर्वं मंदरे पर्वतोत्तमेजगाम मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् ॥८॥तस्मिन्समागताः सर्वे मुनयः शंसितव्रताःनानाशास्त्रविदः श्रेष्ठा बालसूर्य्यानलप्रभाः ॥९॥सर्ववेदविदो विप्राः सर्वधर्मपरायणाःवर्तमाने महासत्रे मुनयः क्षीणकल्मषाः ॥१०॥अन्वेष्टुंदेवतातत्वंमिथः प्रोचुस्तपोधनाःविप्राणां वेदविदुषां कः पूज्यो देवता वरः ॥११॥ब्रह्मविष्णुमहेशानां कः स्तुतो मुक्तिदो नृणाम्कस्यपादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् ॥१२॥कोऽव्ययः परमं धाम परमात्मा सनातनःकस्य प्रसादं तीर्थं च पितॄणां तृप्तिदं भवेत् ॥१३॥तेषां समुपविष्टानां इति वादो महानभूत्रुद्रमेकमिति प्रोचुः केचिदत्र महर्षयः ॥१४॥ब्रह्मैव पूज्य इत्यन्ये वदंति मुनिसत्तमाःसूर्य एवात्मनां पूज्य इत्यन्ये प्राहुरुत्तमाः ॥१५॥योऽसो सर्वगतः श्रीमाञ्छ्रीपतिः पुरुषोत्तमःअव्ययः पुंडरीकाक्षो वासुदेवः परात्परः ॥१६॥अनादिनिधनो विष्णुः स एव परमेश्वरःसंपूज्यो देवताश्रेष्ठ इत्यन्ये चोचिरे द्विजाः ॥१७॥तेषां विवदतां तत्र मनुः स्वायंभुवोऽब्रवीत्शुद्धसत्वमयो योऽसौ कल्याणगुणवान्प्रभुः ॥१८॥पुंडरीकेक्षणः श्रीमाञ्छ्रीपतिः पुरुषोत्तमःविप्राणां वेदविदुषां एक एवार्चितः प्रभुः ॥१९॥विप्राणां नेतरे पूज्या रजस्तमविमिश्रिताःइति तस्य वचः श्रुत्वा सर्व एव महर्षयःभृगुं तपोनिधिं विप्रं प्रोचुः प्रांजलयस्तथा ॥२०॥ऋषय ऊचुः-अस्माकं संशयं छेत्तुं त्वं समर्थोऽसि सुव्रतब्रह्मविष्णुमहेशानामंतिकं व्रज सुव्रत ॥२१॥गत्वा तेषां समीपं तु तथा दृष्ट्वा तु विग्रहान्शुद्धसत्वगुणं तेषां यस्मिन्संविद्यते मुने ॥२२॥स एव पूज्यो विप्राणां नेतरस्तु कदाचनशुद्धसत्वमयः साक्षाद्ब्रह्मण्यः स भविष्यति ॥२३॥तीर्थप्रसादवाँल्लोके विप्राणां स भविष्यतिदेवतानां पितॄणां च तस्योच्छिष्टं सुपावनम् ॥२४॥तस्माद्याहि मुनिश्रेष्ठ विबुधानां निवासनम्क्षिप्रं कुरु मुनिश्रेष्ठ सर्वलोकहितं प्रभो ॥२५॥एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमःजगाम वामदेवेन यत्रास्ते वृषभध्वजः ॥२६॥गृहद्वारमुपागम्य शंकरस्य महात्मनःशूलहस्तं महारौद्रं नंदिं द्दष्ट्वाब्रवीद्दिवजः ॥२७॥संप्राप्तोऽहं भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम्निवेदयस्व मां शीघ्रं शंकराय महात्मने ॥२८॥तस्य तद्वचनं श्रुत्वा नंदी सर्वगणेश्वरःउवाच परुषं वाक्यं महर्षिममितौजसम् ॥२९॥असांनिध्यं प्रभोस्तस्य देव्या क्रीडति शंकरःनिवर्त्तस्व मुनिश्रेष्ठ यदि जीवितुमिच्छसि ॥३०॥एवं निराकृतस्तेन तत्रातिष्ठन्महातपाःबहूनि दिवसान्यस्मिन्गृहद्वारि महेशितुः ॥३१॥नारीसंगममत्तोऽसौ यस्मान्मामवमन्यतेयोनिलिंगस्वरूपं वै तस्मात्तस्य भविष्यति ॥३२॥ब्राह्मणं मावजानाति तमसा समुपागतःअब्रह्मण्यत्वमापन्नो ह्यपूज्योऽसौ द्विजन्मनाम् ॥३३॥तस्मादन्नं जलं पुष्पं तस्मै दत्तं हविस्तथानिर्माल्यमस्य तत्सर्वं भविष्यति न संशयः ॥३४॥एवं शप्त्वा महातेजाः शंकरं लोकपूजितम्उवाच गणमत्युग्रं नंदिं शूलधरं नृप ॥३५॥रुद्र भक्ताश्च ये लोके भस्मलिंगास्थिधारिणःते पाखंडत्वमापन्ना वेदबाह्या भवंतु वै ॥३६॥एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहंतकम्जगाम ब्रह्मलोकं वै सर्वलोकनमस्कृतम् ॥३७॥तत्र दैवैः सहासीनं ब्रह्माणं परमेष्ठिनम्दृष्ट्वा प्रांजलिना देवं प्रणनाम महामतिः ॥३८॥प्रणम्य पुरतस्तस्य तूष्णीमास महातपाःतं दृष्ट्वा मुनिशार्दूलं रजोगुण समावृतः ॥३९॥नार्चयामास धाताऽसौ महर्षिं समुपागतम्प्रत्युत्थानं प्रियं वाक्यं न कृतं तस्य वेधसा ॥४०॥ऐश्वर्येणैव महता तस्थौ तत्रांबुजासनःतं दृष्ट्वा रजसोद्रिक्तं महर्षिः पंकजासनम् ॥४१॥व्याजहार महातेजा वाक्यं लोकपितामहःरजसा महतोद्रिक्तो यस्मान्मामवमन्यसे ॥४२॥तस्मात्त्वं सर्वलोकानामपूज्यत्वं समाप्नुहिएवं शप्त्वा महात्मानं ब्रह्माणं लोकपूजितम् ॥४३॥जगाम सहसा विप्रो भगवन्मंदिरं भृगुःप्रविश्य वैष्णवं लोकं क्षीराब्धेरुत्तरे तटे ॥४४॥तत्रस्थितैर्महाभागैः पूज्यमानो यथार्हतःतत्रानिवार्य्यमाणस्तु प्रविष्टोंतःपुरं द्विजः ॥४५॥प्रविश्य तस्मिन्विमले विमाने रविसन्निभेशयानं नागपर्यंके ददर्श कमलापतिम् ॥४६॥लक्ष्मीकरसरोजाभ्यां मृज्यमानपदद्वयम्तं दृष्ट्वा मुनिशार्दूलो भृगुः कोपसमन्वितः ॥४७॥सव्यं पादं प्रचिक्षेप विष्णोर्वक्षसि शोभनेतूर्णमुत्थाय भगवान्धन्योस्मीति वदन्मुदा ॥४८॥हस्ताभ्यां चरणं तस्य पीडयामास हर्षितःशनैर्मृदित्वा तत्पादं मधुरं वाक्यमब्रवीत् ॥४९॥धन्योस्म्यद्यैव विप्रर्षे कृतकृत्योस्मि सर्वदात्वत्पादस्पर्शनाद्देहे मंगलं मे भविष्यति ॥५०॥ समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवःअपारसंसारसमुद्र सेतवः पुनंतु मां ब्राह्मणपादपांसवः ॥५१॥विप्रपादरजो यस्य देहे तिष्ठति सर्वदागंगादिसर्वतीर्थानि तस्य तिष्ठंत्यसंशयम् ॥५२॥इत्युक्त्वा सहसोत्थाय देव्या सार्द्धं जनार्दनःभक्त्या समर्चयामास दिव्यस्रक्चंदनादिभिः ॥५३॥तं दृष्ट्वा मुनिशार्दूलो हर्षपूर्णोऽश्रुलोचनःउत्थायासनमुख्यात्तं प्रणनाम दयानिधिम्कृतांजलिपुटोभूत्वा हर्षात्प्राह महातपाः ॥५४॥श्रीभृगुरुवाच-अहोरूपमहोशांतिरहोज्ञानमहो दयाअहो सुनिर्मला क्षांतिरहो सत्वगुणं हरेः ॥५५॥नैसर्गिकं शुभं सत्वं तथैव गुणवारिधेःनान्येषां विद्यते किंचित्सर्वेषां त्रिदिवौकसाम् ॥५६॥ब्रह्मण्यश्च शरण्यश्च त्वमेव पुरुषोत्तमःब्राह्मणानां त्वमेवेशो नान्यः पूज्यः सुरः क्वचित् ॥५७॥येऽर्चयंति सुरानन्यांस्त्वां विना पुरुषोत्तमते पाखंडत्वमापन्नाः सर्वलोकविगर्हिताः ॥५८॥विप्राणां वेदविदुषां त्वमेवेज्यो जनार्दनःनान्यः कश्चित्सुराणां तु पूजनीयः कदाचन ॥५९॥अनर्च्याब्रह्मरुद्राद्या रजस्तमोविमिश्रिताःत्वं शुद्धसत्वगुणवान्पूजनीयोऽग्रजन्मनाम् ॥६०॥त्वत्पादसलिलं सेव्यं पितॄणां च दिवौकसाम्सर्वेषां भूसुराणां च मुक्तिदं कल्मषापहम् ॥६१॥त्वद्भुक्तोच्छिष्टशेषं वै पितॄणां च दिवौकसाम्भूसुराणां च सेव्यं स्यान्नान्येषां तु कदाचन ॥६२॥इतरेषां तु देवानामन्नं पुष्पं जलं तथाअस्पृश्यं तु भवेत्सर्वं निर्माल्यं सुरयासमम् ॥६३॥तस्माद्वै ब्राह्मणो नित्यं पूजयित्वा सनातनम्त्वत्तीर्थं भुक्तमन्नं च भजेतैवानिशं बुधः ॥६४॥नान्यं देवं तु वीक्षेत ब्राह्मणो न च पूजयेत्नान्यप्रसादं भुंजीत नान्यदायतनं विशेत् ॥६५॥न ददातीह यो विप्रः पितॄणां श्राद्धकर्मणित्वद्भुक्तमन्नं तीर्थं च तत्सर्वं निष्फलं भवेत् ॥६६॥कल्पकोटिसहस्राणि कल्पकोटिशतानि चपतंति पितरस्तस्य नरके पूयशोणिते ॥६७॥निवेदितं तव विभो यो जुहोति ददाति वादेवतानां पितॄणां च तृप्तिरानंत्यमश्नुते ॥६८॥तस्मात्त्वमेव विप्राणां पूज्यो नान्योस्ति कश्चनमोहाद्यः पूजयेदन्यान्स पाखंडी भविष्यति ॥६९॥त्वं हि नारायणः श्रीमान्वासुदेवः सनातनःविष्णुः सर्वगतो नित्यः परमात्मा महेश्वरः ॥७०॥त्वमेव सेव्यो विप्राणां ब्रह्मण्यः शुद्धसत्ववान्पूज्यत्वाद्ब्राह्मणानां वै शुद्धसत्वगुणादपि ॥७१॥सर्वेषामेव देवानां ब्राह्मणत्वमवाप्नुहित्वामेव हि सदा विप्रा भजंति पुरुषोत्तमम् ॥७२॥ब्राह्मणास्ते बभूवुस्तु नान्यास्तत्र न संशयःब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ॥७३॥ब्रह्मण्यः पुंडरीकाक्षो ब्रह्मण्यो विष्णुरच्युतःब्रह्मण्यो भगवान्कृष्णो वासुदेवोऽच्युतो हरिः ॥७४॥ब्रह्मण्यो नारसिंहः स्यात्तथा नारायणोऽव्ययःब्रह्मण्यः श्रीधरः श्रीशो गोविंदो वामनस्तथा ॥७५॥ब्रह्मण्यो यज्ञवाराहः केशवः पुरुषोत्तमःब्रह्मण्यो राघवः श्रीमान्रामो राजीवलोचनः ॥७६॥ब्रह्मण्यः पद्मनाभः स्यात्तथा दामोदरः प्रभुःब्रह्मण्यो माधवो यज्ञस्तथा त्रिविक्रमः प्रभुः ॥७७॥ब्रह्मण्यश्च हृषीकेशः पीतवासा जनार्दनःनमो ब्रह्मण्यदेवाय वासुदेवाय शार्ङ्गिणे ॥७८॥नारायणाय श्रीशाय पुंडरीकेक्षणाय चनमो ब्रह्मण्यदेवाय वासुदेवाय विष्णवे ॥७९॥कल्याणगुणपूर्णाय नमस्ते परमात्मनेनमो ब्रह्मण्यदेवाय सर्वदेवस्वरूपिणे ॥८०॥वाराहवपुषे नित्यं त्रयीनाथाय ते नमःनमो ब्रह्मण्यदेवाय नागपर्य्यंकशायिने ॥८१॥राजीवदलनेत्राय राघवाय नमो नमःमायया मोहिताः सर्वे देवाश्च ऋषयस्तव ॥८२॥न जानंति महात्मानं सर्वलोकेश्वरं प्रभोत्वां न जानंति भगवन्सर्ववेदविदोऽपि हि ॥८३॥नामरूपगुणैः श्रीश चारित्रैरपि दुष्कृतैःपरत्वसूचकं सत्वं तव वेदितुमीश्वरः ॥८४॥महर्षिभिः प्रेषितोऽहमागतोस्मि तवांतिकम्तव शीलगुणाञ्ज्ञातुं चरणं मम केशव ॥८५॥दत्तं वक्षसि गोविंद तत्क्षंतव्यं कृपानिधेएवमुक्त्वा भृगुर्देवं प्रणम्य च मुहुर्मुहुः ॥८६॥दिव्यैर्महर्षिभिस्तत्र पूज्यमानो महात्मभिःपुनर्जगाम हृष्टात्मा यज्ञभूमिं शुभाह्वयाम् ॥८७॥समागतं महात्मानं तत्र दृष्ट्वा महर्षयःप्रत्युत्थाय नमस्कृत्वा पूजां चक्रुर्विधानतः ॥८८॥तेषां विज्ञापयामास तत्सर्वं मुनिपुंगवःरजस्तमगुणोद्रिक्तो विधीशानौ सुरोत्तमौ ॥८९॥शप्तौ मया न पूज्यौ तौ विप्राणामृषिसत्तमाःअब्रह्मण्यत्वमापन्नो गर्हितं रूपमास्थितः ॥९०॥शप्तः कैलासशिखरे शंकरस्तमसावृतःशुद्धसत्वमयो विष्णुः कल्याणगुणसागरः ॥९१॥नारायणः परं ब्रह्म विप्राणां दैवतं हरिःब्रह्मण्यः श्रीपतिर्विष्णुर्वासुदेवो जनार्दनः ॥९२॥ब्रह्मण्यः पुंडरीकाक्षो गोविंदो हरिरच्युतःस एव पूज्यो विप्राणां नेतरः पुरुषर्षभाः ॥९३॥मोहाद्यः पूजयेदन्यं स पाखंडी भविष्यतिस्मरणादेव कृष्णस्य विमुक्तिः पापिनामपि ॥९४॥तस्य पादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम्स्वर्गापवर्गदं नॄणां ब्राह्मणानां विशेषतः ॥९५॥विष्णोर्निवेदितं नित्यं देवेभ्यो जुहुयाद्धविःपितृभ्यश्चैव तद्दद्यात्सर्वमानंत्यमश्नुते ॥९६॥यो न दद्याद्धरेर्भुक्तं पितॄणां श्राद्धकर्मणिअश्नंति पितरस्तस्य विण्मूत्रं सततं द्विजाः ॥९७॥तस्माद्विष्णोः प्रसादो वै सेवितव्यो द्विजन्मनाम्इतरेषां तु देवानां निर्माल्यं गर्हितं भवेत् ॥९८॥सकृदेव हि योश्नाति ब्राह्मणो ज्ञानदुर्बलःनिर्माल्यं शंकरादीनां स चांडालो भवेद्ध्रुवम् ॥९९॥कल्पकोटिसहस्राणि पच्यते नरकाग्निनानिर्माल्यं भो द्विजश्रेष्ठा रुद्रादीनां दिवौकसाम् ॥१००॥ रक्षोयक्षपिशाचान्नं मद्यमांससमं स्मृतम्तद्ब्राह्मणैर्न भोक्तव्यं देवानां भुंजितं हविः ॥१०१॥तस्मादन्यं परित्यज्य विष्णुमेव सनातनम्पूजयध्वं द्विजश्रेष्ठा यावज्जीवमतंद्रिताः ॥१०२॥तद्विष्णोः परमं धाममन्यंतो गतसंशयाःतापादिपंचसंस्कारैरन्विष्टाः शुभचेतसः ॥१०३॥अप्राकृतं हरिं सम्यगर्चयध्वं द्विजर्षभाःचक्रांकितभुजा विप्रा भवंत्यप्राकृताः शुभाः ॥१०४॥चक्रलांछनहीनास्तु प्राकृतास्तामसा स्मृताःतस्मात्प्राकृतसंसर्ग पापौघ दहनं हरेः ॥१०५॥प्रतप्तं बिभृयाच्चक्रं शंखं च भुजमूलयोःउर्द्ध्वपुंड्राणि चांगेषु धृत्वा शास्त्रोक्तमार्गतः ॥१०६॥अर्चयेन्मंत्ररत्नेन विधिना पुरुषोत्तमम्तस्य प्रसादसेवां च कुर्य्यान्नित्यमतंद्रितः ॥१०७॥तस्यावरणपूजायां त्रिदशानर्चयेत्सदातमेव सर्वयज्ञानां भोक्तारं परमेश्वरम् ॥१०८॥ज्ञात्वा वै जुहुयाद्दद्याज्जपेद्वै सततं द्विजाः ॥१०९॥वसिष्ठ उवाच-एवमुक्तास्तु ते सर्वे ऋषयः क्षीणकल्मषाःनमस्कृत्य भृगुं सम्यगूचुः प्रांजलयस्तदा ॥११०॥ऋषय ऊचुःभगवन्संशयछेत्ता त्वमेव द्विजसत्तमत्वं वै लोकगतिर्ब्रह्मंस्त्वमेव परमा गतिः ॥१११॥त्वमेव परमोधर्मस्त्वमेव परमं तपःत्वत्प्रसादाद्वयं विप्र भविष्यामो हि नान्यथा ॥११२॥वसिष्ठ उवाच-एवं स्तुत्वा भृगुं विप्रं सर्व एव महर्षयःतस्मात्संप्राप्तमंत्रा वै पूजयामासुरच्युतम् ॥११३॥एतत्ते सर्वमाख्यातं प्रसंगात्पार्थिवोत्तमरामस्य हस्तकमलस्पर्शनाद्वै नृपोत्तम ॥११४भविष्यत्यमलं तच्च रूपं लोकविगर्हितम्राघवः सर्वदेवानां पावनः पुरुषोत्तमः ॥११५॥स्पृष्टा दृष्टाश्च तेनैव विमलाः शंकरादयःसर्वेषामपि देवानां पिता माता जनार्दनः ॥११६॥त्राता च सर्वलोकानां वात्सल्यगुणसागरःतमेव शरणं गच्छ यदीच्छेत्परमं पदम् ॥११७॥एतत्ते सर्वमाख्यातं पुराणं वेदसंमितम्ब्रह्मणा कथितं राजन्मनु स्वायंभुवोंतरे ॥११८॥विष्णुभक्तिविनीतस्य शुद्धसत्वस्य नान्यथातस्य संश्रावयेन्नित्यं विमुक्ता सा हरेः कथा ॥११९॥शंखचक्रोर्द्ध्वपुंड्रादि विहितो वाचकः पुमान्तन्मुखाच्छ्रूयतां नित्यं पुत्री भवसि नान्यथा ॥१२०॥यस्त्विदं श्रावयेन्नित्यं पठेद्वा सुसमाहितःअनन्यभक्तिः श्रीशस्य जायते तस्य सर्वदा ॥१२१॥विद्यार्थी लभते विद्यां धर्मार्थी धर्ममाप्नुयात्मोक्षार्थी लभते मोक्षं कामार्थी लभते सुखम् ॥१२२॥द्वादश्यां श्रवणार्के च संक्रांतौ ग्रहणे तथाअमावस्यां पौर्णमास्यां पठेद्भक्तिसमन्वितः ॥१२३॥श्लोकार्द्धं श्लोकपादं वा पठेद्यस्तु समाहितःअश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः ॥१२४॥इत्येतत्कथितं गुह्यं पुराणं संहितात्मकम्अर्चयस्व हृषीकेशं यदीच्छसि परमं पदम् ॥१२५॥सूत उवाच-एवमुक्तो वसिष्ठेन गुरुणा नृपसत्तमःप्रणम्य च गुरुं राजा पूजयित्वा यथार्हतः ॥१२६॥तस्मात्संप्राप्तमंत्रोऽसौ विधिना द्विजसत्तमात्अर्चयित्वा हृषीकेशं यावज्जीवमतंद्रितःकाले हरिपदं प्राप योगिगम्यं सनातनम् ॥१२७॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां वैयासिक्यामुत्तरखंडे भृगुपरीक्षाकथनंनाम पंचपंचाशदधिकद्विशततमोऽध्यायः ॥२५५॥इति श्रीपाद्मे महापुराणे षष्ठमुत्तरखण्डं समाप्तम् N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP