संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २२४

उत्तरखण्डः - अध्यायः २२४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


दिलीप उवाच-
भगवन्सर्वमाचक्ष्व हरिभक्तिसुधामयम्
शृण्वतो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहाम् ॥१॥
तापत्रयमहाज्वाला वह्निभिः सततं नृणाम्
संतप्तानां मुनिश्रेष्ठ विष्णुभक्तिसुधार्णवम् ॥२॥
विना किमन्यच्छरणं भवारण्ये भयानके
आचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुने
उपास्यमानान्सततं मुनिभिः परमात्मनः ॥३॥
वसिष्ठ उवाच-
साधु पृच्छसि राजेंद्र संसारोत्तारणं नॄणां
वैकुंठस्य परेशस्य भक्तिं नित्यसुखावहाम् ॥४॥
इममेवं महाप्रश्नं कैलासशिखरे पुरा
पप्रच्छ गिरिजादेवी शंकरं लोकपूजितम् ॥५॥
पार्वत्युवाच-
देवदेव महादेव त्रिपुरघ्न सुरेश्वर
विष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् ॥६॥
उपास्यभेदान्मंत्रांश्च तस्य पूजाविधींस्तथा
तस्य विष्णोः स्वरूपं च तद्विभूतिर्गुणादिकम् ॥७॥
तस्य लोकस्वरूपं च यं प्राप्य न निवर्तते
सर्गस्थितिलयं येन करोति भगवान्हरिः ॥८॥
यद्गत्वा न निवर्तंते तद्धामपरमं हरेः
येन केन च कृत्येन साधनेन परं पदम् ॥९॥
प्राप्नुवंति नराः पापा विषयासक्तचेतसः
विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः ॥१०॥
वसिष्ठ उवाच-
इति पृष्टो महादेव्या हरस्त्रिपुरहा तदा
उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् ॥११॥
रुद्र उवाच-
साधुसाधु महादेवि सर्वलोकहितैषिणि
साधु पृच्छसि मां देवि श्रीशमाहात्म्यमुत्तमम् ॥१२॥
धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति
परितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा ॥१३॥
अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमाम्
तन्मंत्राणां विधानं च स्वरूपं तस्य शार्ङ्गिणः ॥१४॥
तत्वं नारायणो विष्णुर्वासुदेवस्सनातनः
परमात्मा परं ब्रह्म परं ज्योतिः परात्परः ॥१५॥
अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः
नित्यः सर्वगतः स्थाणू रुद्रस्साक्षी प्रजापतिः ॥१६॥
यज्ञो यज्ञपतिः साक्षाद्ब्रह्मणः पतिरेव च
हिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः ॥१७॥
अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुः
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥१८॥
सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात्
स भूमिं सर्वतः स्पृत्वा ह्यत्यतिष्ठद्दशांगुलम् ॥१९॥
अनंतः श्रीपती रामो गुणभृन्निर्गुणो महान्
सर्वलोकेश्वरः श्रीमान्सर्वज्ञः सर्वतोमुखः ॥२०॥
तस्य लोकप्रधानस्य जगन्नाथस्य पार्वति
माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते ॥२१॥
अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैः
सर्वोपनिषदामर्थं वेदांते परिनिश्चितम् ॥२२॥
तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक्
आद्यंतु वैष्णवं प्रोक्तं शंखचक्रांकनं हरेः ॥२३॥
धारणं चोर्ध्वर्पुंड्राणां तन्मंत्राणां परिग्रहः
अर्चनं च जपोध्यानं तन्नामस्मरणं तथा ॥२४॥
कीर्तनं श्रवणं चैव वंदनं पादसेवनम्
तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥२५॥
तदीयानां च सेवाञ्च द्वादशीव्रतनिष्ठितम्
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥२६॥
भक्तिः षोडशधा प्रोक्ता भवबंधविमुक्तये
सर्वेषामेव देवानां ममापि पुरुषोत्तमः ॥२७॥
पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः
तस्मात्तु ब्राह्मणो नित्यं विधिवत्पूजयेद्धरिम् ॥२८॥
तच्चिह्नैरंकितः श्रीशपदंप्राप्नोत्यसंशयम्
शंखचक्रांकनं कुर्याद्ब्राह्मणो बाहुमूलयोः ॥२९॥
हुताग्निनैव संतप्य सर्वपापापनुत्तये
चक्रं वा शंखचक्रे वा तथा पंचायुधानि वा ॥३०॥
धारयित्वैव विधिवद्व्रह्मकर्मसमारभेत्
अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः ॥३१॥
त्यक्त्वा यमपुरं घोरं याति विष्णोः परं पदम्
चक्रचिह्नविहीनस्तु यः पूजयति केशवम् ॥३२॥
तत्सर्वं विफलं याति पूजामंत्रजपादिकम्
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ॥३३॥
अंकयित्वा जपन्मंत्रं संसारान्मोक्षमाप्नुयात्
सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः ॥३४॥
उपनीय विधानेन पश्चात्कर्मसु योजयेत्
विष्णुचक्रविहीनं तु य श्राद्धे भोजयिष्यति ॥३५॥
व्यर्थं भवति तत्सर्वं निराशाः पितरो गताः
विष्णुचक्रांकितं विप्रं पूजयेच्छ्राद्धकर्मणि ॥३६॥
विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेत्
दद्याद्गोभूहिरण्यादि चक्रांकितभुजाय वै ॥३७॥
यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै
अग्नितप्तेन चक्रेण बाहुमूले तु लांछिताः ॥३८॥
सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम्
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ॥३९॥
तस्य तीर्थानि यज्ञाश्च संप्राप्ता नात्र संशयः
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥४०॥
न तस्य किंचिदश्नीयादपि क्रतुसहस्रिणः
अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः ॥४१॥
गर्हितस्सर्वलोकेषु ब्राह्मण्यात्प्रच्युतो भवेत्
शङ्खचक्रधरो देवो हरिः पूज्यो यथात्मभिः ॥४२॥
तथैव सर्वैस्संपूज्यो विप्रश्चक्रादिचिह्नितः
सर्ववेदविदो वापि सर्वशास्त्रविशारदः ॥४३॥
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत्
ऊर्द्ध्वपुंड्रविहीनस्तु शंख चक्रविवर्जितः ॥४४॥
तं गर्दभे समारोप्य बहिः कुर्यात्स्वपत्तनात्
प्रकृतिस्पर्शरहितो वासुदेवो जनार्दनः ॥४५॥
तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितः
तस्मात्प्रकृतिसंसर्गपापौघदहनं हरेः ॥४६॥
प्रतप्तं बिभृयाच्चक्रं शंखं च भुजमूलयोः
स्त्रीशूद्राणां सदा धार्य्ये चंदनेन सुगंधिना ॥४७॥
बाहुमूले लिखेच्चक्रं तप्तं तु ब्राह्मणस्य वै
तप्तेनैवांकनं कुर्याद्ब्राह्मणस्य विधानतः ॥४८॥
श्रौतस्मार्त्तादिसिद्ध्यर्थं मंत्रसिद्ध्यै तथैव च
हरेः पूजाधिकारार्थं चक्रं धार्यां विधानतः ॥४९॥
वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च
प्रतपेच्चक्रशंङ्खाभ्यां हुत्वा होमं विधानतः ॥५०॥
अन्यैर्न दाहयेद्गात्रं ब्राह्मणो हरिलांछनात्
शंखचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि ॥५१॥
लक्षणेन दहेद्देहं नान्यदग्धोर्हतिक्रियाम्
अचक्रधारिणं विप्रं दूरतः परिवर्जयेत् ॥५२॥
श्वपाकमिव नेक्षेत लोके विप्रमवैष्णवम्
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥५३॥
तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभानने
ब्राह्मणा मंत्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये ॥५४॥
अप्राकृतामहात्मानो विष्णुचक्रेण लांच्छिताः
विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृताः स्मृताः ॥५५॥
सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः
विधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनात् ॥५६॥
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम्
वामे तु शंखं बिभृयादिति ब्रह्मविदो विदुः ॥५७॥
एवम्महोपनिषदि प्रोक्तं चक्रादिधारणम्
तथैव साम्नि यजुषि ऋचि प्रोक्तं शुभानने ॥५८॥
प्र ते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः
मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्येन्ये तावकान्यर्पयन्ति ॥५९॥
चरणं पवित्रं विततं पुराणं वाङ्मयं शुभम्
तेन चक्रेण सन्तप्तास्तरेयुः पातकाम्बुधिम् ॥६०॥
पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेस्सदा
ते नातप्ततनूर्येषां न ते यान्ति परं पदम् ॥६१॥
तेन तप्ता तनूर्येषां ते प्रयांति परं परदम्
पवित्रचरणं नेमिर्हरेश्चक्रं सुदर्शनम् ॥६२॥
वासवं साम
सहस्रारं प्राकृतघ्नं लोकद्वारं महौजसम्
नामानि विष्णुचक्रस्य पर्यायेण निबोध मे ॥६३॥
शुद्धेन वह्नितप्तेन ब्रह्मत्वेन पुनीहि नः
यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ॥६४॥
येन देवाः पवित्रेण आत्मानं पुनते सदा
तेन सहस्रधारेण पावमान्यः पुनंतु माम् ॥६५॥
प्रजापत्यं पवित्रं तु शतोद्यामं हिरण्मयम्
वयं ब्रह्मविदस्तेन पूतं ब्रह्म पुनीमहे ॥६६॥
सनेमिचक्रमजरं चक्षुरस्य महात्मनः
अस्मिन्हि विधृते देवा महोन्नतपद ययौ ॥६७॥
तस्माद्वै विधिवद्धार्याः शंखचक्रादिहेतयः
ब्राह्मणानां विशेषेण वैष्णवानां विशेषतः ॥६८॥
धृतोर्द्ध्वपुंड्रः कृतचक्रधारी विष्णोः पदं ध्यायति यो महात्मा
स्वरेणमंत्रेण सदा हृदिस्थं परात्परं याति विशुद्धचेताः ॥६९॥
ये कंठलग्नतुलसी नलिनाक्षमाला ये बाहुमूलपरिचिह्नितशंखचक्राः
ये वा ललाटफलके लसदूर्ध्वपुंड्रास्ते वैष्णवा भुवनमाशु पवित्रयंति ॥७०॥
दिवस्पतेः सुविततं पवित्रं ये तु रक्षिणः
न वहंति भुजे सम्यक्न हि शोचंति जन्तवः ॥७१॥
ये वहंति भुजे चक्रं सस्थिरं विधिना द्रुतम्
परं व्योम्नि तु ते स्थानमधितिष्ठन्ति तेजसा ॥७२॥
होमाग्निसंतप्तपवित्रलांछिता मूले तु बाह्वोः परमात्मनो हरेः
संतारयित्वा भवसागरं महच्छुद्धं परं याति परेशलोकम् ॥७३॥
अङ्कयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः
कलत्रापत्यभृत्येषु पश्वादिषु च अङ्कयेत् ॥७४॥
इत्येवं श्रुतयस्सर्वाः कथयंति वरानने
तथैव सेतिहासेषु पुराणेष्वपि कथ्यते ॥७५॥
द्विविधं वैष्णवं प्रौक्तं बाह्यमाभ्यंतरं तथा
शंखचक्रादिभिर्बाह्यमांतरं वीतरागता ॥७६॥
बाह्याभ्यंतरसाम्यं यत्तद्वैष्णवमुदाहृतम्
तस्माच्चक्रादिचिह्नं तु प्रथमं वैष्णवं स्मृतम् ॥७७॥
आंतरं स्मरदोषादि विमुक्तं स्वात्मदर्शनम्
सर्वभूतदयाशांतिरिंद्रियार्थेष्वलोलता ॥७८॥
पुत्रदाराद्यसंगत्वं योगाभ्यासरतिस्तथा
अनन्यभक्तियोगेन परेशस्याभिषेवणम् ॥७९॥
तस्माच्चक्रादिहेतीनामंकनं वैष्णवं स्मृतम्
चक्रादिचिह्नहीनत्वाद्वैष्णवत्वं न लभ्यते ॥८०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर
संवादे सुदर्शनादिमाहात्म्यंनाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥२२४॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP