संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १८९ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १८९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १८९ Translation - भाषांतर ईश्वर उवाचप्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यकेगीता पंचदशाध्यायमाहात्म्यमवधारय ॥१॥कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिःयस्यासिधारया संख्ये देवासंघा वधीकृताः ॥२॥यदीय मत्तमातंग दानधाराजलैरिलानिदाघेपि च सेहेतां रविसंतापवेदनाम् ॥३॥संक्रंदनपरित्रस्ता यदीय शरणं गताःरेजिरे करिणो मत्ताश्चलंतः पर्वता इव ॥४॥मत्तमातंगचीत्कारप्रतिस्वनमिवादरात्यस्य गोपायतः शैला व्याहरंति कृपावतः ॥५॥यदीय धावत्तुरगक्षुरसंघातजर्जरम्नाभूच्चित्रं कथंकारं गतखंडं धरातलम् ॥६॥यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम् पुनरुज्वलयांचक्रे महाभाष्यं फणीश्वरः ॥७॥तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिःनाम्ना सरभभेरुंडः प्रचंडभुजमंडलः ॥८॥भांडारेण तुरंगैश्च भटैर्वीररसोद्भवैःसमान एव भूपालदुर्गैरत्यंतदुर्गमैः ॥९॥स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनःनिहत्य वसुधापालं बलात्साकं कुमारकै ॥१०॥कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षयाविषूचिकामयादाशु परासुः समजायत ॥११॥कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणातेजस्वी तुरगो जातः सिंधुदेशे कृशोदरिः ॥१२॥मूलेन बहुना क्रीत्वा हयतत्वविदा ततःबहुयत्नवता नीतः केनचिद्वैश्यसूनुना ॥१३॥राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम्कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् ॥१४॥स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतःराज्ञोद्वारिस्थतस्तत्र प्रतीक्षंस्तत्समागमम् ॥१५॥ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितःकिमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत ॥१६॥देव त्रिजगतीरत्नमिति मत्वा तुरंगमःमया नियुतमूल्येन बहुना साधुलक्षणः ॥१७॥ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम्समादिदेश वणिजमश्वोऽत्र नीयतामिति ॥१८॥शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम्शूराणामपि चेतांसि मुहुरुत्साहयन्महान् ॥१९॥अखंडमेदिनीवेगबहुसंक्रमणार्जितम्लालाफेनछलेनासौ वमन्शुभ्रतरं यशः ॥२०॥उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतःविवृण्वन्नति तेजस्वी ह्रियेवनतकंधरः ॥२१॥चामरैरिंदुधवलैर्वीज्यमानो निरंतरम्दुग्धांभोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव ॥२२॥नीलातपत्रयुगलं घनच्छायतुलश्रियाबिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम् ॥२३॥मेदिनीमंडलस्पर्श संक्रांतमिव पावकम्मुहुरुद्धरयन्धुन्वन्बंधुरं कंधरातटम् ॥२४॥दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम्हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः ॥२५॥सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिःरूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः ॥२६॥आनीतो वणिजा वाजी राज्ञा च समदृश्यतबहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः ॥२७॥यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिःजग्राह तुरगं वेगादसीमानंदनिर्भरः ॥२८॥ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य चविसर्जितसभालोको गृहांतरमगान्नृपः ॥२९॥अनेकधा समापृष्टो महीपालं रंणांगणेशस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम् ॥३०॥एकदा मृगयां खेलन्कुतूहलरसात्मनातमारुह्य महीपालो वनं प्रति विवेश ह ॥३१॥विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान्आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् ॥३२॥तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपःबध्वाश्वं तरुशाखायामारुरोह शिलां नृपः ॥३३॥गीतापंचदशाध्यायश्लोकार्द्धलिखितं ततःपातितं मरुता तत्र यत्र खंडे विलोकयत् ॥३४॥पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम्ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत् ॥३५॥ततो ग्रंथिं समाच्छिद्य पल्याणवतार्य चउत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः ॥३६॥ततः सरभभेरुंडो नृपमाभाष्य सुस्वरम्दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ॥३७॥ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम्पुन्नागकदलीचूतनारिकेलसमन्वितम् ॥३८॥द्राक्षेक्षुवाटिकापूगनागकेसरचंपकम्खेलत्करभसारंगं नृत्यत्केकिकुलं नृपः ॥३९॥प्रणिपत्य द्विजन्मानमुटजाभ्यंतरस्थितम्पप्रच्छ परया भक्त्या मुक्तसंसारवासनात् ॥४०॥तुरगो निरगात्स्वर्गं हेतुना केन मे वदइत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् ॥४१॥कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत्अथ पंचदशाध्यायश्लोकार्द्धं लिखितं क्वचित् ॥४२॥ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम्ततः समागतैस्तत्र परिवारजनैर्वृतः ॥४३॥प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतःपत्रं तदेव लिखितं गीतापंचदशाक्षरम् ॥४४॥वाचयन्स महीपालो हर्षसंफुल्ललोचनःअभिषिच्य निजं पुत्रं मंत्रविन्मंत्रिभिः समम् ॥४५॥सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः ॥४६॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीता-माहात्म्ये एकोननवत्यधिकशततमोऽध्यायः ॥१८९॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP