संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ४३

उत्तरखण्डः - अध्यायः ४३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो
स्वेदजा अंडजाश्चैव उद्भिज्जाश्च जरायुजाः ॥१॥
तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः
माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया ॥२॥
शुक्ले च का भवेद्देव कथयस्व प्रसादतः
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ॥३॥
श्रीकृष्ण उवाच-
कथयिष्यामि राजेंद्र शुक्ले माघस्य या भवेत्
जया नामेति विख्याता सर्वपापहरा परा ॥४॥
पवित्रा पापहंत्री च कामदा मोक्षदा नृणाम्
ब्रह्महत्यापहंत्री च पिशाचत्वविनाशिनी ॥५॥
नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम्
नातः परतरा काचित्पापघ्नी मोक्षदायिनी ॥६॥
एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः
श्रूयतां राजशार्दूल कथा पौराणिकी शुभा ॥७॥
पंकजे च पुराणेऽस्या महिमा कथितो मया
एकदा नाकलोके वै इंद्रो राज्यं चकार ह ॥८॥
देवास्तत्र सुखेनैव निवसंति मनोरमे
पीयूषपाननिरता अप्सरोगणसेविताः ॥९॥
नंदनं तु वनं तत्र पारिजातोपसेवितम्
रमयंति रमंतेऽत्र अप्सरोभिर्दिवौकसः ॥१०॥
एकदा रममाणोऽसौ देवेंद्रः स्वेच्छया नृप
नर्त्तयामास वै हर्षात्पंचाशत्कोटिनायकः ॥११॥
गंधर्वास्तत्र गायंति गंधर्वः पुष्पदंतकः
चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा ॥१२॥
मालिनीति च नाम्ना तु चित्रसेनस्य योषिता
मालिन्यास्तु समुत्पन्ना पुष्पदंती च नामतः ॥१३॥
पुष्पदंतस्य पुत्रोऽसौ माल्यवान्नाम नामतः
पुष्पदंत्याश्च रूपेण माल्यवानतिमोहितः ॥१४॥
तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः
लावण्यं रूपसंपन्नं तस्या रूपं निशामय ॥१५॥
बाहू तस्याश्च कामेन कंठपाशौ कृताविव
कर्णायते तु नयने रक्तांते घूर्णिते तथा ॥१६॥
कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम
कंबुग्रीवायुता सैव दिव्याभरणभूषिता ॥१७॥
पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव
मध्यं क्षामं च चार्वंग्या मुष्टिग्राह्यमनुत्तमम् ॥१८॥
नितंबौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली
चरणौ शोभमानौ च रक्तोत्पलसमद्युती ॥१९॥
ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः
शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ ॥२०॥
गायमानौ तु तौ तत्र अप्सरोगणसेवितौ
मदनाभिपरीतांगौ पुष्पदंती च माल्यवान् ॥२१॥
परस्परानुरागेण व्यामोहवशमागतौ
न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ ॥२२॥
बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ
ज्ञात्वा लेखर्षभस्तत्र संगतं मानसं तयोः ॥२३॥
तालक्रियामानलोपात्तथा गीतविसर्जनात्
चिंतयित्वा तु मघवा ह्यवमानं तथात्मनः ॥२४॥
कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ
धिग्धिग्वां पतितौ मूढावाज्ञाभंग कृतौ मम ॥२५॥
युवां पिशाचौ भवतां दंपतीभावधारिणौ
मर्त्यलोकमनुप्राप्तौ भुंजानौ कर्मणः फलम् ॥२६॥
एवं मघवता शप्तावुभौ दुःखितमानसौ
हिमवंतं गिरिं प्राप्ताविंद्रशापाद्विमोहितौ ॥२७॥
उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च
संतप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ ॥२८॥
गंधर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ
पीड्यमानौ निदाघेन देहपातकजेन च ॥२९॥
न निशायां सुखं शांतिं लभेते कर्मपीडितौ
परस्परं वादमानौ चेरतुर्गिरिगह्वरे ॥३०॥
पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ
दंतघर्षं प्रकुर्वाणौ रोमांचितवपुर्द्धरौ ॥३१॥
ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम्
किमनल्पकृतं पापं दारुणं रोमहर्षणम् ॥३२॥
येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा
नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम् ॥३३॥
तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत्
इति चिंतापरौ तत्र तावास्तां दुःखकर्षितौ ॥३४॥
दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः
जयानामेति विख्याता तिथीनामुत्तमा तिथिः ॥३५॥
तस्मिन्दिने तु संप्राप्ते तावाहारविवर्जितौ
आसाते तत्र नृपते जलपानविवर्जितौ ॥३६॥
न कृतो जीवघातश्च न पत्रफलभक्षणम्
अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ ॥३७॥
रविरस्तंगतो राजंस्तथैव स्थितयोस्तयोः
प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी ॥३८॥
वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ
परस्परेण संलग्नौ गात्रयोर्भुजयोरपि ॥३९
न निद्रा न रतं तत्र न तौ सौख्यमविंदताम्
एवं तौ राजशार्दूल शापेनेंद्रस्य पीडितौ ॥४०॥
इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी
मार्तंड उदयं प्राप्तो द्वादशी दिवसागमे ॥४१॥
मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि
जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम् ॥४२॥
तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु
द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते ॥४३॥
विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम्
पुष्पदंती माल्यवतौ पूर्वरूपौ बभूवतुः ॥४४॥
पुरातनस्नेहयुतौ पूर्वालंकारधारिणौ
विमानमधिरूढौ तौ गतौ नाके मनोरमे ॥४५॥
देवेंद्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा
तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत् ॥४६॥
इंद्र उवाच-
वद तं केन पुण्येन पिशाचत्वं हि वां गतौ
मम शापं च संप्राप्तौ केन देवेन मोचितौ ॥४७॥
माल्यवानुवाच-
वासुदेवप्रसादेन जयायास्तु व्रतेन च
पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः ॥४८॥
इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा
पवित्रौ पावनौ जातौ वंदनीयौ ममापि च ॥४९॥
हरिवासरकर्तारौ विष्णुभक्तिपरायणौ
हरिवासरसँल्लीना ये च कृष्णपरायणाः ॥५०॥
अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः
विहरस्व यथासौख्यं पुष्पदंत्या सुरालये ॥५१॥
कृष्ण उवाच-
एतस्मात्कारणाद्राजन्कर्त्तव्यो हरिवासरः
जया तु राजशार्दूल ब्रह्महत्यापहारिणी ॥५२॥
सर्वदानानि तेनैव सर्वयज्ञा अशेषतः
दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम् ॥५३॥
कल्पकोटिर्भवेत्तावद्वैकुंठे मोदते ध्रुवम्
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ॥५४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमापतिनारदसंवादे माघशुक्लजयैकादशीमाहात्म्यंनाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP