उत्तरखण्डः - अध्यायः ७१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ऋषय ऊचुः -
सूत जीव चिरं साधो त्वयातिकरुणात्मना
संवादो ह्यद्भुतः प्रोक्तो यश्चासीन्नारदेशयोः ॥१॥
भगवन्नाममहिमा नारदेन महात्मना
कीदृक्श्रुतः समाख्याहि श्रद्धया शृण्वतां गुरो ॥२॥
सूत उवाच-
शृणुध्वं मुनयः सर्वे पुरावृत्तं वदाम्यहम्
यस्मिञ्छ्रुते द्विजश्रेष्ठाः कृष्णे भक्तिर्विवर्द्धते ॥३॥
एकदा नारदो द्रष्टुं पितरं सुसमाहितः
जगाम मेरुशिखरं सिद्धचारणसेवितम् ॥४॥
तत्र देवं समासीनं ब्रह्माणं जगतां पतिम्
नमस्कृत्याब्रवीद्विप्रा नारदो मुनिसत्तमः ॥५॥
नारद उवाच-
नाम्नोऽस्य यावतीशक्तिर्वद विश्वेश्वर प्रभो
कीदृक्तु नाममहिमा अव्ययस्य महात्मनः ॥६॥
योऽयं विश्वेश्वरः साक्षादयं नारायणो हरिः
परमात्मा हृषीकेशः सर्वजीवेषु संगतः ॥७॥
मायाविमोहिताः सर्वे भगवंतमधोक्षजम्
नैव जानंत्यसारेऽस्मिन्नरा मूढाः कलौ युगे ॥८॥
ब्रह्मोवाच-
अस्मिन्कलौ विशेषेण नामोच्चारणपूर्वकम्
भक्तिः कार्या यथा वत्स तथा त्वं श्रोतुमर्हसि ॥९॥
दृष्टं परेषां पापानामनुक्तानां विशोधनम्
विष्णोर्जिष्णोः प्रयत्नेन स्मरणं पापनाशनम् ॥१०॥
मिथ्या ज्ञात्वा ततः सर्वं हरेर्नामपठन्जपन्
सर्वपापविनिर्मुक्तो याति विष्णोः परंपदम् ॥११॥
ये वदंति नरा नित्यं हरिरित्यक्षरद्वयम्
तस्योच्चारणमात्रेण विमुक्तास्ते न संशयः ॥१२॥
प्रायश्चित्तानि सर्वाणि कृष्णानुस्मरणं परम्
प्रातर्निशि तथा सायं मध्याह्नादिषु संस्मरन् ॥१३॥
नारायणमवाप्नोति सद्यः पापक्षयं नरः
विष्णुसंस्मरता देव समस्तक्लेशसंक्षये ॥१४॥
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विष्णोस्तु कीर्त्तनात्
वासुदेवे मनो यस्य जपहोमार्चनादिषु ॥१५॥
तदक्षयं विजानीयाद्यावदिंद्राश्चतुर्दश
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ॥१६॥
क्व जपो वासुदेवस्य मुक्तिबीजमनुत्तमम्
तन्मुखं परमं तीर्थं यत्रावर्त्तं वितन्वती ॥१७॥
नमो नारायणायेति भाति प्राची सरस्वती
तस्मादहर्निशं विष्णुस्मरणात्पुरुषोत्तमः ॥१८॥
न याति नरकं पुत्र संक्षीणकलिकल्मषः
सत्यं सत्यं पुनः सत्यं भाषितं मम सुव्रत ॥१९॥
नामोच्चारणमात्रेण महापापात्प्रमुच्यते
रामरामेति रामेति रामेति च पुनर्जपन् ॥२०॥
स चांडालोऽपि पूतात्मा जायते नात्र संशयः
कुरुक्षेत्रं तथा काशी गया वै द्वारिका तथा ॥२१॥
सर्वं तीर्थं कृतं तेन नामोच्चारणमात्रतः
कृष्णकृष्णेति कृष्णेति इति वायो जपन्पठन् ॥२२॥
इहलोकं परित्यज्य मोदते विष्णुसंनिधौ
नृसिंहेति मुदा विप्र सततं प्रजपन्पठन् ॥२३॥
महापापात्प्रमुच्येत कलौ भागवतो नरः
ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ॥२४॥
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्
एतज्ज्ञात्वा निमग्नाश्च जगदात्मनि केशवे ॥२५॥
सर्वपापपरिक्षीणा यांति विष्णोः परं पदम्
मत्स्यः कूर्मो वराहश्च नृसिंहो वामनस्तथा ॥२६॥
रामो रामश्च कृष्णश्च बुद्धः कल्की ततः स्मृतः
एते दशावताराश्च पृथिव्यां परिकीर्तिताः ॥२७॥
एतेषां नाममात्रेण ब्रह्महा शुध्यते सदा
प्रातः पठन्जपन्ध्यायन्विष्णोर्नाम यथा तथा ॥२८॥
मुच्यते नात्र संदेहः स वै नारायणो भवेत्
सूत उवाच-
श्रुत्वा वै नारदो ह्येतद्विस्मयं परमं गतः ॥२९॥
उवाच पितरं तत्र किमुक्तं देवसत्तम
देवाः सहस्रशः संति रुद्राः संति सहस्रशः ॥३०॥
पितरः संति शतशः यक्षाश्च किन्नरास्तथा
भूताः प्रेताः पिशाचाश्च ये केचिद्देवयोनयः ॥३१॥
तेषां नाम्ना च माहात्म्यं श्रुतं दृष्टं तथा न च
श्रीविष्णोर्नाममाहात्म्यं यादृशं च श्रुतं मया ॥३२॥
यस्य वै नाममात्रेण मुच्यते नात्र संशयः
किं वै तीर्थकृते देव पृथिव्यामटने कृते ॥३३॥
यस्य वै नाममहिमा श्रुत्वा मोक्षमवाप्नुयात्
तन्मुखं तु महत्तीर्थं तन्मुखं क्षेत्रमेव च ॥३४॥
यन्मुखे रामरामेति तन्मुखं सर्वकामिकम्
कानि वै तस्य नामानि कति वीर्याणि सुव्रत ॥३५॥
तत्सर्वं च विशेषेण मम ब्रूहि पितामह
ब्रह्मोवाच-
व्यापकोऽयं सदा विष्णुः परमात्मा सनातनः ॥३६॥
अनादिनिधनः श्रीमान्भूतात्मा भूतभावनः
यस्मादहं हि संजातो सोऽयं विष्णुः सदावतु ॥३७॥
सोऽयं कालस्य कालो वै सोऽयं मम तु पूर्वजः
अक्षयः पुंडरीकाक्षो मतिमानव्ययः पुमान् ॥३८॥
शेषशायी सदा विष्णुः सहस्रशीर्षा महत्प्रभुः
सर्वभूतमयः साक्षाद्विश्वरूपो जनार्दनः ॥३९॥
कैटभारिरयं विष्णुर्धाता देवो जगत्पतिः
तस्याहं नामगोत्रं च न वेद्मि पुरुषर्षभ ॥४०॥
वेदवाद्यप्यहं तात नाहं ज्ञाता कदाचन
अतस्त्वं गच्छ देवर्षे यत्रास्ति किल विश्वराट् ॥४१॥
स च तत्त्वं मुनिश्रेष्ठ सर्वं ते कथयिष्यति
स एव पुरुषः श्रीमान्कैलासाधिपतिः सदा ॥४२॥
सर्वेषां विष्णुभक्तानामयं श्रेष्ठः परात्परः
पंचवक्त्रो ह्युमाकांतः सर्वदुःखनिबर्हणः ॥४३॥
विश्वेश्वरो विश्वनाथः सर्वदा भक्तवत्सलः
तत्र गच्छ सुरश्रेष्ठ तत्सर्वं कथयिष्यति ॥४४॥
पितुर्वचनमाकर्ण्य तत्र गंतुं प्रचक्रमे
विज्ञातुं नाममाहात्म्यं कैलासभवनं प्रति ॥४५॥
यत्र विश्वेश्वरो देवो नित्यं तिष्ठति भूतिदः
ददर्श नारदस्तत्र देवं तं सुरपूजितम् ॥४६॥
कैलासशिखरासीनं देवदेवं जगद्गुरुम्
पंचवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम् ॥४७॥
कपालिनं सखट्वांगं तीक्ष्णं शूलासिधारिणम्
पिनाकधारिणं भीमं वरदं वृषवाहनम् ॥४८॥
भस्मांगं व्यालशोभाढ्यं शशांककृतशेखरम्
नीलजीमूतसंकाशं सूर्यकोटिसमप्रभम् ॥४९॥
क्रीडंतं तत्र देवेशं साष्टांगं दंडवत्पुनः
तं दृष्ट्वा तु महादेवो विस्मयोत्फुल्ललोचनः ॥५०॥
वैष्णवानां परः श्रेष्ठः प्राह वाडवसत्तमम्
कस्मादिह समायातो वद देवर्षिसत्तम ॥५१॥
नारद उवाच-
एकस्मिन्नेव काले तु गतोऽहं ब्रह्मणोंतिकम्
श्रुतं तत्र मया देव विष्णोर्माहात्म्यमुत्तमम् ॥५२॥
ब्रह्मणा कथितं तत्र ममाग्रे देवसत्तम
नाम्नोऽस्य यावती शक्तिः सा श्रुता ब्रह्मणो मुखात् ॥५३॥
तत्र पृष्टं मया पूर्वं विष्णोर्नामसहस्रकम्
तदाहं ब्रह्मणा चोक्तं नाहं जानामि नारद ॥५४॥
जानात्ययं महारुद्रस्तत्सर्वं कथयिष्यति
महाश्चर्यं तु संप्राप्य ह्यागतस्तव सन्निधौ ॥५५॥
अस्मिन्कलियुगे घोरेऽल्पायुषश्चैव मानवाः
विधर्मेषु रता नित्यं नामनिष्ठा न वै पुनः ॥५६॥
पाखंडिनस्तथा विप्रा धर्मेषु विरताः सदा
संध्याहीन व्रतभ्रष्टा दुष्टा मलिनरूपिणः ॥५७॥
यथा विप्रास्तथा क्षत्रा वैश्याश्चैव पुनः पुनः
एवं शूद्रास्तथान्ये च न वै भागवता नराः ॥५८॥
शूद्रा द्विजातिबाह्याश्च कलौ विश्वेश्वर प्रभो
धर्माधर्मौ न जानंति हितं वाऽहितमेव वा ॥५९॥
एवं ज्ञात्वा ह्यहं स्वामिन्नागतः संनिधौ तव
पुनश्च नाममाहात्म्यं श्रुतं वै ब्रह्मणो मुखात् ॥६०॥
त्वं देवः सर्वदेवानां त्वं नाथो मम सर्वदा
त्रिपुरारिश्च विश्वात्मा धाता त्वं च पुनः पुनः ॥६१॥
कथयस्व प्रसादेन विष्णोर्नामसहस्रकम्
सौभाग्यजननं पुंसां परं भक्तिकरं सदा ॥६२॥
ब्राह्मणानां ब्रह्मदं च क्षत्रियाणां जयप्रदम्
वैश्यानां धनदं नित्यं शूद्राणां सुखदायकम् ॥६३॥
तदहं श्रोतुमिच्छामि त्वत्सकाशान्महेश्वर
त्वं समर्थोऽसि भक्तानां सर्वदा केशवं प्रति ॥६४॥
कथयस्व प्रसादेन यदि गोप्यं न सुव्रत
इदं पवित्रं परमं सर्वतीर्थमयं सदा ॥६५॥
अतो वै श्रोतुमिच्छामि वद विश्वेश्वर प्रभो
श्रुत्वा नारदवाक्यानि विस्मयोत्फुल्ललोचनः ॥६६॥
रोमांचितस्ततो जातो विष्णोर्नामानि संस्मरन्
ईश्वर उवाच-
एतद्गोप्यं परं ब्रह्मन्विष्णोर्नामसहस्रकम् ॥६७॥
एतच्छ्रुत्वा नरो वत्स न लभेद्दुर्गतिं क्वचित्
कदाचिच्च गते काले पार्वती मामुवाच ह ॥६८॥
पार्वत्युवाच -
कैलासाधिपते मह्यं कथयस्व यथातथम्
त्वं किं जपसि देवेश परैश्वर्यसमाहितः ॥६९॥
सदा त्वं भस्मलिप्तांगः कृत्तिवासाः सदा कथम्
जटाधरः कथं जातो वद विश्वेश्वर प्रभो ॥७०॥
त्वं देवः सर्वदेवानां त्वं गुरुः सर्वकर्मणाम्
त्वं पतिर्मम विश्वेश विश्वनाथ जगत्प्रभो ॥७१॥
महादेव उवाच-
इति पृष्टं मम ब्रह्मन्पार्वत्या च पुनः पुनः
तदा सर्वं मया ख्यातं तस्याश्चाग्रे विशेषतः ॥७२॥
शृणु नारद वक्ष्यामि यदुक्तं पार्वतीं प्रति
येन प्रसन्नो भगवान्मुक्तिदाता न संशयः ॥७३॥
ममायं तु पिता साक्षाद्बन्धुश्चैव तु सर्वदा
तस्याहं सर्वदा भक्तो ह्ययं मम पतिः सदा ॥७४॥
तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम
सूत उवाच-
एवमुक्त्वा नारदाय कथयामास वै द्विजाः ॥७५॥
उमायै यत्पुरा प्रोक्तं विष्णोर्नामसहस्रकम्
महेशाच्चैव तत्प्राप्तं कैलासे नारदेन वै ॥७६॥
कदाचिद्दैवयोगेन कैलासात्स समागतः
नैमिषारण्यसंज्ञं तु तीर्थं वै परमाद्भुतम् ॥७७॥
तत्रस्था ऋषयः सर्वे दृष्ट्वा तं ऋषिसत्तमम्
पूजां चक्रुर्विशेषेण नारदाय महात्मने ॥७८॥
आगतं नारदं ज्ञात्वा विस्मयोत्फुल्ललोचनाः
पुष्पवृष्टिं प्रचक्रुस्ते वैष्णवा द्विजसत्तमाः ॥७९॥
पाद्यमर्घ्यं ततः कृत्वा कृत्वा चारार्तिकं ततः
निवेद्य फलमूलानि दंडवत्पतिता भुवि ॥८०॥
ऊचुश्च कृतकृत्याः स्म देशे ह्यस्मिन्महामुने
भवतो दर्शनं जातं पवित्रं पापनाशनम् ॥८१॥
त्वत्प्रसादाच्च देवेश पुराणानि श्रुतानि च
ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् ॥८२॥
विना दानेन तपसा विना तीर्थ तपो मखैः
विना दानैर्विना ध्यानैर्विना चेंद्रियनिग्रहैः
विना शास्त्रसमूहैश्च कथं मुक्तिरवाप्यते ॥८३॥
नारद उवाच-
कैलासशिखरासीनं देवदेवं जगद्गुरुम्
प्रणिपत्य महादेवं पर्यपृच्छदुमाप्रियम् ॥८४॥
पार्वत्युवाच-
भगवंस्त्वं परो देवः सर्वज्ञः सर्वपूजितः
स त्वमत्त्यर्च्यते देवैरिंद्रसूर्यादिकैरपि ॥८५॥
लभंतेऽभिमतां सिद्धिं सर्वेऽभ्यर्च्य वरप्रदम्
त्वं जन्ममृत्युरहितः स्वयंभूः सर्वशक्तिमान् ॥८६॥
सदा ध्यायसि किं स्वामिन्दिग्वासा मदनांतकः
तपश्चरसि कस्मात्त्वं जटिलो भस्मधूसरः ॥८७॥
किं वा जपसि देवेश परं कौतूहलं हि मे
अनुग्राह्या यदा तेऽस्मि तत्त्वं कथय सुव्रतम् ॥८८॥
महादेव उवाच-
नेदं कस्यापि कथितं गोपनीयमिदं मम
किंतु वक्ष्यामि ते भद्रे त्वं भक्तासि प्रियासि मे ॥८९॥
पुरा सत्ययुगे देवि विशुद्धमतयोऽखिलाः
यजंति विष्णुमेवैकं ज्ञात्वा सर्वेश्वरेश्वरम् ॥९०॥
प्रयांति परमामृद्धिमैहिकामुष्मिकीं प्रिये
यां न प्राप्ताः सुराः सर्वे ऋषयः क्लेशसंयुताः ॥९१॥
ते तां गतिं प्रपद्यंते ये नामकृतनिश्चयाः
मन्मुखादपि संश्रुत्य देवा विष्णुबहिर्मुखाः ॥९२॥
वेदैः पुराणैः सिद्धांतैर्भिन्नैर्विभ्रांतचेतसः
निश्चयं नाधिगच्छंति किं तत्वं किं परं पदम् ॥९३॥
तुलापुरुषदानाद्यैरश्वमेधादिभिर्मखैः
वाराणसीप्रयागादि तीर्थस्नानादिभिः प्रिये ॥९४॥
गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः
तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः ॥९५॥
गुरुशुश्रूषणैः सेव्यैर्धर्मैर्वर्णाश्रमान्वितैः
ज्ञानध्यानादिभिः सम्यक्चरितैर्जन्मकोटिभिः ॥९६॥
न यांति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम्
सर्वभावैः समाश्रित्य पुराणपुरुषोत्तमम् ॥९७॥
अनन्यगतयो मर्त्या भोगिनोऽपि परंतपे
ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः ॥९८॥
सर्वधर्मोज्झिता विष्णोर्नाममात्रैकजल्पिनः
सुखेन यां गतिं यांति न तां सर्वेऽपि धार्मिकाः ॥९९॥
स्मर्त्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित्
सर्वे विधिनिषेधाः स्युरेतस्यैव विधिं कराः ॥१००॥
किंतु ब्रह्मादयो देवा ऋषयश्च निरंहसः
निर्भयं विष्णुनाम्नैव यथेष्टं पदमागताः ॥१०१॥
अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः
मयास्मादपि च श्रेष्ठं वांच्छताहं कृतात्मना ॥१०२॥
ततः साक्षाज्जगन्नाथ प्रसन्नो भक्तवत्सलः
अंशांशेनात्मनैवैतान्पूजयामास केशवः ॥१०३॥
देवान्पितॄन्द्विजान्हव्यकव्याद्यैः करुणामयः
ततः प्रभृति पूज्यंते त्रैलोक्ये सचराचरे ॥१०४॥
ब्रह्मादयः सुराः सर्वे प्रसादाच्छार्ङ्गधन्वनः
मां चोवाच यथा मत्तः पूज्यः श्रेष्ठो भविष्यसि ॥१०५॥
त्वामाराध्य तथा शंभो गृहीष्यामि वरं सदा
द्वापरादौ युगे भूत्वा कलया मानुषादिषु ॥१०६॥
स्वागमैः कल्पितैस्त्वं च जनान्मद्विमुखान्कुरु
मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा ॥१०७॥
एष मोहं सृजाम्याशु योजनान्मोहयिष्यति
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥१०८॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज
प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥१०९॥
ततस्तं प्रणिपत्याहमवोचं परमेश्वरम्
ब्रह्महत्या सहस्रस्य पापं शाम्येत्कथंचन ॥११०॥
न पुनस्त्वदविज्ञानं कल्पकोटिशतैरपि
तस्मान्मया कृता स्पर्द्धा पवित्रः स्यां कथं हरे ॥१११॥
तन्मे कथय गोविंद पायश्चित्तं यदिच्छसि
ततः प्रसन्नो भगवानवोचत्तत्त्वमात्मनः ॥११२॥
येनाहमधिकस्तस्मादभवं नगनंदिनि
तमेव तपसा नित्यं भजामि स्तौमि चिंतये ॥११३॥
परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम्
शास्त्राणां निर्णयस्त्वेषस्तदन्यन्मोहनाय च ॥११४॥
दानं विना च या मुक्तिः साम्यं च मम विष्णुना
तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः ॥११५॥
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा
इत्यादि सर्वमोहाय कथ्यते सति नान्यथा
तेनाद्वितीय महिमो जगत्पूज्योऽस्मि पार्वति ॥११६॥
पार्वत्युवाच -
तन्मे कथय देवेश यथाहमपि शंकर
सर्वेश्वरी निरुपमा तव स्यां सदृशी प्रभो ॥११७॥
महादेव उवाच-
साधुसाधु त्वया पृष्टं विष्णोर्भगवतः प्रिये
नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमुक्तिदम् ॥११८॥
अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिरनुष्टुपच्छंदः
ह्रीं बीजं श्रीं शक्तिः क्लीं कीलकं चतुर्वर्गधर्मकामार्थमोक्षार्थे जपे विनियोगः
ॐवासुदेवाय विद्महे महाहंसाय धीमहि
तन्नो विष्णुः प्रचोदयात् अंगन्यासकरन्यासौ विधिपूर्वं यदा पठेत्
तत्फलं कोटिगुणितं भवत्येव न संशयः ॥११९॥
श्रीवासुदेवः परंब्रह्म इति हृदये
मूलप्रकृतिरिति शिरः
महावराह इति शिखा
सूर्यवंशध्वज इति कवचम्
ब्रह्मादिकाम्यललित जगदाश्चर्य शैशव इति नेत्रम्
यथार्थखंडिताशेष इत्यस्त्रम्
नमोनारायणायेति न्यासं सर्वत्र कारयेत्
ॐनमोनारायणाय पुरुषाय महात्मने
विशुद्धसत्वधिष्ण्याय महाहंसाय धीमहि
ॐह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
क्लीं कृष्णाय विष्णवे ह्रीं रामाय धीमहि तन्नो देवः प्रचोदयात्
क्ष्रौं नृसिंहाय विद्महे श्रीं श्रीकंठाय धीमहि तन्नो विष्णुः प्रचोदयात्
ॐवासुदेवाय विद्महे देवकीसुताय धीमहि तन्नः कृष्णः प्रचोदयात्
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा
इति मंत्रम् समुच्चार्य जपेद्वा विष्णुमव्ययम्
श्रीनिवासं जगन्नाथं तस्य स्तोत्रं पठेत्सुधीः ॥१२०॥
ॐवासुदेवः परं ब्रह्म परमात्मा परात्परः
परंधाम परंज्योतिः परंतत्वं परं पदम् ॥१२१॥
परः शिवः परोध्येयः परं ज्ञानं परागतिः
परमार्थः परंश्रेयः परानंदः परोदयः ॥१२२॥
परो व्यक्तात्परं व्योम परमर्द्धिः परेश्वरः
निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥१२३॥
निरंजनो निरातंको निर्लेपो निरवग्रहः
निर्गुणो निष्कलोऽनंतोऽभयोऽचिंत्योऽबलोचितः ॥१२४॥
अतीन्द्रियो मितो पारोऽनीशोऽनीहोऽव्ययोऽक्षयः
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥१२५॥
सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक्?
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥१२६॥
सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखहा
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥१२७॥
सर्वातिशयितः सर्वाध्यक्षः सर्वसुरेश्वरः
षड्विंशको महाविष्णुर्महागुह्यो महाविभुः ॥१२८॥
नित्योदितो नित्ययुक्तो नित्यानंदः सनातनः
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥१२९॥
जन्ममृत्युजरातीतः कालातीतो भवातिगः
पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥१३०॥
योगप्रियो योगगम्यो भवबंधैकमोचकः
पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः ॥१३१॥
वेदांतवेद्यो दुर्ज्ञेयस्तपत्रयविवर्जितः
ब्रह्मविद्याश्रयो नाद्यः स्वप्रकाशः स्वयंप्रभुः ॥१३२॥
सर्वोपेय उदासीनः प्रणवः सर्वतः समः
सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः ॥१३३॥
कूटस्थः सर्वसंश्लिष्टो वाङ्मनोगोचरातिगः
संकर्षणः सर्वहरः कालः सर्वभयंकरः ॥१३४॥
अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः
मूलप्रकृतिरानंदः प्रद्युम्नो विश्वमोहनः ॥१३५॥
महामायो विश्वबीजं परशक्तिः सुखैकभूः
सर्वकाम्योऽनतलीलः सर्वभूतवशंकरः ॥१३६॥
अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः
निरुपाधिप्रियो हंसोक्षरः सर्वनियोजकः ॥१३७॥
ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः
क्षेत्रज्ञः प्रकृतिः स्वामी पुरुषो विश्वसूत्रधृक् ॥१३८॥
अंतर्यामी त्रिधामांतः साक्षी त्रिगुण ईश्वरः
योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः ॥१३९॥
श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः
नित्यं वक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥१४०॥
वश्यश्रीर्निश्चलः श्रीदो विष्णुः क्षीराब्धिमंदिरः
कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥१४१॥
श्रीवत्सवक्षा निःसीम कल्याणगुणभाजनः
पीतांबरो जगन्नाथो जगत्त्राता जगत्पिता ॥१४२॥
जगद्बंधुर्जर्गत्स्रष्टा जगद्धाता जगन्निधिः
जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः ॥१४३॥
सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरंजितः
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनाः ॥१४४॥
शंभोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः
सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः ॥१४५॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम्
यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः ॥१४६॥
यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः
द्विजैकमानदो विप्र कुलदेवो सुरांतकः ॥१४७॥
सर्वदुष्टांतकृत्सर्वसज्जनानन्यपालकः
सप्तलोकैकजठरः सप्तलोकैकमंडनः ॥१४८॥
सृष्टिस्थित्यंतकृच्चक्री शार्ङ्गधन्वा गदाधरः
शंखभृन्नंदकी पद्मपाणिर्गरुडवाहनः ॥१४९॥
अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः
अनंतकीर्तिर्निःसीम पौरुषः सर्वमंगलः ॥१५०॥
सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः
मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥१५१॥
कोटींदु जगदानंदी शंभुकोटिमहेश्वरः
कंदर्पकोटिलावण्यो दुर्गकोट्यरिमर्दनः ॥१५२॥
समुद्रकोटिगंभीरस्तीर्थकोटि समाह्वयः
कुबेरकोटि लक्ष्मीवाञ्छक्रकोटि विलासवान् ॥१५३॥
हिमवत्कोटिनिष्कंपः कोटिब्रह्मांडविग्रहः
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥१५४॥
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥१५५॥
विश्वंभरस्तीर्थपादः पुण्यश्रवणकीर्तनः
आदिदेवो जगज्जैत्रो मुकुंदः कालनेमिहा ॥१५६॥
वैकुंठोऽनंतमाहात्म्यो महायोगेश्वरोत्सवः
नित्यतृप्तोलसद्भावो निःशंको नरकांतकः ॥१५७॥
दीनानाथैकशरणं विश्वैकव्यसनापहः
जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः ॥१५८॥
योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः
अधोक्षजो विश्वरेताः प्रजापति शताधिपः ॥१५९॥
शक्रब्रह्मार्चितपदः शंभुब्रह्मोर्ध्वधामगः
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥१६०॥
जगत्सेतुर्धर्मसेतुधरो विश्वधुरंधरः
निर्ममोऽखिललोकेशो निःसंगोऽद्भुतभोगवान् ॥१६१॥
वश्यमायो वश्यविश्वो विष्वक्सेनः सुरोत्तमः
सर्वश्रेयः पतिर्दिव्यानर्घ्यभूषणभूषितः ॥१६२॥
सर्वलक्षणलक्षण्यः सर्वदैत्येंद्रदर्पहा
समस्तदेवसर्वस्वं सर्वदैवत नायकः ॥१६३॥
समस्तदेवकवचं सर्वदेवशिरोमणिः
समस्तदेवतादुर्गः प्रपन्नाशनिपंजरः ॥१६४॥
समस्तभयहृन्नामा भगवान्विष्टरश्रवाः
विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः ॥१६५॥
सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः
ब्रह्मशंभुः परार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् ॥१६६॥
विराड्भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः
परार्थकर्त्ताकृत्यज्ञः स्वार्थकृत्य सदोज्झितः ॥१६७॥
सदानंदः सदाभद्रः सदाशांतः सदाशिवः
सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः ॥१६८॥
सदापूतो पावनाग्र्यो वेदगुह्यो वृषाकपिः
सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः ॥१६९॥
भूतभव्यभवन्नाथो महापुरुषपूर्वजः
नारायणो मुंजकेशः सर्वयोगविनिःसृतः ॥१७०॥
वेदसारो यज्ञसारः सामसारस्तपोनिधिः
साध्यः श्रेष्ठः पुराणर्षिः निष्ठा शांतिः परायणः ॥१७१॥
शिवत्रिशूलविध्वंसी श्रीकंठैकवरप्रदः
नरः कृष्णो हरिर्धर्मनंदनो धर्मजीवनः ॥१७२॥
आदिकर्त्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा
त्रिकालजित कंदर्प्प उर्वशीसृङ्मुनीश्वरः ॥१७३॥
आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः
सर्वदेवमयो ब्रह्मा गुरुर्वागीश्वरीपतिः ॥१७४॥
अनंतविद्याप्रभवो मूलाविद्याविनाशकः
सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः ॥१७५॥
अनेकमंत्रकोटीशः शब्दब्रह्मैकपारगः
आदिविद्वान्वेदकर्त्ता वेदात्मा श्रुतिसागरः ॥१७६॥
ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः
विद्याराजो ज्ञानमूर्त्तिर्ज्ञानसिंधुरखंडधीः ॥१७७॥
मत्स्यदेवो महाशृंगो जगद्बीजबहित्रदृक्
लीलाव्याप्ताखिलांभोधिश्चतुर्वेदप्रवर्त्तकः ॥१७८॥
आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥१७९॥
आत्माधारो धराधारो यज्ञांगो धरणीधरः
हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः ॥१८०॥
समस्तपितृभीतिघ्नः समस्तपितृजीवनम्
हव्यकव्यैकभुक्हव्यकव्यैकफलदायकः ॥१८१॥
रोमांतर्लीनजलधिः क्षोभिताशेषसागरः
महावराहो यज्ञघ्नध्वंसको यज्ञिकाश्रयः ॥१८२॥
श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा
एकवीरोऽद्भुतबलो यंत्रमंत्रैकभंजनः ॥१८३॥
ब्रह्मादिदुःसहज्योतिर्युगांताग्र्यतिभीषणः
कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् ॥१८४॥
मातृचक्रप्रमथनो महामातृगणेश्वरः
अचिंत्यामोघवीर्याढ्यः समस्तासुरघस्मरः ॥१८५॥
हिरण्यकशिपुछेदी कालः संकर्षणीपतिः
कृतांतवाहनासह्यः समस्तभयनाशनः ॥१८६॥
सर्वविघ्नांतकः सर्वसिद्धिदः सर्वपूरकः
समस्तपातकध्वंसी सिद्धमंत्राधिकाह्वयः ॥१८७॥
भैरवेशो हरार्तिघ्नः कालकोटिदुरासदः
दैत्यगर्भश्राविनामास्फुटद्र् ब्रह्मांडगर्जितः ॥१८८॥
स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः
ब्रह्मचर्यशिरः पिंडी दिक्पालोऽर्द्धांगभूषणः ॥१८९॥
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः
योगिनीग्रस्तगिरजा त्राताभैरवतर्जकः ॥१९०॥
वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशंबरः
क्रोधेश्वरो रुद्रचंडी परिवारादिदुष्टभुक् ॥१९१॥
सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्त्तकः
असाध्यसर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥१९२॥
गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा
देवदानवदुर्दर्शो जगद्भयदभीषणः ॥१९३॥
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः
उग्रशोंबरमार्जारः कालमूषकभक्षकः
अनंतायुधदोर्दंडी नृसिंहो वीरभद्रजित् ॥१९४॥
योगिनीचक्रगुह्येशः शक्रारि पशुमांसभुक्
रुद्रो नारायणो मेषरूप शंकरवाहनः ॥१९५॥
मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक्
तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः ॥१९६॥
महाशिवः शिवारूढो भैरवैककपालधृक्
किल्लीचक्रेश्वरः शक्र दिव्यमोहनरूपदः ॥१९७॥
गौरीसौभाग्यदो मायानिधीर्मायाभयापहः
ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः ॥१९८॥
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा
उपेंद्रो नृपतिर्विष्णुः कश्यपान्वयमंडनः ॥१९९॥
बलिस्वराज्यदः सर्वदेवविप्रान्नदोऽच्युतः
उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः ॥२००॥
व्योमपादः स्वपादांभः पवित्रितजगत्त्रयः
ब्रह्मेशाद्यभिवंद्यांघ्रिर्द्रुतधर्मांघ्रिधावनः ॥२०१॥
अचिंत्याद्भुतविस्तारो विश्ववृक्षो महाबलः
राहुमूर्धापरांगच्छिद्भृगुपत्नीशिरोहरः ॥२०२॥
पापत्रस्तः सदापुण्यो दैत्याशानित्यखंडनः
पूरिताखिलदेवाशो विश्वार्थैकावतारकृत् ॥२०३॥
स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा
वरदः कार्त्तवीर्यादि राजराज्यप्रदोऽनघः ॥२०४॥
विश्वश्लाघ्यामिताचारो दत्तात्रेयो मुनीश्वरः
पराशक्तिसदाश्लिष्टो योगानंदः सदोन्मदः ॥२०५॥
समस्तेंद्रारितेजोहृत्परमामृतपद्मपः
अनुसूयागर्भरत्नं भोगमोक्षसुखप्रदः ॥२०६॥
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत्
मातृहत्यादिनिर्लेपः स्कंदजिद्विप्रराज्यदः ॥२०७॥
सर्वक्षत्रांतकृद्वीरदर्पहा कार्त्तवीर्यजित्
सप्तद्वीपावतीदाता शिवार्चक यशप्रदः ॥२०८॥
भीमः परशुरामश्च शिवाचार्यैकविश्वभुक्
शिवाखिलज्ञानकोशो भीष्माचार्योऽग्निदैवतः ॥२०९॥
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वाकृतांतजित्
अद्वितीयतपोमूर्त्तिर्ब्रह्मचर्यैकदक्षिणः ॥२१०॥
मनुःश्रेष्ठः सतांसेतुर्महीयान्वृषभो विराट्
आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ॥२११॥
पृथुर्जन्माद्येकदक्षो गीः श्रीः कीर्तिः स्वयंवृतः
जगद्वृत्तिप्रदश्चक्रवर्त्तिश्रेष्ठोद्वयास्त्रधृक् ॥२१२॥
सनकादिमुनिप्राप्य भगवद्भक्तिवर्द्धनः
वर्णाश्रमादिधर्माणां कर्त्ता वक्ता प्रवर्त्तकः ॥२१३॥
सूर्यवंशध्वजो रामो राघवः सद्गुणार्णवः
काकुत्स्थो वीरराड्राजा राजधर्मधुरंधरः ॥२१४॥
नित्यस्वस्थाश्रयः सर्वभद्र ग्राही शुभैकदृक्
नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः
सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् ॥२१५॥
जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः
समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा ॥२१६॥
अतींद्रो ज्ञानविज्ञानपारदश्च क्षमांबुधिः
सर्वप्रकृष्टशिष्टेष्टो हर्षशोकाद्यनाकुलः
पित्राज्ञात्यक्तसाम्राज्यः सपन्नोदयनिर्भयः ॥२१७॥
गुहदेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः
चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः ॥२१८॥
यथेष्टामोघसर्वास्त्रो देवेंद्रतनयाक्षिहा
ब्रह्मेंद्रदिनतैषीको मारीचघ्नो विराधहा ॥२१९॥
ब्रह्मशापहताशेष दंडकारण्यपावनः
चतुर्दशसहस्रोग्र रक्षोघ्नैकशरैकधृक् ॥२२०॥
खरारिस्त्रिशिरोहंता दूषणघ्नो जनार्दनः
जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्व मंत्रराट् ॥२२१॥
लीलाधनुः कोट्यपास्तदुंदुभ्यस्थिमहाचयः
सप्ततालव्यधाकृष्ट ध्वस्तपातालदानवः ॥२२२॥
सुग्रीवराज्यदो हीनमनसैवाभयप्रदः
हनुमद्रुद्रमुख्येश समस्तकपिदेहभृत् ॥२२३॥
सनागदैत्यबाणैकव्याकुलीकृतसागरः
सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ॥२२४॥
समुद्राद्भुतपूर्वैक बंधसेतुर्यशोनिधिः
असाध्यसाधको लंकासमूलोत्कर्षदक्षिणः ॥२२५॥
वरदृप्तजगच्छल्य पौलस्त्यकुलकृंतनः
रावणिघ्नः प्रहस्तच्छित्कुंभकर्णभिदुग्रहा ॥२२६॥
रावणैकशिरश्च्छेत्ता निःशंकेंद्रैकराज्यदः
स्वर्गास्वर्गत्वविच्छेदी देवेंद्रानिंद्रताहरः ॥२२७॥
रक्षो देवत्वहृद्धर्मा धर्मत्वघ्नः पुरुष्टुतः
नतिमात्रदशास्यारिर्दत्तराज्यविभीषणः ॥२२८॥
सुधावृष्टिमृताशेष स्वसैन्योज्जीवनैककृत्
देवब्राह्मणनामैक धाता सर्वामरार्चितः ॥२२९॥
ब्रह्मसूर्येंद्ररुद्रादि वृंदार्पितसतीप्रियः
अयोध्याखिलराजन्यः सर्वभूतमनोहरः ॥२३०॥
स्वामितुल्यकृपादंडो हीनोत्कृष्टैकसत्प्रियः
स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः ॥२३१॥
व्याधव्याजानुचितकृत्तारकोखिलतुल्यकृत्
पार्वत्याधिक्यमुक्तात्मा प्रियात्यक्तः स्मरारिजित् ॥२३२॥
साक्षात्कुशलवच्छद्मेंद्रादितातोऽपराजितः
कोशलेंद्रो वीरबाहुः सत्यार्थ त्यक्तसोदरः ॥२३३॥
शरसंधाननिर्धूत धरणीमंडलोदयः
ब्रह्मादिकाम्यसांनिध्यसनाथीकृतदैवतः ॥२३४॥
ब्रह्मलोकाप्तचांडालाद्यशेषप्राणिसार्थकः
स्वनीतगर्दभाश्वादिश्चिरायोध्यावनैककृत् ॥२३५॥
रामद्वितीयः सौमित्रिर्लक्ष्मणः प्रहतेंद्रजित्
विष्णुभक्ताप्तरामांघ्रिपादुकाराज्यनिर्वृतः ॥२३६॥
भरतोऽसह्यगंधर्वकोटिघ्नो लवणांतकः
शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः ॥२३७॥
नित्यामृतकरो धन्वंतरिर्यज्ञो जगद्धरः
सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः ॥२३८॥
छिन्नमूर्धायदेशार्कः शेषांगस्थापितामरः
विश्वार्थाशेषकद्रास्त्र शिरच्छेदाक्षताकृतिः ॥२३९॥
वाजपेयादिनामाग्निर्वेदधर्मपरायणः
श्वेतद्वीपपतिः सांख्यप्रणेता सर्वसिद्धिराट् ॥२४०॥
विश्वप्रकाशितज्ञानयोगमोहतमिस्रहा
देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः ॥२४१॥
योगस्वामी ध्यानभंग सगरात्मजभस्मकृत्
धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः ॥२४२॥
शंभुस्त्रिपुरदाहैकस्थैर्थविश्वरथोद्वहः
भक्तशंभुजितो दैत्यामृतवापीसमस्तपः ॥२४३॥
महाप्रलयविश्वैकद्वितीयाखिलनागराट्
शेषदेवः सहस्राक्षः सहस्रास्य शिरोभुजः ॥२४४॥
फणामणिकणाकारयोजिताब्ध्यंबुदक्षितिः
कालाग्निरुद्रजनको मुशलास्त्रो हलायुधः ॥२४५॥
नीलांबरो वारुणीशो मनोवाक्कायदोषहा
असंतोषो दृष्टिमात्रपातितैकदशाननः ॥२४६॥
बलिसंयमनो घोरो रौहिणेयः प्रलंबहा
मुष्टिकघ्नो द्विविदहा कालिंदीकर्षणो बलः ॥२४७॥
रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः
देवकीवसुदेवाह्व कश्यपादितिनंदनः ॥२४८॥
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः
नराकृतिः परंब्रह्म सव्यसाची वरप्रदः ॥२४९॥
ब्रह्मादिकाम्यलालित्य जगदाश्चर्य शैशवः
पूतनाघ्नः शकटभिद्यमलार्जुनभंजनः ॥२५०॥
वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः
दामोदरो गोपदेवो यशोदानंददायकः ॥२५१॥
कालीयमर्दनः सर्वगोपगोपीजनप्रियः
लीलागोवर्द्धनधरो गोविंदो गोकुलोत्सवः ॥२५२॥
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः
सद्यः कुवलयापीडघाती चाणूरमर्दनः ॥२५३॥
कंसारिरुग्रसेनादिराज्यव्यापारितापरः
सुधर्मांकितभूर्लोको जरासंधबलांतकः ॥२५४
त्यक्तभग्नजरासंधो भीमसेनयशःप्रदः
सांदीपनमृतापत्यदाता कालांतकादिजित् ॥२५५॥
समस्तनारकित्राता सर्वभूपतिकोटिजित्
रुक्मिणीरमणो रुक्मिशासनो नरकांतकः ॥२५६॥
समस्तसुंदरीकांतो मुरारिर्गरुडध्वजः
एकाकीजितरुद्रार्क मरुदाद्यखिलेश्वरः ॥२५७॥
देवेंद्रदर्पहा कल्पद्रुमालंकृतभूतलः
बाणबाहुसहच्छिन्नं नद्यादिगणकोटिजित् ॥२५८॥
लीलाजित महादेवो महादेवैकपूजितः
इंद्रार्थार्जुननिर्भंग जयदः पांडवैकधृक् ॥२५९॥
काशिराजशिरश्छेत्ता रुद्रशक्त्यैकमर्दनः
विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः ॥२६०॥
शंभुप्रतिज्ञाविध्वंसी काशीनिर्दग्धनायकः
काशीशगतकोटिघ्नो लोकशिक्षाद्विजार्चकः ॥२६१॥
युवतीव्रतयोवश्यः पुराशिववरप्रदः
शंकरैकप्रतिष्ठाधृक्स्वांश शंकरपूजकः ॥२६२॥
शिवकन्याव्रतपतिः कृष्णरूप शिवारिहा
महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा ॥२६३॥
स्वधाममुचुकुंदैकनिष्कालयवनेष्टकृत्
यमुनापतिरानीत परिलीनद्विजात्मजः ॥२६४॥
श्रीदामरंकभक्तार्थभूम्यानीतेंद्रवैभवः
दुर्वृत्तशिशुपालैकमुक्तिदो द्वारकेश्वरः ॥२६५॥
आचांडालदिकप्राप्य द्वारकानिधिकोटिकृत्
अक्रूरोद्धवमुख्यैकभक्तस्वच्छंदमुक्तिदः ॥२६६॥
सबालस्त्रीजलक्रीडामृतवापीकृतार्णवः
ब्रह्मास्त्रदग्धगर्भस्थ परीक्षिज्जीवनैककृत् ॥२६७॥
परिलीनद्विजसुतानेताऽर्जुनमदापहः
गूढमुद्राकृतिग्रस्त भीष्माद्यखिलकौरवः ॥२६८॥
यथार्थखंडिताशेष दिव्यास्त्रपार्थमोहहृत्
गर्भशापछलध्वस्तयादेवोर्वी भयापहः ॥२६९॥
जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः
कामदेवो रतिपतिर्मन्मथः शंबरांतकः ॥२७०॥
अनंगो जितगौरीशो रतिकांतः सदेप्सितः
पुष्पेषुर्विश्वविजयि स्मरः कामेश्वरीप्रियः ॥२७१॥
उषापतिर्विश्वकेतुर्विश्वदृप्तोऽधिपूरुषः
चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः ॥२७२॥
चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिशः
आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् ॥२७३॥
महाभारतनिर्माता कवींद्रो बादरायणः
कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः ॥२७४॥
वेदांतकर्ता ब्रह्मैकव्यंजकः पुरुवंशकृत्
बुद्धो ध्यानजिताशेष देवदेवो जगत्प्रियः ॥२७५॥
निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः
दैत्यवेदबहिःकर्त्ता वेदार्थश्रुतिगोपकः ॥२७६॥
शौद्धोदनिर्दष्टदृष्टिः सुखदः सदसस्पतिः
यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः ॥२७७॥
चतुष्कोटिपृथक्तत्वं प्रज्ञापारमितेश्वरः
पाखंडवेदमार्गेशः पाखंडश्रुतिगोपकः ॥२७८॥
कल्की विष्णुयशःपुत्रः कलिकालविलोपकः
समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् ॥२७९॥
सत्यप्रवर्त्तको देव द्विजदीर्घक्षुधापहः
अश्ववारादि रेवंतः पृथ्वीदुर्गतिनाशनः ॥२८०॥
सद्यः क्ष्माऽनंतलक्ष्मीकृन्नष्टनिःशेषधर्मवित्
अनंतस्वर्णयोगैक हेमपूर्णाखिलद्विजः ॥२८१॥
असाध्यैकजगच्छास्ता विश्ववंद्यो जयध्वजः
आत्मतत्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः ॥२८२॥
भर्तृश्रेष्ठः प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः
कश्यपो देवराजेंद्रः प्रह्लादो दैत्यराट्शशी ॥२८३॥
नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः
महर्षिराट्भृगुर्विष्णुरादित्येशो बलिस्वराट् ॥२८४॥
वायुर्वह्निः शुचिः श्रेष्ठः शंकरो रुद्रराट्गुरुः
विद्वत्तमश्चित्ररथो गंधर्वाग्र्योक्षरोत्तमः ॥२८५॥
वर्णादिरग्र्यस्त्रीगौरीशक्त्याग्र्याशीश्च नारदः
देवर्षिराट्पांडवाग्र्योऽर्जुनोवादः प्रवादराट् ॥२८६॥
पवनः पवनेशानो वरुणो यादसां पतिः
गंगातीर्थोत्तमोद्यूतं छलकाग्र्यं वरौषधम् ॥२८७॥
अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम्
उच्चैःश्रवावाजिराज ऐरावतइभेश्वरः ॥२८८॥
अरुंधत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट्
अध्यात्मविद्याविद्याग्र्यः प्रणवच्छंदसां वरः ॥२८९॥
मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः
दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट् ॥२९०॥
तार्क्ष्यः खगेंद्र ऋत्वग्र्यो वसंतः कल्पपादपः
दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्य सुहृत्तमः ॥२९१॥
चिंतामणिर्गुरुश्रेष्ठो माता हिततमः पिता
सिंहो मृगेंद्रो नागेंद्रो वासुकिर्नृवरो नृप ॥२९२॥
वर्णेशो ब्राह्मणश्चेतः करुणाग्र्यं नमोनमः
इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् ॥२९३॥
सर्वापराधशमनं परं भक्तिविवर्द्धनम्
अक्षयं ब्रह्मलोकादि सर्वस्वर्गैकसाधनम् ॥२९४॥
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम्
समस्तसुखदं सद्यः परं निर्वाणदायकम् ॥२९५॥
कामक्रोधादिनिःशेषमनोमलविशोधनम्
शांतिदं पावनं नॄणां महापातकिनामपि ॥२९६॥
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम्
समस्तविघ्नशमनं सर्वारिष्टविनाशनम् ॥२९७॥
घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम्
ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् ॥२९८॥
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम्
तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् ॥२९९॥
जगज्जाड्यप्रशमनं सर्वविद्यापवर्त्तकम्
राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् ॥३००॥
वंध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम्
भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् ॥३०१॥
मांगल्यं पुण्यमायुष्यं श्रवणात्पठनाज्जपात्
सकृदस्याखिलावेदाः सांगा मंत्राश्च कोटिशः ॥३०२॥
पुराणशास्त्रस्मृतयः श्रुता स्युः पठितास्तथा
जप्त्वा चैकाक्षरं श्लोकं पादं वा पठति प्रिये ॥३०३॥
नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम्
नानेन सदृशं सद्यः प्रत्ययं सर्वकर्मसु ॥३०४॥
इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये
नावैष्णवाय दातव्यं विकल्पोपहतात्मने ॥३०५॥
भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने
देयं पुत्राय शिष्याय सुहृदे हितकाम्यया ॥३०६॥
मत्प्रसादादृतेनेदं ग्रहीष्यंत्यल्पमेधसः
कलौ सद्यः फलं कल्पग्रामं नेष्यति नारदः ॥३०७॥
लोकानां भाग्यहीनानां येन दुःखं विनश्यति
द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ॥३०८॥
नास्ति विष्णोः परं धाम नास्ति विष्णोः परं तपः
नास्ति विष्णोः परो धर्मो नास्ति मंत्रो ह्यवैष्णवः ॥३०९॥
नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परो मखः
नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः ॥३१०॥
किं तस्य बहुभिर्मंत्रैः शास्त्रैर्वा र्बहुविस्तरैः
वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने ॥३११॥
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः
सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम्
आब्रह्मसारसर्वस्वं सर्वमेतन्मयोदितम् ॥३१२॥
पार्वत्युवाच-
धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्पते
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ॥३१३॥
अहो बत महत्कष्टं समस्तदुःखहे हरौ
विद्यमानेऽपि देवेशे मूढाः क्लिश्यंति संसृतौ ॥३१४॥
यमुद्दिश्य सदा नाथं महेशोऽपि दिगंबरः
जटिलो भस्मलिप्तांगो तपस्वी वीक्ष्यते जनैः ॥३१५॥
ततोऽधिकोऽस्ति देवः को लक्ष्मीकांतान्मधुद्विषः
यत्तत्त्वं चिंत्यते नित्यं त्वया योगेश्वरेण हि ॥३१६॥
ततः परं किमधिकं पदं श्रीपुरुषोत्तमात्
तमविज्ञाय कं मूढाः यजंते ज्ञानमानिनः ॥३१७॥
मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः
प्रकाशितो न मे यस्मात्त्वदाद्या दिव्यशक्तयः ॥३१८॥
अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः
भवदादिगुरुर्मूढैः सामान्य इव वीक्ष्यते ॥३१९॥
महीयसां हि माहात्म्यं भजमानान्भजंति ते
द्विषतोऽपि वृथा पापानुपेक्ष्यंते क्षमान्विताः ॥३२०॥
मयापि बाल्ये स्वपितुः प्रजा दृष्टा बुभुक्षिताः
दुःखादशक्तया पोष्टुं श्रियमाराध्य वै भृताः ॥३२१॥
तया संनिहिताभ्यश्च प्रजाभ्यो भवदादयः
विलसंति स शक्राद्याः ससुहृन्मित्रबांधवाः ॥३२२॥
तया विना क्व देवत्वं क्वैश्वर्यं क्व परिग्रहः
सर्वे भवंति जीवंतो यातनास्वेव संस्थिताः ॥३२३॥
तामृतेनैव धर्मोऽथ कामो मोक्षोऽपि दूरतः
क्षुधितानां दुर्गतानां कुतो योगसमाधयः ॥३२४॥
स च संसारसारैकः सर्वलोकैकनायकः
वशगा कमला यस्य त्यक्त्वा तामपि शंकरः ॥३२५॥
अनौद्धत्येन शौचेन रूपेणार्जवसंपदा
सर्वातिशयवीर्येण संपूर्णस्य महात्मनः ॥३२६॥
कस्तेन तुल्यतामेति देवदेवेन विष्णुना
यस्यांशांशावतारेण विना सर्वं विलीयते ॥३२७॥
जगदेतत्तथाप्याहुर्दोषायैतद्विमोहिताः
नास्य जन्म न वा मृत्युर्नाप्राप्यं स्वार्थमेव च ॥३२८॥
कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वरप्रभो
त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् ॥३२९॥
विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज
नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ॥३३०॥
महादेव उवाच-
रामरामेति रामेति रमे रामे मनोरमे
सहस्रनामतत्तुल्यं रामनाम वरानने ॥३३१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे विष्णोर्नामसहस्रं संपूर्णं नामैकसप्ततितमोऽध्यायः ॥७१॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP