उत्तरखण्डः - अध्यायः १५६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच
दुग्धेश्वरस्य पूर्वे तु तीर्थं परमपावनम्
चंद्रभागेति वै नाम्ना नदी यत्र तु संगता ॥१॥
तत्र चंद्रेश्वरो देवो नित्यं तिष्ठति पुण्यदः
यो हरः सर्वदा व्यापी लोकानां सुखदो महान् ॥२॥
अत्र स्नानं प्रकुर्वंति ध्यानं कुर्वंति नित्यशः
तत्फलं प्राप्नुयुस्ते वै साभ्रमत्यां शिवार्चनात् ॥३॥
सोमेनात्र तपस्तप्तं कालं बहुतरं किल
तस्माच्चन्द्रेश्वरो नाम स्थापितो वै महेश्वरः ॥४॥
शुक्रेणापि तपस्तप्तं चन्द्रभागा समीपतः
अतस्तीर्थाधिकं तीर्थं पावनं सर्वदा भुवि ॥५॥
कलौ गुप्तं तु ऋषिणा कारितं वै सुरेश्वरि
यत्र हेममयं लिगं दृश्यते नात्र संशयः ॥६॥
अत्र स्नात्वा च पीत्वा च कृत्वा वै शिवपूजनम्
ये नराः संगमिष्यंति धर्मानर्थांल्लभंति ते ॥७॥
वृषोत्सर्गादिकं कर्म ये कुर्वंति विशेषतः
भुक्त्वा स्वर्गपदं ते वै पश्चाद्यांति हरालयम् ॥८॥
स्नानार्थे प्रत्यहं देवि चंद्रभागा समीपतः
आगमिष्यंति ये लोकास्ते ज्ञेयाः पुण्यभागिनः ॥९॥
गत्वा परतटे ये वै ह्यर्चयंति च तं शिवम्
चंद्रेश्वरेति नामानं श्रीहरं पापकृंतनम् ॥१०॥
अत्र गत्वा विशेषेण रुद्रजाप्यादिकं तथा
ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः शिवरूपिणः ॥११॥
सर्वदा तु सुरश्रेष्ठ यत्र स्नानं प्रकुर्वते
ते नरा विष्णुरूपाणि विज्ञेया नात्र संशयः ॥१२॥
येऽत्र श्राद्धं प्रकुर्वंति तिलपिंडेन वा पुनः
तेऽपि विष्णुपदं यांति पिंडदानप्रभावतः ॥१३॥
अत्र दानं प्रकर्त्तव्यं स्नानं वै विधिपूर्वकम्
यत्र स्नात्वा तु मुच्यंते ब्रह्महत्यादिकिल्बिषात् ॥१४॥
तटेस्मिन्ये विशेषेण वटं चारोपयंति ते
मृताः शिवपदं यांति यावच्चंद्र दिवाकरौ ॥१५॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तर खंडे उमा०चंद्रेश्वर
चंद्रभागा महिमानाम षट्पंचाशदधिकशततमोऽध्यायः ॥१५६॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP