उत्तरखण्डः - अध्यायः २१५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सौभरिरुवाच-
युधिष्ठिरेदमाकर्ण्य नारदस्य वचः शुभम्
शिबिरौशीनरो राजा विनीतस्तमुवाच ह ॥१
शिबिरुवाच-
मुने मया तु माहात्म्यं श्रुतं मधुवनस्य वै
त्वन्मुखात्किंतु संदेहो ह्येकोस्ति मम मानसे ॥२॥
येन धर्मात्मना सर्वे तारिता निजबांधवाः
जन्मद्वयकृता ह्यासीत्स कथं स्वैरिणीसुतः ॥३॥
एतदाचक्ष्व भगवन्सर्वस्वं वेत्सि तत्त्वतः
अतीतं वर्त्तमानं च भविष्यमपि नारद ॥४॥
नारद उवाच-
एकदा मुनयः सर्वे हरिद्वारे समागताः
दशम्यां ज्येष्ठशुक्लस्य युक्तायां सर्वपर्वभिः ॥५॥
तत्र ते विधिवत्स्नात्वा कृत्वा च स्वक्रियां शुभाम्
हिमाचलस्य पृष्ठे तु स्वस्थचित्ता उपाविशन् ॥६॥
तारात्मजो बुधस्तत्र मुनिसंगे समागतः
र्सौदर्यभरसंयुक्तः स्मरो मूर्त्त इवापरः ॥७॥
तं समागतमालोक्य समुत्तस्थुर्मुनीश्वराः
तेनाभिवंदिता मूर्ध्ना पुनस्ते समुपाविशन् ॥८॥
बुधस्यादरमालोक्य विहितं मुनिपुंगवैः
मुनिपुत्रः स पप्रच्छ पितरं स्वमिति प्रभो ॥९॥
मुनिपुत्र उवाच-
कोऽयं तात समायातः सौंदर्येणापरः स्मरः
व्यासादिभिर्मुनिवरैर्भृशं तस्यादरः कृतः ॥१०॥
नारद उवाच-
इत्याकर्ण्य स धर्मात्मा स्वस्य पुत्रस्य भाषितम्
बभाषे मुनिशार्दूलः पुत्रं निर्बंधसंयुतम् ॥११॥
पितोवाच-
बृहस्पतेः सुरगुरोः सुतस्तारोदरोदोद्भवः
बुद्धिमान्बुधनामायं शशिवंशकरः परः ॥१२॥
पुत्र उवाच-
किं त्वया कथितं तात निःसंबंधपरं वचः
बृहस्पतेः सुतो यस्तु स कथं शशिवंशकृत् ॥१३॥
जज्ञे न सूयया तात विधुरत्रेर्मुनीश्वरात्
तस्यवंशस्य कर्त्तायं कथं सुरगुरोः सुतः ॥१४॥
एष मे मानसे तात संशयो वर्तते महान्
तमपाकुरु विप्रेंद्र संदिहानस्य मे शिशोः ॥१५॥
पितोवाच-
पुरा बृहस्पतेर्भार्या तारानाम यशस्विनी
चंद्रेणापहृता तात बलाद्बलवता तदा ॥१६॥
अपहृत्य तदा नीता स्वगृहं विधिना गुरोः
भार्या सा तु तया सार्द्धं रमितं तेन वै चिरम् ॥१७॥
तस्मागर्भोऽभवत्तात कालेन कियता तदा
ततो बृहस्पतिर्भार्या निजां तां समयाचत ॥१८॥
चंद्रमापि मदाविष्टो न ददौ बलदर्पितः
ततो बृहस्पतिस्तात देवैः शक्रादिभिः सह ॥१९॥
सन्नद्धो योद्धुमारेभे समं बलवदिंदुना
सहायार्थं विधोः शुक्रः समं दितिजदानवैः ॥२०॥
समागतस्तदा तात तस्मिन्रणसमुद्यमे
ततस्तारानिमित्तं वै युद्धं प्रावर्त्ततोल्बणम् ॥२१॥
करिष्यते सर्वजनैः प्रधानं तारकामयम्
तस्मिन्युद्धे महाभीमे हता देवाश्च दानवाः ॥२२॥
न कस्यचिज्जयस्तात बभूव न पराजयः
ततः समागतो ब्रह्मा संनिवार्योल्बणं रणम् ॥२३॥
ददौ बृहस्पतेस्तारां बोधयित्वा निशापतिम्
बृहस्पतिस्तु तां वीक्ष्य तारां गर्भवतीं तदा
क्रुद्धो विरिंचेः प्रत्यक्षं समाजे देवदैत्ययोः ॥२४॥
बृहस्पतिरुवाच-
शृणुष्व मामकं वाक्यं तारे तरललोचने
कस्यायं ध्रियते गर्भो भवतेंदोर्ममाथवा ॥२५॥
पितोवाच-
एवं मुहुर्मुहुः पृष्टा सा च लज्जावती शुभा
यदा न कथयामास किंचित्तात तदग्रतः ॥२६॥
तदायं पश्यतां तेषां देवानां च सुरद्विषाम्
उत्पन्नस्तामुवाचेदं जननीं च रुषान्वितः ॥२७॥
बुध उवाच-
कस्मान्न कथ्यते दुष्टे मदीयो जनकस्त्वया
लज्जां विहाय संपश्य शापस्य मम वैभवम् ॥२८॥
पितोवाच-
इत्युक्त्वा जलमादाय यदा शप्तुं समुद्यतः
तदा सा मंदमाहेदं पिता तव सुधाकरः ॥२९॥
इत्युक्ते च तया साध्व्या चंद्र स्वःतनयं बुधम्
अमुं गृहीत्वा सानंदं जगाम निजमंदिरम् ॥३०॥
बृहस्पतिस्तु तां तारां गृहीत्वा स्वगृहं ययौ
ब्रह्मा देवाश्च दैत्याश्च तेपि स्वं स्वं गृहं ययुः ॥३१॥
एतत्ते सर्वमाख्यातं यस्त्वं मां परिपृष्टवान्
बृहस्पतिस्त्रियां जातो यथायं चंद्रवंशकृत् ॥३२॥
नारद उवाच-
इत्याकर्ण्य पितुर्वाक्यं जहासोच्चैर्मुनेः सुतः
उवाच च स्वपितरं कुंडोऽयं स्वैरिणीसुतः ॥३३॥
उवाच च पिता पुत्रं हा पुत्रेदं न भण्यताम्
सर्वसत्वांतरज्ञोऽयं शप्स्यते त्वां त्वदुक्तवित् ॥३४॥
नारद उवाच-
इत्युक्ते तेन मुनिना चांद्रिर्ज्ञात्वा तदीरितम्
सर्वेषां शृण्वतां प्राह मुनीनामिति भूपते ॥३५॥
बुध उवाच-
शृण्वंतु मुनिशार्दूला भवंतो मम भाषितम्
यदि साध्वथवा साधु विचारयत मा चिरम् ॥३६॥
भवतां तत्वबुद्धीनां दर्शनार्थमिहागतः
कृतवान्कस्यचिन्नाहमपराधं मनागपि ॥३७॥
असूयया किमर्थं मामवजानंति दुर्मदाः
स्वजन्मसफलत्वाय भवद्दर्शनलालसः ॥३८॥
स्वभाव एव दुष्टानां साधूनपि निरेनसः
उद्वेजयंति यत्क्वापि मिष्टवाचः पिका इव ॥३९॥
दुःस्वभावं न मुंचंति दुष्टाः सत्संगमादपि
गंगाबुसंगमेनापि क्षारतामिव नीरधिः ॥४०॥
अहो व्याधस्य दुष्टत्वं मुनिवृत्तीन्यतो मृगान्
वने मृगचरान्हंति निजगानविदोऽपि सः ॥४१॥
मत्स्यैः किमपराद्धं हि धीवराणां दुरात्मनाम्
यज्जले चरतस्तीर्थे घ्नंति तत्प्रकृतिर्हि सा ॥४२॥
साधवोऽपि न मुंचंति स्वभावं दुष्टसंगताः
वृता विषाग्नियुक्सर्पैः श्रीखंडा इव शीतताम् ॥४३॥
परोदयेपि नृत्यंति किं स्वपक्षस्य साधवः
यथोन्मना मुनिवरा वारिवाहस्य बर्हिणः ॥४४॥
धारयंति परार्थे हि निजांगमपि साधवः
पितृदेवमनुष्याणामर्थे मत्पितृवत्कलाः ॥४५॥
निजोदयस्तु साधूनां स्वच्छस्यानंदहेतवः
यथा कुमुदपुष्पाणां मत्पितुः शीतलत्विषः ॥४६॥
नारद उवाच-
इत्युदीर्य वचः क्रोधाद्बुधस्तं मुनिबालकम्
शशापेति त्वमप्याशु कुंडो भव महीतले ॥४७॥
एवमाकर्ण्य तं शापं पिता बुधविसर्जितम्
स्वपुत्रं पातयामास तदंघ्र्योः क्षम्यतामिति ॥४८॥
उवाच च न जानाति बालोऽयं तव वैभवम्
नोचितं क्रोधकरणमस्मिन्बाले भवादृशैः ॥४९॥
कुतश्चित्कारणात्साधोः क्रुद्धस्य प्रकृतिक्षमा
हुताशनप्रतप्तस्य शीतत्वमिव चांबुनः ॥५०॥
अतः क्षमां विधायाशु विधेह्यस्मिन्ननुग्रहम्
बाले विवेकरहिते क्षमासारा हि साधवः ॥५१॥
नारद उवाच-
इत्युक्तस्तेन मुनिना शीतांशुतनयस्तदा
क्रोधं तत्याज शांतात्मा चक्रे तस्मिन्ननुग्रहम् ॥५२॥
बुध उवाच-
अयं तव मुने बालः कुंडत्वं प्राप्य भूतले
दत्तयज्ञोपवीतः सँल्लप्स्यसे हि निजास्पदम् ॥५३॥
एवं स मुनिपुत्रो वै बुधशापान्नृपोत्तम
कुंडत्वं प्राप्तवान्भूमौ पितरो येन तारिताः ॥५४॥
इदं पवित्रं माहात्म्यं श्रुत्वा मधुवनस्य वै
समस्तमश्वमेधस्य फलं प्राप्नोति मानवः ॥५५॥
ये नरा धारयंत्यस्य माहात्म्यस्यार्थमुत्तमम्
हृदये यत्र तत्तेषां विषयैर्नाभिभूयते ॥५६॥
ये पठिष्यंति माहात्म्यं श्रोष्यंति च महाधियः
देहांते विष्णुसालोक्यं गमिष्यंति न संशयः ॥५७॥
इदमनिशपवित्रं तुभ्यमावर्णितं मे मधुवनसुचरित्रं श्रीपतेः प्रीतिकारि
कलिकलुषकलापच्छेदने दक्षमक्षोत्पथगमननिरासे कारणं पुण्यमूर्तौ ॥५८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मधुवनवर्णनोनाम पंचदशाधिकद्विशततमोऽध्यायः ॥२१५॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP