संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १४७

उत्तरखण्डः - अध्यायः १४७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
देवि वै श्रूयतां तीर्थं देवानामपि दुर्ल्लभम्
खड्गतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ॥१॥
खड्गतीर्थे नरः स्नात्वा दृष्ट्वा खङ्गेश्वरं शिवम्
न नरो दुर्गतिं गच्छेत्स्वर्गलोकं प्रगच्छति ॥२॥
खड्गधारेश्वरं देवं यः पश्यति सुरोत्तमे
कार्तिक्यां तु विशेषेण पूजनं तत्र कारयेत् ॥३॥
अयं विश्वेश्वरो देवः सर्वदा भुवि वल्लभे
सर्वं ददाति सर्वेशो वांच्छितार्थप्रदायकः ॥४॥
वैशाखे राज्यकामार्थी यः पश्यति तमीश्वरम्
तमर्थं लभते क्षिप्रं विश्वनाथप्रसादतः ॥५॥
पुष्पैर्धूपैश्च नैवेद्यैर्दीपैर्वा नगनंदिनि
फलप्रदानैर्बिल्वैश्च विश्वेशं पूजयेत्ततः ॥६॥
धनधान्यप्रदं चाशु पुत्रपौत्रादिसंपदः
प्राप्यंते नात्र संदेहः श्रीविश्वेश्वरपूजनात् ॥७॥

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर संवादे
खड्गतीर्थं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥१४७॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP