संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १२९ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १२९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२९ Translation - भाषांतर वसिष्ठ उवाचश्रूयतां ये पिशाचाश्च मोचितास्तेन तद्वनेआसीद्राजा चित्रनामा द्राविडे विषये पुरा ॥१॥सोमान्वये महावीरः शूरः शस्त्रास्त्रपारगःगजवाजिरथौघैश्च संपन्नो विक्रमी सदा ॥२॥स्वर्णैर्नानाविधै रत्नैः पूर्णकोशो महाधनःमध्ये नारीसहस्रस्य सदा क्रीडति तत्परः ॥३॥स्त्रैणः कामी सदा लुब्धश्चंडकोपः स पार्थिवःन करोति वचो धर्म्यं सचिवैः समुदीरितम् ॥४॥विष्णुं निंदति सोऽत्यर्थं वैष्णवान्द्वेष्टि सर्वदाकोऽसौ विष्णुः क्व दृष्टोऽसौ क्व चास्ते केन कीर्त्यते ॥५॥इत्थं न सहते विष्णुं स राजा दैवमोहितःनारायणं भजंते ये तान्पीडयति कोपितः ॥६॥न ब्राह्मणान्न वेदांश्च वैदिकं कर्म न व्रतम्न दानं मन्यते दातुं पाखंडस्थितिसंस्थितः ॥७॥अनीत्या चंडदंडैश्च प्रजापीडां करोति सःनिष्ठुरो निर्दयः क्रूरः पुण्यकार्यपराङ्मुखः ॥८॥च्युताचारोऽच्युतद्वेष्टा च्युताग्निश्च च्युतक्रियःसोऽनुशास्ति जनं भूपः कालरूप इवापरः ॥९॥ततो बहुतिथे काले स राजा पंचतां गतःवैदिकेन विधानेन लेभे नैवोर्ध्व दैहिकम् ॥१०॥अथ किंकरयूथेन पीड्यमानो भृशं तदाअयःकीलमये मार्गे तप्तसिक्ता प्रपूरिते ॥११॥चंडार्करश्मिसंतप्ते वृक्षच्छायाविवर्जितेतप्तांगारप्रकीर्णे च वह्निज्वालासमाकुले ॥१२॥लोहतुंडैश्च काकोलैर्हन्यमानः सुदारुणैःवृकैर्दंष्ट्राकरालैश्च श्वभिर्घोरैश्च भक्षितः ॥१३॥शृण्वन्क्रंदितमन्येषां नृणां किल्बिषकारिणाम्जगाम पार्थिवो लोकमंतकस्य भयावहम् ॥१४॥शृणु भूपगतिं तस्य तस्मिँल्लोके सुदुःसहाम्निरयान्निरयं यातः पर्यायेण स भूपतिः ॥१५॥आदौ प्रयातस्तामिस्रे दारुणे भूरिदुःखदेपुनश्चैवांधतामिस्रे यत्र दुःखं निरंतरम् ॥१६॥गतोऽनंतरमत्युग्रं महारौरवरौरवम्नरकं कालसूत्रं च महानरकमेव च ॥१७॥पश्चान्मग्नः स भूपालो दुस्तरे दुःखमूर्छितःसंजीवने महावीचौ तापने संप्रतापने ॥१८॥प्रतापनरकं राजा दुःखाग्निप्लुष्टमानसःसंपातं च स काकोलं कुड्मलं पूतिमृत्तिकम् ॥१९॥लोहशंकुं मृगीयंत्रं पंथानं शाल्मलिनदीम्प्रविष्टोऽथ महाभीमं दुर्दर्शं दुर्गमं पुनः ॥२०॥असिपत्रवनं चैव लोहचारकमेव चएवमेतेषु सर्वेषु पतित्वा पापकृन्नृपः ॥२१॥अविंदन्नरके घोरे संतापं यातनामयम्विष्णुप्रद्वेषघोषेण युगानामेकविंशतिः ॥२२॥भुक्त्वा च यातनां याम्यां निस्तीर्णनरको नृपःसमयाद्गिरिराजे तु पिशाचोऽभूत्तदा महान् ॥२३॥स भ्राम्यति दिशः सर्वा वने तस्मिन्बुभुक्षितःन पश्यत्यशनं तोयं मेरावपि सदा गिरौ ॥२४॥कदाचित्पर्यटन्सोऽथ पिशाचः शोकपीडितःप्लक्षप्रस्रवणारण्यं प्रविष्टो भाविसत्फलम् ॥२५॥बिभीतकतरुच्छायां समाश्रित्य सुदुःखितःहा हतोऽस्मीति चाक्रंदद्घोरमुच्चैः पुनः पुनः ॥२६॥क्ष्रुत्तृड्भ्यां मुह्यमानस्य सर्वभूतद्रुहो ममजन्मनोस्य दुरंतस्य कथमंतो भविष्यति ॥२७॥आदौ पापसमुद्रेऽस्मिन्दुःखकल्लोलमालिनीकरावलंबनं कोद्य निमग्नस्य प्रदास्यति ॥२८॥इत्थं तस्य पिशाचस्य रोदनं दीनचेतसःदेवद्युतिरधीयानः शुश्राव करुणामयम् ॥२९॥समागम्य ततस्तत्र तं पिशाचं ददर्श सःविकरालमुखं भीमं पिशंगनयनं कृशम् ॥३०॥ऊर्ध्वमूर्धजकृष्णांगं यमदूतमिवापरम्ललज्जिह्वं च लंबोष्ठदीर्घजंघं शिराकुलम् ॥३१॥दीर्घांघ्रिं शुष्कतुंडं च गर्ताक्षं शुष्कपंजरम्अथामुं कौतुकाविष्टः पप्रच्छ मुनिपुंगवः ॥३२॥देवद्युतिरुवाचकोऽसि त्वं भीषणाकारः कुतो रोदिषि दारुणम्अवस्थेयं कुतो ब्रूहि किंचाहं करवाणि ते ॥३३॥ममाश्रमप्रविष्टा हि दुःखभाजो न जंतवःमोदंते केवलं सर्वे वैष्णवे भवने यथा ॥३४॥वद त्वं सत्वरं भद्र दुःखस्यैतस्य कारणम्कालक्षेपं न कुर्वंति प्राप्तेऽथे हि मनीषिणः ॥३५॥वसिष्ठ उवाचश्रुत्वैतद्वचनं प्रीतः पिशाचस्त्यक्तरोदनःउवाच दीनया वाचा प्रश्रयावनतस्तदा ॥३६॥पिशाच उवाचसर्वांगव्यापि संतापं जहार त्वद्वचो मयिग्रीष्मे दावानलोद्भूतं वर्षन्मेघ इवाचले ॥३७॥यन्मेऽस्ति सुकृतं किंचित्तेन दृष्टोऽसि मे द्विजन ह्यसंचितपुण्यानां सद्भिरेकत्रसंगमः ॥३८॥इत्युक्त्वा कथयामास पूर्ववृत्तांतमात्मनःविष्णुद्वेषप्रदोषेण दशामेतामहं गतः ॥३९॥यन्नामप्राणान्मुक्तो हि स्मृत्वा विष्णुपदं व्रजेत्पापिष्ठो हि हरौ तस्मिन्ममद्वेषोऽभवद्द्विज ॥४०॥यः पालयति भूतानि धर्मं याति जगत्त्रयेयोंऽतरात्मा च भूतानां तस्मिन्द्वेषो ममाभवत् ॥४१॥कर्मणां फलदो योऽत्र सर्ववेदेषु गीयतेतपोभिरिज्यते विप्रैः समद्वेषवशंगतः ॥४२॥त्यक्तक्रियैः प्रियारण्यैर्निःसंगैकचरैश्च यःवेदांते यतिभिश्चिंत्यः स मे द्वेषी हरिर्द्विज ॥४३॥ब्रह्मादयः सुराः सर्वे योगिनः सनकादयःमुक्त्यर्थमर्चयंतीह स विष्णुर्द्वेषितो मया ॥४४॥आदौ मध्येऽवसाने यो विश्वधाता सनातनःयस्य नैवादिमध्यांताः समे द्वेषपदं ययौ ॥४५॥यन्मया सुकृतं कर्म कृतं प्राक्तनजन्मनिविष्णुद्वेषाग्निना दग्धं तत्सर्वं भस्मसादभूत् ॥४६॥कथंचिदस्य पापस्य सीमां द्रक्ष्यामि चेदहम्मुक्त्वा नारायणं नान्यमर्चयिष्यामि देवताम् ॥४७॥विष्णुद्वेषाच्चिरं भुक्त्वा मया नरकयातनाम्निरयान्निसृतः सोऽहं पैशाचीं योनिमागतः ॥४८॥अधुना कर्ममंत्रैः कैरथानीतस्त्वदाश्रमम्यत्र त्वद्दर्शनार्कान्मे नष्टं दुःखमयं तमः ॥४९॥प्राप्यते मरणं यत्र बंधनं श्रीः सुखं वधूःस तत्र नीयते स्वेन कर्मणा गलहस्तिना ॥५०॥इदानीमुचितं कर्म ब्रूहि पैशाच्यनाशनम्परोपकारकार्ये हि न धन्या मंदगामिनः ॥५१॥देवद्युतिरुवाचअहो मुष्णाति मायेयं देवासुरनृणां स्मृतिम्यया देवेष्वपि द्वेषो जायते धर्मनाशनः ॥५२॥स्रष्टा पालयिता हंता जगतां यो महेश्वरःआत्मा च सर्वभूतानां तं मूढो द्वेष्टि कः कथम् ॥५३॥भवंति सर्वकर्माणि सफलानि यदर्पणात्तद्भक्तिविमुखो मर्त्यः को न यातीह दुर्गतिम् ॥५४॥श्रुतिस्मृतिसदाचारविहितं कर्म केवलम्सेवितव्यं चतुर्वर्णैर्भजन्नारायणं सदा ॥५५॥अन्यथा निरयं यांति विना ह्यागमसेवनात्अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म संत्यजेत् ॥५६॥स्वबुद्धिरचितैः शास्त्रैः प्रतार्येह तु बालिशान्विघ्नंति श्रेयसो मार्गं लोकनाशाय केवलम् ॥५७॥विष्णुं निंदंति वेदांश्च तपो निंदंति सद्द्विजान्तेन ते नरकं यांति ह्यसच्छास्त्रनिषेवणात् ॥५८॥अयमेव यथा राजा द्रविडो निरयं गतःद्विषन्नारायणं देवं देवदेवं जगत्प्रभुम् ॥५९॥तस्माद्द्वेषं हि देवेषु ब्राह्मणेषु विशेषतःसंत्यजेत्पुण्यकामोऽत्र वेदबाह्यां क्रियां त्यजेत् ॥६०॥इत्युक्त्वा कथयामास पिशाचाय हि तं मुनिःप्रयागं गच्छ भो भद्र माघमासं विचारय ॥६१॥यत्र ते निश्चिता मुक्तिः पैशाच्यान्नात्र संशयःतत्राप्लुता दिवं यांति श्रुतिरेषा सनातनी ॥६२॥विजहाति नरस्तत्र प्राक्तनं कर्म दुष्कृतम्प्रयागस्नानतो नास्ति क्वाप्यन्यदधिकं परम् ॥६३॥प्रायश्चित्तं तपोरूपं दानरूपं क्रियात्मकम्यागयोगाधिकं विद्धि प्रयागं पापिनामपि ॥६४॥स्वर्गापवर्गयोर्द्वारं तत्पृथिव्यामपावृतम्सितासितोद वेणी या तां हित्वा भुवि नापरा ॥६५॥पापनैगडबद्धस्य छेदनैककुठारिकाक्व विष्णुः सूर्यतेजोऽग्निर्गंगायामुनसंगमः ॥६६॥क्व वराकी नृणां तुच्छा पापराशि तृणाहुतिःमलीमसघनध्वंसे यथा शरदि चंद्रमाः ॥६७॥भाति पापक्षयादूर्ध्वं नरो वेणीजलाप्लुतःसितासितस्य माहात्म्यमहं वक्तुं न ते क्षमः ॥६८॥यत्तोयकणसंस्पृष्टो मुक्तः केरलको द्विजःइति वाक्यमृषेः श्रुत्वा पिशाचस्तुष्टमानसः ॥६९॥मुक्तदुःखइव प्रीतः पप्रच्छ प्रणयान्मुनिम्कथं केरलदेशीयो द्विजो मुक्तो महामुने ॥७०॥एतं कथय वृत्तांतं संश्रित्य करुणां मयि ॥७१॥देवद्युतिरुवाचपिशाच शृणु पुण्यां मे कथां कथयतः शुभाम्केरले वसुनामात्र ब्राह्मणो वेदपारगः ॥७२॥दायादैर्हृतवित्तस्तु निर्धनो बंधुवर्जितःजन्मभूमिं परित्यज्य महादुःखेन दुःखितः ॥७३॥देशाद्देशं परिभ्राम्य कालेन महता पुनःप्रविश्य स महारण्यमीषद्व्याधिप्रपीडितः ॥७४॥गच्छंस्तीर्थांतरं श्रांतः क्षुत्क्षामो विंध्यपर्वतेदुर्भिक्षेण मृतिं लेभे न दाहं चौर्ध्वदेहिकम् ॥७५॥तेन कर्मविपाकेन तत्रैव गिरिगह्वरेप्रेतीभूतश्चिरं कालमुवास निर्जने वने ॥७६॥शीतातपपरिक्लिष्टो निराहारो निरूदकःदिगंबरो व्युपानत्को गिरा हाहेति निःश्वसन् ॥७७॥इतस्ततः परिभ्राम्य वायुभूतः स केरलःद्विजो न शरणं लेभे न सुखं कुत्रचित्तदा ॥७८॥संशोचति स्म दुःखार्ते नैव पश्यति सद्गतिम्सर्वदा दत्तदानं स भुंक्ते स्वं कर्मणः फलम् ॥७९॥हविर्जुह्वति नाग्नौ ये गोविंदं नार्चयंति येभजंते नात्मविद्यां ये सुतीर्थविमुखाश्च ये ॥८०॥सुवर्णवस्त्रतांबूलं मणिमन्नं फलं जलम्आर्तेभ्यो न प्रयच्छंति सर्वे ते कृतहीनकाः ॥८१॥ब्रह्मस्वं च परस्वं च स्त्रीधनानि हरंति येबलेन छद्मना वापि धूर्ताश्च परवंचकाः ॥८२॥दांभिकः कुहकाश्चौरा ये च पावकवृत्तयःबालवृद्धातुरस्त्रीषु निर्दयाः सत्यवर्जिताः ॥८३॥अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणःअगम्यागामिनः सर्वे ये चान्ये ग्रामयाजिनः ॥८४॥पितृमातृस्नुषापत्यस्वदारत्यागिनश्च येये कदर्याश्च लुब्धाश्च नास्तिका धर्मदूषकाः ॥८५॥त्यजंति स्वामिनं युद्धे त्यजंति शरणागतम्गवांभूमेश्च हंतारो ये चान्ये रत्नदूषकाः ॥८६॥परापवादिनः पापा देवतागुरुनिंदकाःमहाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये ॥८७॥परद्रोहरता ये च यथा च प्राणिहिंसकाःकुप्रतिग्राहिणः सर्वे ते भवंति पुनः पुनः ॥८८॥प्रेतराक्षसपैशाच तिर्यग्वृक्षकुयोनिषुन तेषां सुखलेशोऽस्ति इह लोके परत्र च ॥८९॥तस्मात्त्यक्त्वा निषिद्धार्थं विहितं कर्म चाचरेत्यज्ञं दानं तपस्तीर्थं मंत्रं देवं गुरुं भजेत् ॥९०॥विपाकं कर्मणां दृष्ट्वा योनिकोटिषु दुस्तरम्चतुर्भिरपि वर्णैश्च सेव्यो धर्मो निरंतरम् ॥९१॥इति प्रेतगतिं दृष्ट्वा पापबीजोत्थितां हि सःकृत्वा धर्मोपदेशं च पुनस्तस्मै द्विजोऽब्रवीत् ॥९२॥इत्थं स केरलः प्रेतो वर्तमानो गिरौ तदाअतिवाह्य चिरं कालमपश्यत्पथिकं पथि ॥९३॥वहंतं द्वौ करंडौ च वेणी जलयुतौ तथागायंतं प्रमुखा देवं पुण्यश्लोकं जनार्दनम् ॥९४॥तं दृष्ट्वा सहसा प्रेतो मार्गरोधं चकार सःदर्शयामास चात्मानं मा भैषीरित्युवाच सः ॥९५॥पानीयं पातुमिच्छामि त्वत्तः कार्पाटिकोत्तमन पास्यसि जलं चेन्मां प्राणा यास्यंति मे दृढम् ॥९६॥इति प्रेतवचः श्रुत्वा पांथः प्रत्याह कौतुकात्कार्पटीक उवाचकस्त्वं दुःखाभिभूतस्तु कृशो म्लानो दिगंबरः ॥९७॥जीवशेषो मुमूर्षुश्च विकृतो भयवर्धनःनवधूममयाकारश्चंडश्चंचललोचनः ॥९८॥पद्भ्यामस्पृष्टभूमिस्त्वं निर्मांसोदरबाहुकःइति तद्वचनं श्रुत्वा प्रेतो वाक्यमथाब्रवीत् ॥९९॥प्रेत उवाचशृणु धर्मिष्ठ ते वच्मि येनाहमीदृशोऽभवम्ब्राह्मणोऽदत्तदानोऽहं लोभी च मलिनक्रियः ॥१००॥परान्नं च सदा भुक्तमेकाकी मिष्टभोजनःमया दत्ता न भिक्षापि हंतकारो न पुष्कलः ॥१०१॥न कृतो वैश्वदेवस्तु प्रक्षिप्तो न बहिर्बलिभूतानां तु तृषार्तानां न हता पयसा च तृट् ॥१०२॥कदाचित्पितरो नैव तर्पिता अटता महीम्न च श्राद्धं कृतं क्वापि पूजिता नैव देवताः ॥१०३॥वर्षातपपरित्राणं न दत्तं पादरक्षणम्जलपात्रं न दत्तं च तांबूलं नौषधं मया ॥१०४॥न गृहे वसतिर्दत्ता नातिथ्यं कस्यचित्कृतम्अंधवृद्धाधनानाथ दीनाः पानान्नतोषिताः ॥१०५॥गवां ग्रासो न दत्तो वै न रोगी परिमोचितःन दत्ता न हुता विप्र पवित्राश्च तिला मया ॥१०६॥पृथिव्यां तिलदातारो न भवंति तु मद्विधाःव्यतीपाते न दत्तं हि किंचित्स्वर्णं महाफलम् ॥१०७॥संक्रांतावुपरागे च न दत्तं सूर्यचन्द्रयोःपर्वाण्यन्यानि सर्वाणि जग्मुः शून्यानि मे द्विज ॥१०८॥तिथयः कार्तिके मुख्या जाता वंध्याः सदा ममपितृभ्यो नैव दत्तं वा अष्टकासु मघासु च ॥१०९॥द्विजानां न कृता प्रीतिर्मन्वादिषु युगादिषुन दत्तस्तिलतैलेन प्रदीपः कार्तिके मया ॥११०॥न स्नातो माघमासेऽहं रूपसौभाग्यकामदेद्विजाय वेदविदुषे गौतम्यां सिंहगे गुरौ ॥१११॥मया संकल्पितं द्रव्यं न दत्तं पूर्वजन्मनिन स्नातोऽहं कृष्णवेण्यां तथा कन्यागते गुरौ ॥११२॥अग्निं प्रज्वाल्य काष्ठौघैः स्नातानां पौषमाघयोःशीतार्तानां च विप्राणां न कृतो जाड्यनिग्रहः ॥११३॥माधवादिषु मासेषु न दत्तं शीतलं जलम्मया नारोऽपितोऽश्वत्थो न्यग्रोधो नैव वर्धितः ॥११४॥बंदीगृहान्मया मुक्तिर्न कृता प्राणिनां क्वचित्न प्राणिभयसंत्रस्तो रक्षितः शरणागतः ॥११५॥नोपोष्यात्र त्रिरात्राणि तोषितो मधुसूदनःकृच्छ्रातिकृच्छ्रपाराकं तथा चांद्रायणं द्विज ॥११६॥अथान्यत्तप्तकृच्छ्रं च तथा सांतपनानि चव्रतान्येतानि पुण्यानि जुष्टानींद्रादिभिः सुरैः ॥११७॥चरित्वा न मया तानि देहः संशोषितः पुराइत्थं पूर्वभवो वंध्यो मम जातो द्विजोत्तम ॥११८॥पश्य द्विज महाक्रूरामद्भुतामत्र जन्मनिगतिं दूरप्रबोधां तु मम पूर्वस्य कर्मणः ॥११९॥संति मांसानि मार्गेषु वृकव्याघ्रहतानि वैफलान्यन्यानि शैलेस्मिन्शुकैस्त्यक्तानि सर्वतः ॥१२०॥पुण्यानि च सुगंधीनि फलानि रसवंति चमूलानि तु सुभक्ष्याणि मृदूनि मधुराणि च ॥१२१॥नानाविधानि तिष्ठंति मधूनि सुबहून्यपिस्रोतसां निर्झराणां च संति वारीणि सर्वशः ॥१२२॥सुलभेषु पदार्थेषु सर्वेष्वेतेषु पर्वतेनेक्षेहमशनं क्वापि दैवेनापि हतं सदा ॥१२३॥वाताहारेण जीवामि यथा जीवंति पन्नगाःपुनर्जीवामि भो विप्र देवयोनिप्रभावतः ॥१२४॥बलेन प्रज्ञया नित्यं मंत्रपौरुषविक्रमैःसहायैश्चैव मित्रैश्च नालभ्यं लभते नरः ॥१२५॥लाभालाभे सुखे दुःखे विवाहे मृत्युजीवनेभोगे रोगे वियोगे च दैवमेव हि कारणम् ॥१२६॥कुरूपाः कुकुला मूर्खाः कुत्सिताचारनिंदिताःशौर्यविक्रमहीनाश्च दैवाद्राज्यानि भुंजते ॥१२७॥काणाः खंजा अभव्याश्च नीतिहीनाश्च दुर्गुणाःनपुंसकाश्च दृश्यंते दैवाद्राज्ये प्रतिष्ठिताः ॥१२८॥यैर्दत्ताश्च तिला गावो हिरण्यं वसनानि चगौरी कन्या च यैर्दत्ता यैर्दत्ता च वसुंधरा ॥१२९॥शय्यासनानि तांबूलं मंदिराणि धनानि चभक्ष्यभोज्यानि दत्तानि चंदनान्यगरूणि च ॥१३०॥अटव्यां पर्वताग्रे च ग्रामे वा नगरेऽपि वापुरः पुरःश्च तिष्ठंति तेषां भोगाः प्रयत्नतः ॥१३१॥संत्यत्र पर्वतेऽन्येऽपि राक्षसा बलवत्तराःराक्षसाश्च पिशाचाश्च पिशाच्यश्चातिदारुणाः ॥१३२॥कदाचिच्च कथंचिच्च क्वापि यत्र स्वकर्मणालभंते चान्नपानानि पर्यटंतो वनेवने ॥१३३॥इति श्रुत्वाऽत्र तेभ्यश्च मा भयं भवतां भवेत्शुचिं गोविंदभक्तं त्वां न ते द्रष्टुमपि क्षमाः ॥१३४॥विष्णुभक्तितनुत्राणं नारायणपरायणम्न स्पृशंति न पश्यंति राक्षसाः प्रेतपूतनाः ॥१३५॥भूतवेतालगंधर्वाः शाकिन्यश्चार्यका ग्रहाःरेवत्यो वृद्धरेवत्यो मुखमंड्यस्तथा ग्रहाः ॥१३६॥यक्षा बालग्रहाः क्रूरा दुष्टा वृद्धग्रहाश्च येतथा मातृग्रहा भीमा ग्रहाश्चान्ये विनायकाः ॥१३७॥कृत्याः सर्पाश्च कूष्मांडा ये चान्ये दुष्टजंतवःन पश्यंति परं विप्र वैष्णवं ब्राह्मणं शुचिम् ॥१३८॥शुचिं रक्षंति भूतानि धर्मिष्ठं पीडयंति नरक्षंति च शुचिं नित्यं ग्रहनक्षत्रदेवताः ॥१३९॥गोविंदनाम जिह्वाग्रे हृदि वेदस्तु संस्थितःशुचिश्च दानशीलश्च त्वं सर्वत्राकुतोभयः ॥१४०॥एवं ब्राह्मण तिष्ठामि भुंजानः कर्मणः फलम्न शोचामीति मत्वाऽहं विमृश्य च पुनः पुनः ॥१४१॥न दुनोमि तथा तावद्यावज्जंबालिनी तटेसारसोदीरितं वाक्ये श्रुतं पर्यटता मया ॥१४२॥ब्राह्मण उवाचसारसोदीरितं वाक्यं कीदृशं हि श्रुतं त्वयातदहं श्रोतुमिच्छामि ब्रूहि त्वं प्रेत सत्वरम् ॥१४३॥प्रेत उवाचब्रवीमि सारसं वाक्यं शृणु कार्पाटिकोत्तमधूसरा नाम कक्षेऽस्मिन्नदीगिरिसमुद्भवा ॥१४४॥सदा जलशयोत्ताला मत्तदंतिकुलाकुलामहाककुभशोभाढ्या स्निग्धजंबूमनोहरा ॥१४५॥तस्यास्तीरमहं प्राप्तो गाहमानो वनं घनम्मयि तिष्ठति वै तत्र फलभोजनकाम्यया ॥१४६॥वनांतरात्समुड्डीय सारसो लक्ष्मणा युतःआगत्य पुलिनं नद्याः सेवितुं बहुपक्षिभिः ॥१४७॥पीत्वा तत्रैव पानीयं रमित्वा भार्यया सहसुप्तः पक्षपुटे वामे प्रवेश्य च शिरोमुखम् ॥१४८॥एतस्मिन्नंतरे दृष्टः पादपादवतीर्य चरक्ताननः सुरक्ताक्षो दंडी दृढनखावलि ॥१४९॥लोमशो दीर्घलांगूलश्चलचेष्टो हि वानरःयत्रासौ सारसः सुप्तस्तत्र वेगेन चागतः ॥१५०॥समागत्य च जग्राह सारसं चरणे दृढम्कराभ्यां क्रूरया बुद्ध्या पश्यतां बहुपक्षिणाम् ॥१५१॥उड्डीयोड्डीय ते सर्वे गताश्चान्यत्र खेचराःसारसी भीतभीता च विरावान्कुर्वती स्थिता ॥१५२॥सारसो भग्ननिद्रस्तु त्रासाच्चलितलोचनःअवलोकितवाञ्छीघ्रं तदोत्ताम्य शिरोधराम् ॥१५३॥विलोक्य वानरं दुष्टं हंतुकामं सुदारुणम्तदा संभाषयामास गिरा मधुरया खगः ॥१५४॥अपराधं विना मां त्वं किं शाखामृग बाधसेसापराधा जना लोके वध्यंते भूमिपैरपि ॥१५५॥न पीडयितुमर्हंति त्वादृशा उत्तमा जनाःअस्मानहिंसकान्साधून्परवृत्तिपराङ्मुखान् ॥१५६॥जलशैवालभक्षांश्च खेचरान्वनवासिनःस्वदाररतिशीलांश्च परदाराभिवर्जितान् ॥१५७॥न पीडयितुमर्हंति त्वद्विधा वानरोत्तमपरापवादपैशुन्यान्द्विजान्परमसेवकान् ॥१५८॥शाखामृग विमुंचाशु सर्वथा मामनागसम्जानामि तव जन्माहं न त्वं वेत्सि तु मामकम् ॥१५९॥इत्याकर्ण्य वचस्तस्य मुमोच सारसं तदाचपलो वानरः शीघ्रमाह दूरे व्यवस्थितः ॥१६०॥वानर उवाचब्रूहि रे त्वं कथं वेत्सि मम जन्म पुरातनम्त्वं पक्षी ज्ञानहीनश्च तिर्यक्चाहं वनेचरः ॥१६१॥सारस उवाचजानेऽहं तावकं जन्म जातिस्मरमिति स्फुटम्त्वं हि विंध्याधिपो राजा प्राग्भवे पर्वतेश्वरः ॥१६२॥अहं पूज्यतमो विप्रस्तव वंशे पुरोहितःतेन प्रत्यभिजानामि त्वां सम्यग्वानरोत्तम ॥१६३॥इमां पालयता भूमिं प्रजाः सर्वाः प्रपीडिताःत्वया विवेकहीनेन भृशं संचयता धनम् ॥१६४॥प्रजापीडानतापोत्थ वह्निज्वालैस्तु वानरप्राक्त्वं दग्धः पुनः क्षिप्तः कुंभीपाकेऽति दारुणे ॥१६५॥पुनः पुनःश्च दग्धेन जातेन च पुनः पुनःनारकेण शरीरेण समास्त्रिंशद्गतं त्वया ॥१६६॥कुर्वता दारुणाञ्छब्दान्रुदता च पुनः पुनःकुंभीपाकानले तीव्रा ह्यनुभूताश्च यातनाः ॥१६७॥निस्तीर्णनरको भूयः पापशेषेण सांप्रतम्प्राप्तोऽसि वानरं जन्म येन मां हंतुमिच्छसि ॥१६८॥विप्रस्योपवनात्पूर्वं पक्वरंभाफलानि वैअननुज्ञाप्य भुक्तानि त्वयापहृत्य पौरुषात् ॥१६९॥विपाकः कर्मणस्तस्य फलते पश्य दारुणःवानरस्त्वं वने वासो ह्यधुना तेन वर्तसे ॥१७०॥अशुभस्य शुभस्यापि पुराविहितकर्मणःभोगः क्रीडति भूतेषु नोल्लंघ्यस्त्रिदशैरपि ॥१७१॥इत्थं त्वज्जन्म जानामि यथावत्तु सहेतुकम्प्राप्तः सारसदेहोऽपि ज्ञानेनापरिमोहितः ॥१७२॥प्रेत उवाचइति श्रुत्वा कथां विप्र वानरोप्याह सारसम्सम्यग्वेत्ति भवान्नूनं कथं त्वं पक्षितां गतः ॥१७३॥सारस उवाचकथयिष्यामि तत्कर्म येनाहं दुर्गतिं गतःपक्षियोनिं गतो येन तत्सर्वं श्रोतुमर्हसि ॥१७४॥धान्यं खारिशतं साग्रमुत्सृष्टं हि त्वया पुराबहुभ्यो ब्राह्मणेभ्यश्च चर्मदायां रविग्रहे ॥१७५॥पौरोहित्यमदाल्लोभाद्वंचयित्वा द्विजांस्तथाकिंचिद्दत्त्वा तु तेभ्यश्च गृहीतमखिलं मया ॥१७६॥विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात्पतितः कालसूत्रेऽहं नरके रक्तकर्दमे ॥१७७॥चलत्क्रिमिसुसंपूर्णे दुर्गंधे पूयफेनिलेआनाभेस्तत्र मग्नोस्मि लिहन्पूयमधोमुखः ॥१७८॥तथोपरि महागृध्रैर्भक्ष्यमाणस्तु वायसैःक्रिमिभिस्तुद्यमानस्तु मम देहो निरंतरम् ॥१७९॥तस्मिञ्छोणितपंकेऽहं निरुच्छ्वासोऽभवं तदामुहूर्तोऽपि महाकल्पसमो जातो ममात्र वै ॥१८०॥यातनाश्चानुभूताश्च समास्त्रिरयुतं मयावक्तुं च तन्न शक्नोमि दुःखं वानर नारकम् ॥१८१॥पौरोहित्यं महाघोरं पापदं च स्वभावतःदेवोपजीवनं यत्र ब्राह्मणस्योपजीवनम् ॥१८२॥राज्ञः प्रतिग्रहो घोरस्तेन दग्धा द्विजातयःतेषामपि हरेद्द्रव्यं पुरोधास्तेन नारकी ॥१८३॥राजा यत्कुरुते पापं पुरा देहेन धीयतेतस्य तेन पुरोधाश्च गीयते तत्वदर्शिभिः ॥१८४॥दैवात्कथमपि प्राप्त उत्तारो नरकांबुधेःमयादौ दैवयोगेन शकुनित्वमुपस्थितम् ॥१८५॥अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात्आक्षिकाय मया दत्तं तेन मे सारसी गतिः ॥१८६॥इयं च ब्राह्मणी पूर्वं कांस्यचोरी सुदारुणातेनेयं सारसी जाता मम भार्या सधर्मिणी ॥१८७॥इत्थं वानर ते सर्वं कथितं कर्मणः फलम्वृत्तं च वर्तमानं च भविष्यं शृणु सांप्रतम् ॥१८८॥अहं हंसो भविष्यामि त्वं च हंसो भविष्यसिहंसीयमपि मद्भार्या सारसी च भविष्यति ॥१८९॥देशे च कामरूपे वै स्थास्यामो वै यथासुखम्योगिनीं भाविकल्याणीं यास्यामस्तदनंतरम् ॥१९०॥ततश्च मानुषं जन्म प्राप्यामो दुर्लभं पुनःश्रेयस्तद्विपरीतं च प्राणिभिर्यत्र साध्यते ॥१९१॥एवं सर्वाञ्छिवो जंतून्मोहयित्वा स्वमाययासुखैर्भुनक्ति दुःखैश्च नास्मानेव तु केवलम् ॥१९२॥अयं लोके प्रवृत्तश्च मार्गो विविधनिर्मितःधर्माधर्ममयोऽत्यर्थे सुखदुःखफलात्मकः ॥१९३॥सेवितः प्राणिभिः सर्वैः सर्वदा वा पुनः पुनःदेवासुरनरव्याघ्र क्रिमिकीटजलेचरैः ॥१९४॥नातिक्रांतो हि केनापि पंथाऽयं दुःखकंटकःविरक्तान्योगिनोध्यायं विनावेदांतपारगान् ॥१९५॥अणोर्वापि गुरोर्वापि पुण्यापुण्यस्य कर्मणःददातीह फलं ज्ञात्वा देशं कालं महेश्वरः ॥१९६॥इत्थं विधिविधानज्ञां मायां ज्ञात्वेश्वरस्य चन शोचंति न तप्यंति न व्यथंति महाधियः ॥१९७॥नान्यथा शक्यते कर्तुं विपाकः पूर्वकर्मणाम्उपायैः प्रज्ञया वापि शाखामृगसुरैरपि ॥१९८॥पुरा त्वं भूपतिर्जातः पश्चाज्जातोऽसि नारकीअधुना वानरो भूयो जन्म प्राप्स्यसि तादृशम् ॥१९९॥इति मत्वा विशोकस्त्वं शाखामृग यथासुखम्प्रतीक्षां कुरु कालस्य रममाणोऽत्र कानने ॥२००॥अहमप्येवमीशान मायाबद्धो वने वनेक्षपयिष्यामि वै जन्म धैर्यमास्थाय सारसम् ॥२०१॥वानर उवाचमया त्वं पूजितः पूर्वं नौमि त्वामधुनाप्यहम्जातिस्मरोऽसि जानामि सर्वं मत्पूर्वदैहिकम् ॥२०२॥तिष्ठ सारस सारस्या शिवमस्तु सदा तवत्वद्वाक्याद्गतमोहोऽहं विचरिष्यामि सर्वदा ॥२०३॥प्रेत उवाचइमं रम्यं विचित्रं च पावनं परमं द्विजपक्षिवानरसंवादं श्रुतं यावन्नदीतटे ॥२०४॥तावन्ममापि बोधोऽभूत्तेन शोकः क्षयं गतःइदानीं जाह्नवीतोयमाहात्म्यं परमाद्भुतम् ॥२०५॥दृष्ट्वात्र ब्राह्मणश्रेष्ठ त्वां याचे जाह्नवीजलम्प्रेतत्वात्तर्तुकामोऽहं तीव्रा तृष्णा प्रपीडितः ॥२०६॥अस्मिन्नेवाचले दृष्टं मयाश्चर्यं च वै द्विजगंगातोयस्य तावद्धि पातुमिच्छामि तज्जलम् ॥२०७॥पारियात्रोद्भवः कोऽपि ब्राह्मणो ग्रामयाजकःअयाज्ययाजनाद्विंध्ये संभूतो ब्रह्मराक्षसः ॥२०८॥अस्मत्संगस्य लोभे स्थितोऽसौ हायनाष्टकम्तस्यास्थीनि सुपुत्रेण संचितानि द्विजोत्तम ॥२०९॥क्षिप्तान्यानीय गंगायां तीर्थे कनखलेऽमलेतत्क्षणादेव मुक्तोऽसौ राक्षसत्वात्सुदारुणात् ॥२१०॥इति गंगाजलस्नान महिमा महदद्भुतम्साक्षाद्दृष्टो मया तेन गांगेयं प्रार्थितं जलम् ॥२११॥पुरस्ताद्यत्कृतस्तीर्थे मया भूरिपरिग्रहःन कृतस्तु प्रतीकारस्तस्य जाप्यादिलक्षणः ॥२१२॥तेन मे प्रेतरूपस्य दुर्लभोदकभोजनम्सहस्रं यत्र वर्षाणामतीतं विंध्यपर्वते ॥२१३॥इति ते कथितं सर्वं हित्वा लज्जां गरीयसीम्इदानीं धार्मिकश्रेष्ठ जलदानेन सत्वरम् ॥२१४॥संतर्पय मम प्राणान्कंठमात्रावलंबितान्दुर्लभं प्रेतभावेऽपि जीवितं प्राणिनामिह ॥२१५॥शरीरं रक्षणीयं हि सर्वथा सर्वदा नरैःनहीच्छंति तनुत्यागमपि कुष्ठादि रोगिणः ॥२१६॥देवद्युतिरुवाचइति तद्वचनं श्रुत्वा विस्मयं परमं गतःपथिकश्चिंतयामास कृपां प्रेते समुद्वहन् ॥२१७॥पापपुण्यफलं लोके प्रत्यक्षं दृश्यते खलुदेवदानवमानुष्यं तिर्यक्त्वं क्रिमिकीटकम् ॥२१८॥नानायोनिषु जन्मानि नानाव्याधिप्रपीडनम्मरणं बालवृद्धानामंधत्वं कुब्जता तथा ॥२१९॥ऐश्वर्यं च दरिद्रत्वं पांडित्यं मूर्खता तथाएताश्च रचना लोके भवंति कथमन्यथा ॥२२०॥ते धन्याः कर्मभूमौ ये न्यायमार्गार्जितं धनम्सत्पात्रेभ्यः प्रयच्छंति कुर्वंति चात्मनो हितम् ॥२२१॥भूमिरत्नहिरण्यानि गावो धान्यं गृहं गजाःरथाश्ववसनग्रामाः सिद्धमन्नं फलं जलम् ॥२२२॥कन्या दिव्यौषधमन्नं छत्रोपानद्वरासनम्शय्या तांबूल माल्यानि तालवृंतं वरासनम् ॥२२३॥सर्वमेतत्प्रदातव्यं लोकत्रयजिगीषुभिःदत्तं हि प्राप्यते स्वर्गे दत्तमेव हि भुज्यते ॥२२४॥छत्रचामरयानानि वराश्ववरवारणाःहर्म्याणि वरशय्याश्च गोमहिष्यो वरस्त्रियः ॥२२५॥अन्नभूषणमुक्ताश्च पुत्रा दास्यो महाकुलम्आयुरारोग्यमैश्वर्यं कला विद्यासु कौशलम् ॥२२६॥दानस्यैव फलं सर्वं प्राप्यते भुवि मानवैःतस्माद्देयं प्रयत्नेन नादत्तमुपतिष्ठति ॥२२७॥धर्मिष्ठेन तु पांथेन गाथेयं समगायतइति श्रुत्वा पुनः प्रेतः प्रोवाच ह्यार्तमानसः ॥२२८॥मन्ये धर्मज्ञकल्पोऽसि पांथ त्वं नात्र संशयःदेहि मे जीवनं वारि चातकाय घनो यथा ॥२२९॥एतस्मिन्प्राणदाने हि मा विलंबं कृथा बहुततः प्रत्याह पांथस्तु वचनं न्यायगर्भितम् ॥२३०॥भृगुक्षेत्रे शृणु प्रेत पितरौ मम तिष्ठतःतदर्थं तीर्थराजस्य मया वारि समाहृतम् ॥२३१॥तत्सितासितपानीयं मध्ये च प्रार्थितं त्वयान जाने धर्मसंदेहः किमत्र मम युज्यते ॥२३२॥बलाबलं विचारार्थं करिष्ये प्रबलं विधिम्वेदेभ्यो धर्मशास्त्रेभ्यो नाहं मानेन केवलम् ॥२३३॥हयमेधादि यज्ञेभ्यः सर्वेभ्योप्यधिकं मतम्ऋषिभिर्देवताभिश्च प्राणिनां प्राणरक्षणम् ॥२३४॥इति दत्त्वा वरं वारि कृत्त्वा प्रेतस्य रक्षणम्पित्रर्थं पुनरादाय जलं नेष्यामि पावनम् ॥२३५॥एष मे प्रबलो भाति शुद्धधर्मप्रदो विधिःपरोपकरणादन्यत्सर्वमल्पं स्मृतं बुधैः ॥२३६॥परोपकारिभिर्दत्ता अपि प्राणा नृभिर्मुदाअद्भिः परोपकारः स्यात्किं न लब्धं मया पुनः ॥२३७॥दधीचिना पुरा गीतः श्लोकोऽयं श्रूयते भुविसर्वधर्ममयः सारः सर्वधर्मज्ञसंमतः ॥२३८॥परोपकारः कर्तव्यः प्राणैरपि धनैरपिपरोपकारजं पुण्यं तुल्यं क्रतुशतैरपि ॥२३९॥इत्युक्त्वा प्रददौ तोयं गंगायामुनसंभवम्प्रेताय प्राणरक्षार्थं स धर्मिष्ठो वरो द्विजः ॥२४०॥प्रेतः प्रीतो जलं पीत्वा ह्यभिषिच्य शिरस्तथाप्रजहौ प्रेतदेहं तं दिव्यदेहोऽभवत्क्षणात् ॥२४१॥तदाश्चर्यं महद्दृष्ट्वा निजगाद स केरलःअहो विमुक्तः प्रेतत्वाद्वेणीपानीयबिंदुभिः ॥२४२॥ब्रह्मापि नैव शक्नोति मन्ये वक्तुमपां गुणम्गङ्गातोयं महादेवो धत्ते के कथमन्यथा ॥२४३॥अचिंत्यशक्तिगंगांभस्तिलमात्रं तु यः पिबेत्देवो भवेत्स सिद्धो वा गर्भे नैव च संविशेत् ॥२४४॥न गंगा सदृशी सिद्धिर्न गंगा सदृशी मतिःन गंगासदृशी मुक्तिर्गंगा सर्वाधिका यतः ॥२४५॥तस्मात्सर्वप्रयत्नेन महाभक्त्या च धार्मिककरस्थं तस्य कैवल्यं योगं गां सेवते सदा ॥२४६॥आयुष्मान्भव पांथत्वं मा धर्मविरतो भवत्वयाऽहं तारितः सद्यो गंगांबुकणदानतः ॥२४७॥इत्युक्त्वा प्रस्थितो नाकं पिशाचस्तु स केरलःआशीर्भिरभिनंद्याथ पांथं बंधुवरं नरम् ॥२४८॥प्रेतं विमोक्ष्य पांथोऽपि पुनरादाय तज्जलम्गतस्तेनैव मार्गेण स्मरंस्तीर्थोदकौतुकम् ॥२४९॥वसिष्ठ उवाचइत्थं प्रयागमाहात्म्यं श्रुत्वा नत्वा च तं मुनिम्प्रयागं सहसा माघे पिशाचः सत्वरं गतः ॥२५०॥स्नात्वा सितासिते सोऽपि माघमासे द्विजोत्तमपिशाचः क्षीणपापस्तु पैशाचीं विजहौ तनुम् ॥२५१॥दिव्यदेहस्ततो भूत्वा द्राविडो भूपतिस्तदास्तुवन्नारायणं देवं भक्त्या दोषविवर्जितः ॥२५२॥गंधर्वैः स्तूयमानस्तु नाकनारीसुपूजितःउत्तमेन विमानेन पुरंदरपुरं ययौ ॥२५३॥इति ते कथितं विप्र पूर्ववृत्तं सकौतुकम्इतिहासं द्विजश्रेष्ठ सद्यः पातकनाशनम् ॥२५४॥ज्ञानदं मोक्षदं विप्र श्रुतं दुर्गतिनाशनम्इति ते कथितं सर्वं पुरावृत्तं सकौतुकम् ॥२५५॥इतिहासं द्विजश्रेष्ठ श्रुतं दुर्गतिनाशनम्अधुना तु मया सार्धमिमाः कन्याः सुतश्च ते ॥२५६॥त्वं चायातु प्रयागं वै सर्वे सद्गतिमीप्सवःमाघस्नानं प्रकुर्मोऽत्र देवानामपि दुर्लभम् ॥२५७॥तत्र मोक्ष्यंति पैशाच्यं सद्यः पापसमुद्भवम् ॥२५८॥महेश उवाचएवं वसिष्ठवक्त्राब्जकथामधुरसंमुदापीत्वा प्रमुदिताः सर्वे निस्तीर्णा नरकार्णवात् ॥२५९॥प्रस्थितास्तेन सार्धं ते सत्वरं व्योम्नि हर्षिताःदिलीप शृणु तत्सर्वं तत्तीर्थं तु सितासितम् ॥२६०॥सत्वरं व्योममार्गेण काममासाद्य दुःसहाःसमागम्य तदा तत्र संहृष्टहृदयाश्च ते ॥२६१॥अथोचे लोमशस्तत्र सदयं गगनांगणेपश्यंतु श्रद्धया सर्वे तीर्थराजमिमं भुवि ॥२६२॥विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवःइष्ट्वात्रैव महायज्ञं स्रष्टुकामः प्रजापतिः ॥२६३॥अवाप सृष्टिसामर्थ्यं ततः सृष्टिं चकार सःअत्र नारायणः सस्नौ पत्नीकामः सितासिते ॥२६४॥अतः स लब्धवान्लक्ष्मीं भार्याममृतमंथनेउषित्वा चात्र षण्मासं स्नात्वा वेण्यां यथेच्छया ॥२६५॥त्रिपुरं घातयामास त्रिबाणेन त्रिशूलभृत्इमानि त्रीणि कुंडानि दीप्तान्यजस्रवह्निभिः ॥२६६॥एष तृप्तिं गतो वह्निर्यः केनापि च पुष्यतिअत्र देवास्त्रयस्त्रिंशत्तृप्ता मुमुदिरे भृशम् ॥२६७॥आविर्भूतो महेशोऽत्र नीलकंठः कपालभृत्अनिशंस सुरैः सेव्य आयातोंजलये बटुः ॥२६८॥मृकंडसूनुना कल्पे प्रविश्य यन्मुखे स्थितम्लोके ज्वालाकुले सोऽयं योगरूपी जनार्दनः ॥२६९॥सेयं भागीरथी शंभोः सर्वदुःखापहारिणीसिद्ध्यर्थं सेव्यते सिद्धैर्भुक्तिमुक्तिफलप्रदा ॥२७०॥अनिशं भूतिदा या च स्वर्गमार्गे ह्यनुत्तमास्वर्गहेतुश्च या देवी सेयं भागीरथी नदी ॥२७१॥यदंभः स्नानमात्रेण विकर्तन सलोकताम्लभंते प्राणिनः सर्वे नदी सा यमुना स्वयम् ॥२७२॥अनयोः पुण्यनद्योश्च संगमः सुखदो मुनेअत्र स्नाता न पच्यंते नरके ज्ञानभाविताः ॥२७३॥विना ज्ञानं प्रयागेऽस्मिन्मुच्यंते सर्वजंतवःअन्यच्च श्रूयतां विप्र इतिहासं पुरातनम् ॥२७४॥शृण्वतां सर्वपापघ्नं सर्वरोगविनाशनम्ऋचीकेन पुरा शप्तो गंधर्वो वायसोऽभवत् ॥२७५॥शापं मुमोच सोऽत्रैव स्नातः सद्यः सितासितेवासवस्य तु शापेन स्वर्गाद्भ्रष्टाप्सरोर्वशी ॥२७६॥स्वर्गकामा च सा सस्नौ लेभे स्वर्गं ततोचिरात्पुत्रं च शंकरं लेभे ययातिर्नाहुषो मुने ॥२७७॥पुत्रकामः प्रयागे हि स्नात्वा पुण्ये सितासितेधनकामः पुरा शक्रः सुस्नातोऽत्र द्विजोत्तम ॥२७८॥धनदस्य निधीन्सर्वाञ्जहार स च माययाकश्यपोऽत्र तपस्तेपे शिवाराधनतत्परः ॥२७९॥अस्मिंस्तीर्थे भरद्वाजो योगसिद्धिमवाप्तवान्अस्मिंस्तीर्थे पुरा विप्र योगेशाः शांतमानसाः ॥२८०॥योगस्य फलभूमिं तु लेभिरे सनकादयःअस्मिन्माघे तु ये स्नाता गंगायामुनसंगमे ॥२८१॥तारारूपाश्च ते सर्वे तैर्व्याप्तं सकलं जगत्विंदंति कामिनः कामान्मुक्तिं यांति मुमुक्षवः ॥२८२॥विंदंति साधकाः सिद्धिं प्रयागे हि द्विजोत्तमसांप्रतं मुक्तिकामास्तु कन्याश्चापि सुतश्च ते ॥२८३॥मद्वाक्यादत्र मज्जंतु सर्वे त्वं च सितासितेप्राक्कालीनाघविध्वंसि वेणीजलबलेन तु ॥२८४॥लभंतामखिलं लक्ष्मीं प्राप्तशापमहाफलाम्एवमार्षवचः सत्यमतींद्रियमलंघनम् ॥२८५॥श्रुत्वा चोत्कंठचित्तास्तेसर्वे स्नानाय चोद्यताःप्रयागं प्राप्य दुष्प्राप्यं पैशाच्यं विजहुः क्षणात् ॥२८६॥विमुक्ताः शापदुःखेन तनुं स्वां स्वां च लेभिरेदृष्ट्वा वेदनिधिः पुत्रं ताः कन्या दिव्यरूपिणीः ॥२८७॥तुष्टाव लोमशं प्रीत्या प्रसन्नेनांतरात्मनात्वदनुग्रहमात्रेणोत्तीर्णः पापमहार्णवः ॥२८८॥इदानीमुचितं ब्रूहि बालानामृषिसत्तमलोमश उवाचकुमारोधीतवेदोऽयं समाप्तनियमो युवा ॥२८९॥आसां तु सानुरागाणां गृह्णातु करपंकजम्ततो लोमशवाक्येन स्वपितुर्वचनात्तदा ॥२९०॥विवाहविधिना चाशु ब्रह्मचारी स धार्मिकःशुभद्रव्यैश्च मंत्रैश्च ऋषिभिः कृतमंगलः ॥२९१॥पंचानामपि कन्यानां पाणिं जग्राह धर्मतःआनंदिन्यस्तदा सर्वाः कन्याः पूर्णमनोरथाः ॥२९२॥बभूवुः स कुमारश्च संतुष्टश्च बभूव हदत्त्वानुज्ञां मुनिः सोऽथ लोमशस्तैर्नमस्कृतः ॥२९३॥जगाम स्वाश्रमं मेरुं पर्वतं सुरसेवितम्ततो वेदनिधी राजन्स्नुषाः पंचसुतं तथापुरस्कृत्य मुदायुक्तो धनदस्य पुरं ययौ ॥२९४॥इति नृपवरमाघे स्नानसंजातपुण्यान्मुनिवरवचसा द्राक्तीर्थराजप्रयागेसकलकलुषमुक्ताः पंच गंधर्वकन्या अलमभिगतलाभात्प्राप्य तर्षं च जग्मुः ॥२९५॥परमिममितिहासं पावनं तीर्थभूतं वृजिनविलयहेतुं यः शृणोतीह नित्यम्स भवति खलु पूर्णः सर्वकामैरभीष्टैर्व्रजति च सुरलोके दुर्लभो धर्मयुक्तः ॥२९६॥इतिहासमिमं श्रुत्वा पूजयेद्यस्तु पाठकम्गोभिर्हिरण्यवस्त्रैश्च ब्रह्मतुल्यो यतो हि सः ॥२९७॥वाचके पूजिते यस्माद्विष्णुर्भवति पूजितःतस्मात्प्रपूजयेन्नित्यं यदीच्छेत्सफलं भवम् ॥२९८॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे गंधर्वकन्यापरिणयोनामैकोनत्रिंशाधिकशततमोऽध्यायः ॥१२९॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP