संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १९५

उत्तरखण्डः - अध्यायः १९५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
अथ देवऋषिस्तत्र कुमाराननुमान्य च
उवाच प्रणतो वाक्यं ज्ञानयज्ञ कृतादरः ॥१॥
नारद उवाच-
ज्ञानयज्ञं करिष्यामि शुकशास्त्र कथोज्वलम्
भक्ति ज्ञान विरागाणां स्थापनार्थे प्रयत्नतः ॥२॥
यत्र कार्यो मया यज्ञः स्थानं तत्कथ्यतां द्विजाः
चत्वारो यज्ञवाहाश्च यूयमेव वृता मया ॥३॥
कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा
को विधिस्तत्र कर्तव्यो ज्ञानयज्ञविशारदाः ॥४॥
कुमारा ऊचुः
शृणु नारद वक्ष्यामस्तुभ्यं यत्र कथा नृणाम्
शृण्वतां पापराशिघ्नो भवेत्पुण्यविबर्द्विनी ॥५॥
गंगाद्वार समीपे तु कामदाख्यं पुरं महत् ॥६॥
स्वर्णद्याश्चोत्तरे पुण्ये तटमानंदनामकम्
नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवितम् ॥७॥
नाना तरुलताकीर्णं स्वच्छकोमल वालुकम्
रम्यमेकांतदेशस्थं स्वर्णपंकज शोभितम् ॥८॥
यत्समीपस्थजीवानां क्षेत्रस्यैव प्रभावतः
मिथः संस्निग्धचित्तानां वैरं चेतसि न स्थितम् ॥९॥
ज्ञानयज्ञस्त्वया तत्र कर्त्तव्यो हि प्रयत्नतः
अपूर्व रसदात्री च कथा तत्र भविष्यति ॥१०॥
वृंदावनप्रतोलिस्थं जराजीर्ण कलेवरम्
सुतद्वयं पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥११॥
यत्र भागवती वार्ता भक्तिस्तत्र सहात्मजा
कृष्णकीर्तिसुधां पीत्वा तरुणी वा भविष्यति ॥१२॥
सूत उवाच-
एवमुक्त्वा कुमारास्ते नारदेन समंततः
गंगाद्वारे समाजग्मुर्ज्ञानयज्ञाय सत्वराः ॥१३॥
यदा प्राप्तास्तटं ते तु गंगाया भार्गवर्षभ
तदा कोलाहलश्चासीद्भूर्लोकादिक सप्तसु ॥१४॥
श्रीमद्भागवतास्वादलंपटा साप्तलौकिकाः
धावं धावं समाजग्मुः प्राचीना वैष्णवाश्च ये ॥१५॥
भृगुर्वसिष्ठश्च्यवनश्च गौतमो मेधातिथिर्देबलदेवरातौ
रामस्तथागाधिज शाकलौ च मृकंडपुत्रात्रिज पिप्पलादाः ॥१६॥
योगेश्वरौ व्यासपराशरौ च शुकादयो भागवतप्रधानाः
शिष्यैरुपेता बहुशास्त्रविज्ञाः कृष्णामृतास्वाद कृतौ प्रधानाः ॥१७॥
वेदांतानि च वेदाश्च मंत्रास्तंत्राणि संहिताः
दशसप्तपुराणानि षट्शास्त्राणि तथाययुः ॥१८॥
गंगाद्याः सरितस्तत्र पुष्करादि सरांसि च
क्षेत्राणि च दिशः सर्वा दंडकादि वनानि च ॥१९॥
हिमादयो नगास्तत्र देवगंधर्वकिन्नराः
द्वीपाः समुद्रा दिक्पालाः पातालस्थास्तथाययुः ॥२०॥
दीक्षायां नारदेनाथ दत्तमासनमुत्तमम्
कुमारा वंदिता सर्वे निषेदुः कृष्णतत्पराः ॥२१॥
वैष्णवाः सुविरक्ताश्च न्यासिनो ब्रह्मचारिणः
मुख्या ह्यग्रेस्थिता स्तेषां पुरतो नारदः स्थितः ॥२२॥
वामभागेमुनिगणादक्षिणेचदिवौकसः
वेदोपनिषदोऽन्यत्रतीर्थानिचभृगूद्वह ॥२३॥
जयशब्दोनमः शब्दःशंखशब्दस्तथैवच
बभूवाकाशसंस्पर्शीघोषयन्विदिशोदश ॥२४॥
विमानानिसमारुह्यप्रहृष्टानाकवासिनः
कल्पवृक्षप्रसूनैश्चतांसभांसमवाकिरन् ॥२५॥
सूतउवाच-
एवंतेषुनिविष्टेषुभृग्वादिषुयथार्हतः
श्रीभागवतमाहात्म्यमूचिरेनारदायते ॥२६॥
कुमारा ऊचुः
शृणु नारद वक्ष्यामो महिमानं महाद्भुतम्
श्रीमद्भागवताख्यस्य शास्त्रस्य विधिपूर्वकम् ॥२७॥
सदा नरैः सुकृतिभिः सेव्या भागवती कथा
यस्याः श्रवणमात्रेण कृतार्थत्वं प्रयांति ते ॥२८॥
ग्रंथो ऽष्टादशसाहस्रो द्वादशस्कंध संयुतः
परीक्षिच्छुकसंवादः श्रीमद्भागवताभिधः ॥२९॥
तावत्संसारचक्रेस्मिन्भ्रमत्यज्ञानमोहितः
यावत्कर्णगतंनोस्याच्छुकशास्त्रं जनस्य च ॥३०॥
किं श्रुतैर्बहुभिः शास्त्रैः पुराणैः संहितागमैः
यदि भागवतं पुंभिर्न श्रुतं भक्तिभावनैः ॥३१॥
कथा भागवतस्यापि नित्यं भवति यद्गृहे
तद्गृहं तीर्थरूपं हि नृणां पापविनाशनम् ॥३२॥
अश्वमेधसहस्राणि राजसूयशतानि च
भागवत्याः कथायाश्च कलां नार्हंति षोडशीम् ॥३३॥
तावत्पापानि तिष्ठंति देहेऽस्मिन्मुनिपुंगव
यावन्न श्रूयते सम्यक्श्रीमद्भागवतं नरैः ॥३४॥
न गंगा न गया काशी प्रतिष्ठानं न पुष्करः
कथाया भागवत्याश्च समा पुण्यफलेन च ॥३५॥
श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम्
पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम् ॥३६॥
वेदादिर्वेदमाता च पौरुषंसूक्तमेव च
त्रयी भागवतं चैव द्वादशाष्टाक्षरौ मनू ॥३७॥
द्वादशात्मा प्रयागश्च कालः संवत्सरात्मकः
ब्राह्मणश्चाग्निहोत्रं च सुरभिर्द्वादशी तिथिः ॥३८॥
तुलसी च वसंतर्तुः पुरुषोत्तम एव च
एतेषां वस्तुतो नास्ति पृथग्भावो मुनीश्वर ॥३९॥
यश्च भागवतं शास्त्रं व्याकुर्यादन्वहं द्विज
जन्मकोटिकृतं पापं तस्य नश्यति नारद ॥४०॥
श्रुतं च पठितं ध्यातं श्रीमद्भागवतं नृभिः
ददाति मुक्तिं भक्तिं वा तुलस्यग्न्योश्च सेवनम् ॥४१॥
अंतकाले तु संप्राप्ते भयं त्यक्त्वा सुदूरतः
श्रीमद्भागवतं भक्त्या शृणुयाद्यः स मुक्तिभाक् ॥४२॥
प्रौष्ठपद्यां च राकायां हेमसिंह समन्वितम्
अलंकृत्य द्विजाग्र्याय श्रीमद्भागवतं ददेत् ॥४३॥
भक्तियुक्तो विमानश्च मिताशी च जितेंद्रियः
श्रुत्वादितः स कृष्णस्य सायुज्यं लोकमाप्नुयात् ॥४४॥
आजन्ममात्रमपि येन शठेन चित्तं सम्यङ्नियम्य भुवि कृष्णकथा न पीता
चांडालवच्च पशुवद्बत तेन नीतं मिथ्या स्वजन्म जननी भृशमर्दिता च ॥४५॥
यैर्न श्रुतं भागवतं पुराणमाराधितो नो पुरुषः पुराणः
मुखे हुतं नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ॥४६॥
चित्तं न यस्य तु नरस्य हरेः कथायां संप्रीयते दुरितदुष्टमसत्प्रसंगात्
धिक्तं नरं पशुसमं भुविभारभूतमेवं वदंति मुनयः किल पूर्वसिद्धाः ॥४७॥
दुर्ल्लभैव कथा लोके श्रीमद्भागवतोद्भवा
कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥४८॥
तेन योगनिधे साधो श्रोतव्या सात्वती कथा
प्रत्यहं नियमो नास्ति दिनानां वस्तुतो द्विज ॥४९॥
सत्येन ब्रह्मचर्येण यतोऽस्य श्रवणं मतम्
ततः कलौ विशेषो हि विधिः सप्तदिनात्मकः ॥५०॥
मनसश्चाजयाद्रोगात्पुंसां चैवायुषः क्षयात्
कलेर्दोषबहुत्वाच्च सप्ताहश्रवणंमतम् ॥५१॥
मनसो निग्रहश्चैव नियमाचरणं तथा
कर्तुं सप्तदिनं शक्यं ततो नियमकल्पना ॥५२॥
श्रद्धया श्रवणे नित्यमाद्यंतावधि यत्फलम्
तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥५३॥
यत्फलं नास्ति तपसा न योगेन समाधिना
अनायासेन तत्सर्वं सप्ताह श्रवणाल्लभेत् ॥५४॥
यज्ञाद्व्रताच्च तपसो ध्यानाज्ज्ञानाच्च तीर्थतः
श्रीभागवतसप्ताह नियमो ह्युत्तमो मतः ॥५५॥
यदा कृष्णो भुवं त्यक्त्वा स्वपदं गंतुमुद्यतः
तदाज्ञायोद्धवो धीमान्गोविंदं वाक्यमब्रवीत् ॥५६॥
उद्धव उवाच-
भगवन्भवता सर्वं देवकार्यं प्रसाधितम्
अधुना गंतुमिच्छुस्त्वं स्वंपदं तमसः परम् ॥५७॥
अतश्चिंता ममोत्पन्ना त्वद्वियोग भिया विभो
तामपाकुरु देवेश त्वामहं शरणं गतः ॥५८॥
आगतोऽयं कलिर्घोरोऽत्र सर्वेऽपि जनाः खलाः
भविष्यंति ततो नाथ किं विधेयं तदादिश ॥५९॥
इयं भारवती भूमिः शरणं किं प्रयास्यति
त्वदन्यो दृश्यते नात्र त्राता स्याद् यदुनंदन ॥६०॥
अतोऽस्मासु दयां कृत्वा तिष्ठात्रैव दयानिधे
साधूनां रक्षणायैव त्वमाविरभवः प्रभो ॥६१॥
निर्गुणोऽपि निराकारः सच्चिदानंदविग्रहः
त्वद्वियोगेन ते भक्ताः कथं स्थास्यंति भूतले ॥६२॥
निर्गुणोपासने कष्टमतोऽस्मद्धितमाचर
सूत उवाच-
इत्युद्धववचः श्रुत्वा चिंतयित्वा क्षणं हरिः ॥६३॥
ददौ भागवतं तस्मै कृपया परया युतः
निजं तेजः समाधाय श्रीमद्भागवते द्विज ॥६४॥
दत्वोद्धवाय भगवान्स्वकीयं पदमाविशत्
तेनेयं वाङ्मयी मूर्तिर्वर्त्तते श्रीहरेरिह ॥६५॥
सेवनात्सततं चास्याः पापं नश्येन्नृणां क्षणात्
सप्ताहश्रवणं तेन कथितं सर्वतोऽधिकम् ॥६६॥
श्रोता वक्ता पृच्छकश्च यांति तन्मयतां द्विज
दुःखदारिद्र्य दौर्भाग्य पाप प्रक्षालनाय च ॥६७॥
कामक्रोध जयार्थं च कलौ भागवतं क्षमम्
अन्यथा वैष्णवी माया देवानामपि दुर्जया
कथं निवर्तते पुंसां श्रीमद्भागवतं विना ॥६८॥
सूत उवाच-
इत्येवमुक्त्वा माहात्म्यं श्रीमद्भागवतस्य ते
कथां भागवतीं दिव्यां प्रवक्तुमुपचक्रमुः ॥६९॥
वेदोपनिषदां सारे श्रीमद्भागवते द्विजैः
आरभ्यमाणे तत्रैव भक्तिराविरभूत्क्षणात् ॥७०॥
प्रेमान्विता चारुतनुर्मुदान्वितौ सुतौ गृहीत्वा तरुणौ स्वदोर्भ्याम्
श्रीकृष्ण गोविंद हरे मुरारे नाथेति नामानि मुहुर्वदंती ॥७१॥
तामागतां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः
व्यतर्कयंश्चापि कथं कुतासौ कास्तीति सर्वेऽपि सुविस्मिताक्षाः ॥७२॥
ततः कुमारा जगदुः कृतार्था कथार्थतो निष्पतिताधुनेयम्
एवं गिरः सा ससुता निशम्य जगाद नम्राब्जभुवः कुमारात् ॥७३॥
भक्तिरुवाच-
भवद्भिरद्यैव कृतास्मि पुष्टा कलौ प्रणष्टापि कथारसेन
तिष्ठामि कुत्राहमभीष्टमाभ्यां सहास्पदं मह्यमुपादशध्वम् ॥७४॥
सूत उवाच-
तद्वाक्यमाकर्ण्य विधेः कुमारा विचार्य सम्यक्प्रणिधाय चित्ते
उचुश्च भक्तिं भवरोगहर्त्रीं प्रेमैकदात्रीं हरिभक्तिभाजाम् ॥७५॥
कुमारा ऊचुः
भक्तेषु गोविंद परायणेषु साधुष्वथो दीनदया परेषु
मनो नियम्योत्पथसंप्रवृत्तं कृत्वैकतानं हरिपादपद्मे ॥७६॥
ततो हि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोपि लोके
कलौ त्वमेकैव जगद्धिताय भविष्यसे नारद संप्रणीता ॥७७॥
सकलभुवनमध्ये निर्धनाश्चातिधन्या निवसति हृदि येषां श्रीहरेर्भक्तिरेका
हरिरपि निजलोकं सत्वरं संविहाय प्रविशति हृदि येषां प्रेमसूत्रापिनद्धः ॥७८॥

इति श्रीपाद्मे महापुराणे पचंपंचाशत्साहस्र्यां संहितायामुत्तरखंडे श्रीभागवतमाहात्म्ये पंचनवत्यधिकशततमोऽध्यायः ॥१९५॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP