संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २१६ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २१६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २१६ Translation - भाषांतर नारद उवाच-अतो मधुवनाद्राजन्नयं बदरिकाश्रमःएकादशधनुर्मात्रे भूभागे व्यवतिष्ठति ॥१॥अस्य तीर्थवरस्याहं महिमानं महद्भुतम्वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् ॥२॥एकस्तु मगधे राजन्देवदासो हि नामतःब्राह्मणः सत्यवान्दांतः साक्षाद्धर्म इवापरः ॥३॥निष्णातः सर्वविद्यासु बृहस्पतिरिवापरःहरिसंतोषको भक्त्या प्रह्लाद इव दैत्यराट् ॥४॥सस्त्रीकोऽपि स्मरं जेता पार्वत्याइव वल्लभःसदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ॥५॥मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनिदानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा ॥६॥तस्यभार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमापतिशुश्रूषणपरा यथाजनकनंदिनी ॥७॥तस्यैकश्च सुतो राजन्नंगदो नाम बुद्धिमान्एका पुत्री तु वलया नाम सल्लक्षमणान्विता ॥८॥तयोर्ज्यायान्सुतः कन्या तस्माद्भूपकनीयसीतयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ॥९॥विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनिशुभलक्षणसंपन्ना कालेन कियता नृप ॥१०॥अंगदस्तु महाबुद्धिर्गृहभारं बभार हपितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ॥११॥एकदा स तु विप्रेंद्रः पुत्रं तं गृहकर्मणिक्षमं विज्ञाय राजेंद्र निजभार्यामुवाच ह ॥१२॥देवदास उवाचसमाकर्णय मे साध्वि कालेऽस्मिन्नुचितं वचःततो यदुचितं भद्रे तदह्नाय विधीयताम् ॥१३॥एषा जरा समायाता शरीरं पातयिष्यतिअंगान्याकंपयंतीव वात्या पक्वफलं यथा ॥१४॥अक्ष्णामपि द्युतिं मंदां नूनमेषा करिष्यतिनक्षत्राणां सचंद्राणां प्रातर्वेलेव सुव्रते ॥१५॥स्खलितो पादयोर्मंदां गतिं प्रतिपदक्रमम्करिष्यति जरा ह्येषा यथानिगडशृंखला ॥१६॥तस्मादेषा जरा यावन्न प्रौढा जायते शुभेआत्मनस्तावदावाभ्यां करणीयं हि तं द्रुतम् ॥१७गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराःद्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः ॥१८॥अतोऽहं सर्वतीर्थेषु पयर्यटन्विजितेंद्रियःवानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् ॥१९॥ततः संन्यासमादाय क्वचित्तीर्थोत्तमे शुभेप्रारब्धकर्मणामंते त्यक्ष्यामि स्वं कलेवरम् ॥२०॥एवं चेत्प्राणमुक्तः स्यान्मुक्तिः स्यान्नात्र संशयःमम श्रीपतिपादाब्जसम्यक्स्थापितचेतसः ॥२१॥उत्तमोवाच-पुमान्वा स्त्रीजनो वापि को रमेत विनश्वरेसंसारे माधवं मुक्त्वा नित्याश्रममचेतनः ॥२२॥तस्मान्मामपि जीवेश त्वत्पादांबुजसेविनीम्नीत्वा स्वसंगमे तावद्विश्वाब्धेराशु तारय ॥२३॥पुत्रोऽयमंगदः श्रीमान्गृहभारस्य धारणेसमर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी ॥२४॥पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवान विरज्येत यो मूढो वंचितः श्रेयसा हि सः ॥२५॥नारद उवाच-एवमन्योन्यमामंत्र्य दंपती तौ रहस्तदापुत्रमाहूय कथयांचक्रतुस्त्विदमंगदम् ॥२६॥दंपत्यूचतुः-जरागमश्लथद्गात्रावावां विद्धि त्वमंगदस्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले ॥२७॥हरेराराधनं भक्त्या श्रेयः परममुच्यतेतदर्थमेव निष्कामा यतंते साधवो भुवि ॥२८॥विषयेषु न संसक्तिः समत्वं सर्वजंतुषुयेषां हर्षविवादौ च न जातु सुखदुःखयो ॥२९॥त एव साधवो लोके गोविंदपदसेविनःतेषां दर्शनमात्रेण कृतार्थो जायते नरः ॥३०॥तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकःभाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् ॥३१॥तस्माद्भारं कुटुंबस्य भुजयोर्युगदीर्घयोःआरोप्य नौ विसर्जस्व तीर्थयात्रार्थमंगद ॥३२॥तीर्थयात्राप्रसंगेन कदाचित्साधुदर्शनम्भवेद्यदि तदा पुत्र द्वयोर्नौ स्यात्कृतार्थता ॥३३॥नारद उवाच-इत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत्नारद उवाच-समस्तकुलनिस्तारो भवद्भ्यामयमीरितः ॥३४॥आशु मामवजानीतं किं करोमि भवद्धितम्अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः ॥३५॥पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमम्नयतं मामपि प्रेष्यं सेवायै निजसंगमम् ॥३६॥नारद उवाच-इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोःसंगे गृहमगात्ताभ्यां कथंचित्संनिवर्तितः ॥३७॥तौ गृहीत्वा धनं किचिद्विष्णुर्नौ संयतामितिकंदमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ॥३८॥यदा तस्मात्प्रचलितौ दंपती जगतीपतेतदा मार्गे महान्कश्चित्सिद्धः संमीलितस्तयोः ॥३९॥ताभ्यामुभाभ्यां शिरसा वंदितः स उपाविशत्उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् ॥४०॥को भवान्कुत आयातो किं चिकीर्षति तद्वदसिद्ध उवाच-सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम ॥४१॥इंद्रप्रस्थात्समायातो दृष्टं तत्र महाद्भुतम्तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः ॥४२॥तस्मादहं पठन्सांख्यं निवसामि तदाश्रमेएकदा मद्गुरुः श्रीमान्स्वाश्रमात्कपिलो ययौ ॥४३॥बदर्याख्यं महापुण्यं स्नातुं स यमुनाजलेतत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले ॥४४॥प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरत्स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसंभवः ॥४५॥जलान्निसृत्य तरसा ववंदे कपिलं गुरुम्उवाच नरवाचा च मयि शृण्वति तापसःयत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ॥४६॥महिष उवाच-भोभो विष्णुकलाभूत सिद्धानां कपिलेश्वरकिं नामेदं महातीर्थं नताय कथयस्व मे ॥४७॥अस्य तीर्थवरस्यांबुस्पर्शाद्वै पूर्वजन्मनिजाता मम महाभाग पापस्यापि च कर्मणः ॥४८॥सिद्ध उवाच-एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिःजानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ॥४९॥कपिल उवाच-भवान्महिषशार्दूल क आसीत्पूर्वजन्मनितत्र किं कृतवान्कर्म योनिं येनाप माहिषीम् ॥५०॥महिष उवाच-शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनःअहमासं पुरा राजा कलिंगाधिपतिर्बली ॥५१॥स्वां परां नैव जानामि योषितं काममोहितःवणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ॥५२॥निशीथे नगरे राजन् गतभीः पर्यटाम्यहम्सुंदरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया ॥५३॥यद्गृहे सुंदरीं नारीं पश्यामि स्मरमोहितःवसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा ॥५४॥क्रीडित्वा तत्र निःशंकं धनं हृत्वा च तद्गृहात्स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ॥५५॥उपविष्टः सभामध्ये दिवा द्वौ पुरबालकौअनार्यबाहुयुद्धेन योधयामि निजाग्रतः ॥५६॥नियोधयति यो बालस्तं मत्वा धनिनं बलात्गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ॥५७॥यः पराजयते तत्र कातरत्वान्महामुनेनायमर्हः पुरे स्थातुं ममेति विनिहन्मि तम् ॥५८॥एवमप्यद्यमारेभे वर्त्तमाने महीपतौपौरा नगरमुत्सृज्य प्रययुर्विषयांतरम् ॥५९॥एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीम्पुरे मम समायातो दुर्वासा रुद्रसंभवः ॥६०॥मिलित्वा नागराः सर्वे तदाजग्मुस्तदंतिकेप्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ॥६१॥पौरा ऊचुःआत्रेय मुनिशार्दूल कृपां कुरु कृपानिधेअधर्मनिरतं भूपमेनं धर्मेण योजय ॥६२॥भाग्योदयेन केनापि भवानस्माकमागतःउद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ॥६३॥धनं लोभयतातेन हृतं नो मुनिपुंगवदूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसा ॥६४॥दशवत्सरदेशीया बहवः शिशवो हताःअगण्य वैगुण्यनिधिरेष भूपो महामुने ॥६५॥महिष उवाच-एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजःदंड्योयमिति संचित्य सभास्थं मामथा ययौ ॥६६॥दृष्ट्वा हि तं समायांतमवधूतं दिगंबरम्आवारयमहं भृत्यैर्नेत्ययं दर्शनोचितः ॥६७॥रेणुना सर्वलिप्तांगो महिषाकृतिरेव वैवार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ॥६८॥ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुःहुंकारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ॥६९॥यज्ञाश्वं रक्षतः स्वस्य पितुस्त्वमिव सागरात्सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ॥७०॥आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतःरेरे पापेति संबोध्य ततो मां मुनिसत्तमः ॥७१॥शशापेति महारण्ये महिषो भव सांप्रतम्तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ॥७२॥मरुदेशे महारण्ये जातोऽहं महिषो मुनेचिरकालमहं तत्र न्यवसं मुनिपुंगवः ॥७३॥अत्रागतस्तु केनाहं पुण्येन तदपि शृणुवापीकूपसरस्यस्तु बहबः कारिता मया ॥७४॥सहकारादिवृक्षाणामारोपो विहितः पथिपुण्येनानेन मे देव पातो न नरकेऽभवत् ॥७५॥तीर्थस्य च मया प्राप्तो ह्यमुष्यजलसंगमःएतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभम् ॥७६॥येन तीर्थं मया प्राप्तमेतद्योनिश्च माहिषीअस्यतीर्थवरस्यांबुस्पर्शाज्जातिस्मरोभवम्कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ॥७७॥कपिल उवाच-एतत्तीर्थं महापुण्यं बदर्याख्यं रमापतेःअत्र स्नाहि द्रुतं कामं स्वचित्तस्थं हि लप्स्यसे ॥७८॥सिद्ध उवाच-एतच्छ्रुत्वा वचस्तस्य महिषस्य महामुनेतत्र तीर्थे वरे स्नातुं प्राविशत्स्वर्गवांछया ॥७९॥स्नात्वा स्वर्गेच्छया तस्मिन्जलात्तटमुपागतेतत्क्षणं गजमारूह्य शक्रः स्वर्गात्समाययौ ॥८०॥इंद्र उवाच-हे कलिंगपते नैजं देहं जहि हि माहिषम्प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम्त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ॥८१॥सिद्ध उवाच-इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषम्दिव्यं वपुः समासाद्य गजराजं समारुहत् ॥८२॥गजराजं समारुह्य स्थित्वा च गगने क्षणम्प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ॥८३॥कलिङ्ग उवाचनमस्ते परमेशान केवलज्ञानहेतवेसेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ॥८४॥त्वत्तः प्रवृत्तिः सांख्यस्य जाता तत्वावबोधिनीदेहिनां मायया ग्रस्त चेतसामपि ते विभो ॥८५॥ये वेदविहितं त्यक्त्वा वर्तंते स्वेच्छया मुनेतान्दंडयसि दंड्यांस्त्वं मज्जयंस्तिर्यगादिषु ॥८६॥इंद्रादयो लोकपालाः सर्वे त्वदधिकारिणःत्वदिच्छामनुवर्तंते भीता दंडकृतो हि ते ॥८७॥त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगेअवतीर्य विनाशाय कृता सर्वात्मना त्वया ॥८८॥ये ये त्वया हता नाथ चक्रिणा त्रिदशारयःते ते तमोमयीं हित्वा तनुं वैकुंठमभ्यगुः ॥८९॥आज्ञापय जगन्नाथ गंतु मां त्रिदशालयम्अनुगृह्णीष्व शक्रं च नमंतं वीक्षणामृतैः ॥९०॥प्रसादात्तव देवेश बदर्याख्यस्य च प्रभोतीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः ॥९१॥इंद्रेण सह नागेंद्रमारुह्य त्रिदशालयम्गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः ॥९२॥सिद्ध उवाच-इत्यभिष्टूय देवेशं कपिलं स कलिंगपःनमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ॥९३॥एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमेगुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ॥९४॥नातः परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकम्याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ॥९५॥अहं यामि समानेतुं बदर्याख्यं गृहान्द्विजवृद्धं स्वकीय पितरं निस्पृहं मोक्षकामुकम् ॥९६॥नारद उवाच-इति तीर्थवरस्यास्य बदर्याख्यस्य भूपतेमहिमानं समुत्कीर्त्य स सिद्धः स्वगृहं ययौ ॥९७॥अथ कालेन कियता स द्विजः सह भार्ययातीर्थानपर्यटन्धीरः इंद्रप्रस्थेभ्यगादहम् ॥९८॥तेनैव वपुषा राजन्नीतवांस्तौ निजालयम्ससिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ॥९९॥तत्रैव स्नापयामास तत्तीर्थे मोक्षकामुकम्सोऽपि श्रीवासुदेवेन वृद्धः सिद्धपिता तदा ॥१००॥ततो नीतो निजगृहं वृंदारकविवंदितःइंद्रप्रस्थांतरगतमिदं सद्बदर्याख्यमीशः स्नानाद्दद्यादखिलजनिता मानसेष्टं पदार्थम्माहात्म्यं ते नृपनतिमते वर्णितं तस्य पूतं यच्छ्रुत्वा वै पतति न जनो मातृगर्भे कदाचित् ॥१०१॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये बदरिकाश्रमवर्णनंनाम षोडशाधिकद्विशततमोऽध्यायः ॥२१६॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP