उत्तरखण्डः - अध्यायः ७६
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
महादेव उवाच-
शृणु सुंदरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः
यच्छ्रुत्वा मुच्यते पापी ब्रह्महा नात्र संशयः ॥१॥
धाता वै नारदं प्राह तदहं तु ब्रवीमि ते
तमुवाच ततो देवः स्वयंभूरमितद्युतिः ॥२॥
प्रगृह्य रुचिरं बाहुं स्मारयेच्चौर्ध्वदेहिकम्
भगवान्नारायणः श्रीमान्देवश्चक्रायुधोहरिः ॥३॥
शार्ङ्गधारी हृषीकेशः पुराणपुरुषोत्तमः
अजितः खड्गभृज्जिष्णुः कृष्णश्चैव सनातनः ॥४॥
एकशृंगो वराहस्त्वं भूतभव्यभवात्मकः
अक्षरं ब्रह्म सत्यं तु आदौ चांते च राघवः ॥५॥
लोकानां तु परो धर्मो विष्वक्सेनश्चतुर्भुजः
सेनानी रक्षणस्त्वं च वैकुंठस्त्वं जगत्प्रभुः ॥६॥
प्रभवश्चाव्ययस्त्वं च उपेंद्रो मधुसूदनः
पृश्निगर्भो धृतार्चिस्त्वं पद्मनाभो रणांतकृत् ॥७॥
शरण्यं शरणं च त्वामाहुः सेन्द्रा महर्षयः
ऋक्सामश्रेष्ठो वेदात्मा शतजिह्वो महर्षयः ॥८॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतपः
शतधन्वा वसुः पूर्वं वसूनां त्वं प्रजापतिः ॥९॥
त्रयाणामपि लोकानां आदिकर्ता स्वयंप्रभुः
रुद्राणामष्टमो रुद्रः साध्यानामपि पंचमः ॥१०॥
आश्विनौ चापि कर्णौ ते सूर्यचंद्रौ च चक्षुषी
अंते चादौ च मध्ये च दृश्यसे त्वं परंतपः ॥११॥
प्रभवो निधनं चास्य न विदुः को भवानिति
दृश्यसे सर्वलोकेषु गोषु च ब्रह्मणेषु च ॥१२॥
दिक्षु सर्वासु गगने पर्वतेषु गुहासु च
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात् ॥१३॥
त्वं धारयसि भूतानि वसुधां च सपर्वताम्
अंतःपृथिव्यां सलिले सर्वसत्वमहोरगः ॥१४॥
त्रींल्लोकान्धारयन्नास्ते देवगंधर्वदानवान्
अहं ते हृदयं राम जिह्वा देवी सरस्वती ॥१५॥
देवा रोमाणि गात्रेषु निर्मितास्ते स्वमायया
निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा ॥१६॥
संस्कारस्ते भवेद्देहो न तदस्ति विना त्वया
जगत्सर्वं शरीरे तत्स्थैर्यं च वसुधातलम् ॥१७॥
अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः
त्वया लोकास्त्रयः क्रांताः पुराणैर्विक्रमैस्त्रिभिः ॥१८॥
त्वयेंद्रश्च कृतो राजा बलिर्बद्धो महासुरः
लोकान्संहृत्य कालस्त्वं निवेश्यात्मनि केवलम् ॥१९॥
करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा
त्वया सिंहवपुः कृत्वा परमं दिव्यमुत्तमम् ॥२०॥
भयदः सर्वभूतानां हिरण्यकशिपुर्हतः
त्वमश्ववदनो भूत्वा पातालतलमाश्रितः ॥२१॥
संहृतं परमं हव्यं रहस्यं वै पुनः पुनः
यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः ॥२२॥
यत्परं परतश्चै वपरमात्मेति कथ्यते
परो मंत्रः परं तेजस्तमेव हि निगद्यसे ॥२३॥
हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः
स्थित्युत्पत्तिविनाशांस्ते त्वामाहुः प्रकृतेः परम् ॥२४॥
यज्ञश्च यजमानश्च होता चाध्वर्युरेव च
भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे ॥२५॥
सीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः
वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम् ॥२६॥
तदिदं च त्वया कार्यं कृतं धर्मभृतां वर
निहतो रावणो राम प्रहृष्टा देवताः कृताः ॥२७॥
अमोघं देववीर्यं ते न ते मोघः पराक्रमः
अमोघदर्शनं राम न च मोघस्तव स्तवः ॥२८॥
अमोघास्ते भविष्यंति भक्तिमंतो नरा भुवि
ये च त्वां देव संभक्ताःपुराणं पुरुषोत्तमम् ॥२९॥
इममार्षस्तवं पुण्यमितिहासं पुरातनम्
ये नराः कीर्तयिष्यंति नास्ति तेषां पराभवः ॥३०॥
कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि भक्ताः
नहि जगति चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः ॥३१॥
स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः
त्रिकाले यः पठेन्नित्यं महापातकवानपि ॥३२॥
संध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः
पठनीयं प्रयत्नेन भक्तिभावेन चेतसा ॥३३॥
इदं गोप्यं हि परमं नाख्येयं कर्हिचित्क्वचित्
पठनान्मुक्तिमाप्नोति सात्त्वतः स भवेद्ध्रुवम् ॥३४॥
प्रथमं पिंडपूजांते ब्राह्मणैर्द्विजसत्तमैः
पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयात् ॥३५॥
इदं पवित्रं परमं जनानां मुक्तिदायकम्
लिखित्वा वै गृहे यस्तु धारयेत्सुसमाधिना ॥३६॥
आयुः श्रीश्च बलं तस्य वृद्धिं याति दिनेदिने
लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन ॥३७॥
विमुक्ताः पूर्वजास्तस्य यांति विष्णोः परं पदम्
चतुर्णां चैव वेदानां पाठे चैव तु यत्फलम् ॥३८॥
समवाप्नोति जापेन नरः स्तोत्रं पठन्जपन्
धृत्वा वै शंखचक्रादि ब्राह्मणैर्वेदतत्परैः ॥३९॥
श्राद्धकाले महादेवि अक्षयं तद्भवेद्ध्रुवम्
कंठे पद्माक्षमालां च शंखचक्रादिधारणम् ॥४०॥
ततः श्राद्धं प्रकुर्वीत इदं स्तोत्रं पठन्जपन्
विधिना भक्तिभावेन पूर्णं भवति नान्यथा ॥४१॥
अतो भक्तिमता पुंसा पठनीयं प्रयत्नतः
पठनात्सर्वमाप्नोति स नरः सुखमेधते ॥४२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे आभ्युदयिकमूर्ध्वदैहिकस्तोत्रं नाम षट्सप्ततितमोऽध्यायः ॥७६॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP