संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ४८

उत्तरखण्डः - अध्यायः ४८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
वैशाखस्यासिते पक्षे किंनामैकादशी भवेत्
महिमानं कथय मे वासुदेव नमोऽस्तु ते ॥१॥
श्रीकृष्ण उवाच-
सौभाग्यदायिनी राजन्निहलोके परत्र च
वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी ॥२॥
वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा
पापहानिश्च भवति सौभाग्यप्राप्तिरेव च ॥३॥
दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात्
लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी ॥४॥
सर्वपापहरा नॄणां गर्भवासनिकृंतनी
वरूथिन्या व्रतेनैव मांधाता स्वर्गतिं गतः ॥५॥
धुंधुमारादयश्चान्ये राजानो बहवस्तथा
ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ॥६॥
दशवर्षसहस्राणि तपस्तप्यति यो नरः
कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः
तत्तुल्यंफलमाप्नोतिवरूथिन्याव्रतंचरन् ॥७॥
श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः
वांछितं लभते सोऽपि इहलोके परत्र च ॥८॥
पवित्रा पावनी ह्येषा महापातकनाशिनी
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम ॥९॥
अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते
गजदानाद्भूमिदानं तिलदानं ततोऽधिकम् ॥१०॥
तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम्
अन्नदानात्परं दानं न भूतं न भविष्यति ॥११॥
पितृदेवमनुष्याणां तृप्तिरन्नेन जायते
तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम ॥१२॥
धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम्
प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते ॥१३॥
तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम्
कन्यावित्तेन जीवंति ये नराः पापमोहिताः ॥१४॥
पुण्यक्षयं ते गच्छंति निरयं यातनामयम्
तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम् ॥१५॥
यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद्धनम्
सोऽन्यजन्मनि राजेंद्र ओतुर्भवति निश्चितम् ॥१६॥
कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलंकृताम्
तत्पुण्यसंख्यां नृपते चित्रगुप्तो न शक्नुयात् ॥१७॥
तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम्
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा ॥१८॥
शाकं मधु परान्नं च पुनर्भोजन मैथुने
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् ॥१९॥
द्यूतं क्रीडां च निद्रां च तांबूलं दंतधावनम्
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥२०॥
क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत्
कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम् ॥२१॥
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम्
वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत् ॥२२॥
अनेन विधिना राजन्विहिता यैर्वरूथिनी
सर्वपापक्षयं कृत्वा दद्यात्प्रांतेऽक्षयां गतिम्
रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः ॥२३॥
सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम्
तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः ॥२४॥
क्षपारितनयाद्भीतो नरः कुर्याद्वरूथिनीम्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥२५॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे
वैशाखकृष्णवरूथिनी एकादशी नाम अष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP