उत्तरखण्डः - अध्यायः २०१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उचाव-
अथावरुह्य तौ वृक्षात्पितृपुत्रौ सुविस्मितौ
दृष्ट्वा हरिपदप्राप्तिमभूतां पापिनोरपि ॥१॥
शिवशर्माथ विप्रेंद्रः श्रुत्वा तीर्थस्तुतिं तदा
गणोक्तां विष्णुशर्माणमुवाच सुतमात्मनः ॥२॥
शिवशर्मोवाच-
यत्पदं न सुलभं द्विजन्मनां साधितेन तपसापि लीलया
प्रापतुः शबरदंष्ट्रिणौ च तत्तीर्थराजमहिमा विलोक्य ताम् ॥३
जन्मनः प्रभृति तावदामृतेः पापिनावपि च यत्प्रभावतः
जग्मतुः सुत हरेः सरूपतामस्य तीर्थवृषभस्य का स्तुतिः ॥४॥
शुद्धसत्वमपि रूपमैश्वरं क्वाम्बुजन्मजनिदेवदुर्ल्लभम्
तामसौ क्व मृगनाथभिल्लकौ किं तु तीर्थमिदमद्भुतक्रियम् ॥५॥
तात भो पतति वेधसः पदात्जंतुरंतमधिगम्य कर्मणाम्
अत्र देवगुरुनिर्मिते मृतिं प्राप्य माधवपदान्न विच्युतिः ॥६॥
नारद उवाच-
एवं प्रत्यक्षमालोक्य माहात्म्यं स द्विजोत्तमः
तीर्थस्यास्य गुरो राजन्स्नातुं तत्र प्रचक्रमे ॥७॥
मुख दंत पदानां सः कृत्वा शुद्धिं च चेतसः
पंचकच्छः शिखाबंधोपग्रही माधवं स्मरन् ॥८॥
अश्वक्रांतेति श्लोकेन पाठेन तटमृत्तिकाम्
स्पृशंस्तयैव विदधत्तिलकं जलमाविशत् ॥९॥
तत्र प्रवाहाभिमुखो निमज्जन्पुनरुत्थितः
पुनर्मग्नो हरिं स्मृत्वा गंगां च जनपावनीम् ॥१०॥
अयोध्याद्यापुरीः सप्त पुनरुत्थाय संस्मरन्
पुनर्ममज्ज सलिले गोविंदार्पितमानसः ॥११॥
कृत्वा यथाविधिस्नानं धौतवस्त्रे च पर्यधात्
बहिरागत्य तिलकं चक्रे च द्विजसत्तमः ॥१२॥
करपादशिखासूत्रैर्दर्भांश्च विदधद्वशी
संध्यां चकार विधिवत्तर्पणं त्रिविधं तथा ॥१३॥
सूर्याय कुसुमैर्दत्त्वा स जलैरर्घमादृतः
शिरोबद्धांजलिपुटो नमश्चक्रे द्विजोत्तमः ॥१४॥
आवाहनादि नैवेद्यपर्यंतमथ विप्रराट्
जगत्पूज्यपदाब्जस्य विष्णोः पूजामचीकरत् ॥१५॥
कृतक्रियः सूपविष्टः तादृशं सुतमात्मनः
जगाद संस्मरन्पूर्वजन्मकर्मणि कृत्स्नशः ॥१६॥
शिवशर्मोवाच-
विष्णुशर्मन्न ते मिथ्या वाक्यं तात यतः स्मृतिः
अत्र स्नानेन मे जाता पूर्वेषां जन्मकर्मणाम् ॥१७॥
आकर्णय माहाभाग कथयामि तवाग्रतः
पुराहमन्वये जातो विशां धनिकधर्मिणाम् ॥१८॥
पिता मे शरभो नाम्ना कान्यकुब्जे पुरेऽवसन्
वाणिज्येनार्जयन्वित्तं भूरिधर्मधनाश्रितः ॥१९॥
व्यतीतस्तु महान्कालस्तस्य नाभवदात्मजः
जरागृहीतदेहस्य तच्चिंतातुरचेतसः ॥२०॥
अचिंतयदहोरात्रमिति वैश्यवरस्तदा
विना सुतेन मे व्यर्थं धनं भूर्यपि संचितम् ॥२१॥
ऋते सुतमृणीलोके पितॄणां धनवानपि
सजलोऽपि विना वर्षं चातकानां यथा घनः ॥२२॥
पुमान्जयति संतत्या विश्वं धर्मधुरीणया
शक्त्या त्रिविधया राजा विपक्षमिव दुर्जयम् ॥२३॥
प्रीणाति संततिः शुद्धा सुमनः पितृमानवान्
मित्रप्रत्यर्थ्यु यदासीनान्सूनृता वाग्यथेरिता ॥२४॥
उदयस्थेन पुत्रेण वर्द्धते स्वयशः पितुः
निर्मलं द्विजराजेन नीरं तीरनिधेरिव ॥२५॥
तस्माद्यतेत्सुतोत्पत्यै शरीरेण धनेन वा
तमृते हि द्वयं व्यर्थं जनानां तडिदायुषाम् ॥२६॥
एवं चिंतयतस्तस्य गृहे मुनिवरस्तदा
देवलोऽतीद्रियज्ञानो वरं दातुं समाययौ ॥२७॥
आगतं तं समालोक्य प्रत्युत्थायासनात्पिता
दत्त्वार्घमथ पाद्यं च ववंदे शिरसा मुनिम् ॥२८॥
उपवेश्यासने दत्ते स्वहस्तेन पिता मम
पप्रच्छ च मुनिश्रेष्ठं देवलं देवदर्शनम् ॥२९॥
स्वागतं तु मुनिश्रेष्ठ शमस्ति भवतां कुले
तपः स्वाध्यायनियमा निष्प्रत्यूहा भवंति च ॥३०॥
काले चातिथयः कच्चिदायांति भवदाश्रमे
कच्चिदाश्रमवृक्षा वः फलंति मनसेप्सितम् ॥३१॥
व्याघ्रादयो न कुर्वंति कच्चिद्वैरं मृगादिभिः
त्वदीयाश्रममभ्येत्य भ्रातरो भ्रातृभिर्यथा ॥३२॥
तवाटनं भुवि मुदे गृहिणामन्यथा कथम्
तेषां गृहाधिमग्नानां दर्शनं क्व भवादृशः ॥३३॥
हरिपादरजोबुद्धेः कामं कामो न कुत्रचित्
मुने तव तथाप्याशु हेतुमागमने वद ॥३४॥
शिवशर्मोवाच-
इत्युक्तस्तेन स मुनिर्देवलो देवपूजितः
अब्रवीत्तन्मनोभावं ज्ञातुकामो विशांपतिम् ॥३५॥
देवल उवाच-
वैश्यवर्य त्वया भूरि धनं धर्मेण संचितम्
करोषि येन धर्मज्ञ नित्यनैमित्तिकी क्रियाः ॥३६॥
आदरं राजसदसि धनेन लभते नरः
सुभटः शत्रुसंग्रामे विक्रमेण यथा जयम् ॥३७॥
गृहस्थस्तु धनं प्राप्य परां पुष्टिं व्रजत्यलम्
शरत्परिणतं सस्यमनड्वानिव विश्पते ॥३८॥
धनिनां न विमुंचंति बंधवोऽन्ये च ये जनाः
मधुमत्सुमनो युक्तं पादपं मधुपा इव ॥३९॥
धनाभावेन गृहिणां कृशत्वमुपजायते
सर्वतो ग्रीष्मसमये नभसां सरसामिव ॥४०
तद्धनं वर्त्तते भूरि गृहे तव विशांपते
कुतः कृशत्वमंगानां गोप्यं चेन्न वदाद्य मे ॥४१॥
वैश्य उवाच-
हितोपदेशविरता भवंतः पितरो यथा
गोपनीयं भवद्भ्यः किं मादृशैः पुत्रतां गतैः ॥४२॥
त्वत्प्रसादान्मुनिश्रेष्ठ सर्वतोऽस्ति शिवं मम
वार्द्धकेपि सुताभावो दुःखमेकमिदं मम ॥४३॥
तस्मात्कृशत्वमंगानां विद्धि मे मुनिपुंगव
बिभेम्यहं पितृऋणाद्यतोऽधः पतनं नृणाम् ॥४४॥
तमुपायं कुरु मुने येन स्यां सुतवानहम्
किंचित्कर्तुमशक्यं न भूतलेऽत्र भवादृशैः ॥४५॥
शिवशर्मोवाच-
इत्याकर्ण्य वचस्तस्य वैश्यवर्यस्य देवलः
मनः क्षणं स्थिरं कृत्वा दध्यौ मीलितलोचनः ॥४६॥
संततेर्मत्पितुर्दृष्ट्वा प्रतिबंधस्य कारणम्
देवलोतींद्रियज्ञानी बभाषे कारयन्स्मृतिम् ॥४७॥
देवल उवाच-
एकदा तु पुरा वैश्य तवेयं धर्मचारिणी
यं चकार स्वचित्ते तं कथयामि मनोरथम् ॥४८॥
गुर्विणी यद्यहं गौरि भवेऽहं शंभुवल्लभे
तदा त्वां तोषयिष्यामि षड्रसान्वितभोजनैः ॥४९॥
धूपदीपकमालाभिस्तांबूलैर्नृत्यबाधकैः
तंत्रीमुखोद्गतैर्गीतैर्नानाविधविलेपनैः ॥५०॥
एवं प्रतिश्रुत्य पुरः सखीनां दयिता तव
प्रतीक्षमाणा तं कालं तस्थौ तद्भक्तिसंयुता ॥५१॥
तस्मिन्नेवाभवद्गर्भो मासेऽस्या योषितस्तव
ऊचुरेनां ततः सख्यः सर्वाः सस्नेहचेतसः ॥५२॥
यस्त्वया वांछितो गर्भो गौर्या संप्रतिपादितः
अतः प्रतिश्रुतं देव्याः पूजनं सुभगे कुरु ॥५३॥
नोचेद्विकाराद्भवति विघ्नं तु तदनुष्ठितात्
तोषिता रोषिताश्चात्र देव्यो हि वरशापदाः ॥५४॥
सखीभिरिति ते भार्या कथितेयं मुदान्विता
त्वामुवाच महाभागा विनयेन पतिव्रता ॥५५॥
नाथ पूजयितुं गौरीं वांछाम्यखिलकामदाम्
यत्प्रसादादहं याता वांछितार्थवती प्रभो ॥५६॥
वैश्यवर्य त्वमेवैतच्छ्रुत्वास्या वचनं शुभम्
अमन्यत गर्भवतीमेनां निजगृहेश्वरीम् ॥५७॥
परमोत्सवया मोदमानः सद्यो भवानपि
भृत्यानाज्ञापयामास पूजावस्तूपपादने ॥५८॥
तैरानाय्य समस्तानि वस्तूनि भवता ततः
अस्यै दत्तानि मध्वन्न द्राक्षा गंधादिकान्यपि ॥५९॥
ततो निजसखीः सर्वा आहूयेदमिदं जगौ
सख्यः समस्ताः सामग्री समानीतांबिकार्चने ॥६०॥
नीत्वा पूजोपकरणं यूयं यातांबिकालयम्
संतोषयत तां देवीं पूजया विधिदृष्टया ॥६१॥
गुर्विणीति कुलेऽस्माकं न निर्याति गृहाद्बहिः
अतोऽहं नागमिष्यामि यूयं यात तदर्चने ॥६२॥
इत्याज्ञप्तास्तु ताः सख्यो नीत्वोपकरणं ययुः
अंबिकालयमुन्मत्तभ्रमद्भ्रमरकेतनम् ॥६३॥
कोकिलाकुलसंकेलि सहकारकुलाकुलम्
हंससारसचक्राह्वमंडितं स्वच्छसारसम् ॥६४॥
महादेवगुणालापि शुकसारिसमावृतम्
हारपूरालतासेके तत्परो मा सखीधरम् ॥६५॥
उमापतेरुमापादन्यासपूतमहीतलम्
स्फटिकोपलसंबद्ध जलाधारसुरद्रुमम् ॥६६॥
पार्वतीपतिसंनाट्य गायद्गंधर्वनादितम्
मन्दानिलमनाग्धूत चूतचंपककोरकम् ॥६७॥
नृत्यन्मयूरनिर्ह्राद प्रतिनादिलतागृहम्
तल्लीलाचलविद्योतमानं रत्नलसत्प्रभम् ॥६८॥
तत्र गत्वा गिरिसुतां प्रणेमुस्ताः सभर्तृकाः
प्रदक्षिणीकृत्य ततो भक्त्या तां च बभाषिरे ॥६९॥
जगदंबे नमतुभ्यं शन्नो देहि शिवप्रिये
त्वत्पूजार्थे समानीतो बलिरेष प्रगृह्यताम् ॥७०॥
वैश्यस्तु शरभो नाम्ना तस्यास्ति ललितांगना
तयाभिलषितो गर्भस्तत्प्राप्तौ तव पूजनम् ॥७१॥
त्वत्प्रसादादभूत्तस्याः स गर्भः शंभुवल्लभे
त्वत्पूजनाय प्रहितो बलिरस्माभिरेषकः ॥७२॥
तस्याः कुले गर्भवती न निरेति बहिर्गृहात्
अतः सा नागता देवि प्रसीदैन गृहाण वै ॥७३॥
इत्युक्त्वा तां तदा वैश्य त्वत्स्त्रीसख्यस्तु तं बलिम्
समर्पयित्वा विधिवदानर्चुश्चंदनादिभिः ॥७४॥
प्रतिवाक्यमलब्ध्वा ता गौर्या प्रत्याययुर्गृहम्
निजसख्यै समाचख्युर्विषण्णां तां शिवप्रियाम् ॥७५॥
तासामाकर्ण्य वचनमिति वैश्य तवाबला
उन्मनाश्चिंतयामास कुतो गौरीनपि प्रिये ॥७६॥
सा जानाति यथा भक्तिस्तत्पूजाया कृता मया
तादृशीनां किमज्ञातं बाह्यं चाभ्यंतरं नृणाम् ॥७७॥
न गताहं यतस्तत्र तज्जानात्यपि कारणम्
मया दत्तेन बलिना कुतः सा न तुतोष वै ॥७८॥
नाहमन्यत्प्रजानामि तदतोषे हि कारणम्
ऋते मदगतेस्तत्र नूनं रम्ये तदालये ॥७९॥
यदतीतं न तच्छक्यमन्यथाकर्तुमद्य वै
गर्भान्मुक्ता गमिष्यामि तत्पूजायै तदालये ॥८०॥
नमस्तस्यै महादेव भार्यायै सा करोतु शम्
इत्युक्त्वा दधती गर्भं तस्थौ वैश्य तवांगना ॥८१॥
शिवशर्मोवाच-
विष्णुशर्मन्निदं पूर्ववृत्तमाज्ञाय मत्पिता
पप्रच्छ मुनिशार्दूलं देवलं ज्ञानवत्तरम् ॥८२॥
वैश्य उवाच-
मुने यथा प्रतिश्रुता पूजा ते स्नुषया तया
तथैवाकारि पार्वत्या विषादे कारणं वद ॥८३॥
यतोऽसौ न गता तत्र तज्जानाति शिवास्वतः
सखीभ्यश्चोक्तमस्यास्तद्विषण्णा सा कुतोभवत् ॥८४॥
देवल उवाच-
वैश्यवर्य शृणुष्वेदं कारणं कथयामि ते
यतस्तस्या विषादोऽभूत्पार्वत्या गर्भनाशकः ॥८५॥
निवृत्तासु सखीष्वस्याः संपूज्य स्कंदमातरम्
विजया पार्वतीं प्राह कौतूहलसमन्विता ॥८६॥
विजयोवाच-
गिरिजे श्रद्धया तुभ्यं दत्तोमूभिरयं बलि
मानुषीभिः कुतः प्रीता नाभवस्त्वं वरानने ॥८७॥
धूपदीपकनैवेद्यैः पूजिता तोषहेतवे
प्रत्युताकारणं देवि त्वं विषादं कुतो गता ॥८८॥
देवल उवाच-
इत्याकर्ण्य वचः सख्या देवी देववरार्चिता
अब्रवीद्विजयां वैश्य विषादे कारणं सखीम् ॥८९॥
पार्वत्युवाच-
विजये सखि जानामि वैश्यभार्या गृहाद्बहिः
निर्गंतुमक्षमां गर्भधारणास्वविवेकतः ॥९०॥
समागतास्तु तत्सख्यो मत्पूजायै तदीरिताः
मादृशो न च गृह्णंति परहस्तकृतं बलिम् ॥९१॥
तत्पतिश्चेत्समायास्यदभविष्यत्तदा शिवम्
तस्यास्तु मदवज्ञातो गर्भपातो भविष्यति ॥९२॥
यद्व्रतं पूजनं यच्च कर्तुं न क्षमतेंगना
तत्कारयति नाथेन न भंगः स्यात्तयोःसखि ॥९३॥
अथवा विप्रमुख्येन पृष्ट्वा पतिमनन्यधीः
यतः स्वयमनागत्य तत्कृतं मे तयार्चनम् ॥९४॥
न कारितं च भर्त्रातो भविता दोहदोऽफलः
यद्युभौ तौ समागत्य दंपती श्रद्धया पुनः ॥९५॥
मां पूजयिष्यतः पुत्रो भविष्यति तदा तयोः
देवल उवाच-
सशापो न त्वया वैश्य न चैव तव भार्यया ॥९६॥
श्रुतः सखीभिरस्या नो प्रसादश्च तयार्पितः
तयोरज्ञानतो वैश्य युवयोर्नाभवत्सुतः ॥९७॥
अजानतो प्रतिविधिं परत्रात्र सुखप्रदम्
एतत्ते कथितं वैश्य संतानाभावकारणम् ॥९८॥
वसिष्ठेन यथापूर्वं दिलीपस्य महीपतेः
तच्छ्रुत्वा स यथा राजा नंदिनीं समतोषयत् ॥९९॥
सस्त्रीकस्त्वं तथा वैश्य गौरिं तोषय कामदाम्
सा यथाराधिता राज्ञे दिलीपाय ददौ सुतम् ॥१००॥
आराधय तथा गौरीं त्वं सा तुभ्यं च दास्यति
वैश्य उवाच-
दिलीप इति भूपः कः का च सा नंदिनी मुने ॥१०१॥
यामाराध्यसुतंलेभेसभूयोभूपसत्तमः
महेशादिसुरान्मुक्त्वा त्रिवर्णफलदायिनः ॥१०२॥
आराधिता कुतः सैव सुतार्थं तेन भूभुजा
एतत्सर्वं समाख्याहि मुने यत्पृष्टवानहम्
श्रुत्वा ततो गिरिसुतां सेविष्ये सह भार्यया ॥१०३॥
शिवशर्मोवाच-
गदितमिति निशम्य विष्णुशर्मन्विनययुतेन विशा मदीय पित्रा
मुनिरिति गदितुं दिलीपवृत्तं जगति पवित्रतरं विचक्रमे सः ॥१०४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदी
माहात्म्ये एकाधिकद्विशततमोऽध्यायः ॥२०१॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP