संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ९

उत्तरखण्डः - अध्यायः ९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
इंद्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम
जालंधरेण विजितैः स्वर्गराज्ये हृते सति ॥१॥
नारद उवाच-
अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम्
न पीयूषं नैव यज्ञाः ययुः स्थानं स्वयंभुवः ॥२॥
ददृशुर्ब्राह्मभुवने ब्रह्माणं परमेष्ठिनम्
प्राणायामेन युंजानं मनः स्वं परमात्मनि ॥३॥
ते तुष्टुवुः सुराः सर्वे वाग्भिस्तथ्याभिरादृताः
ततः प्रसन्नो भगवान्किंकरोमीति चाब्रवीत् ॥४॥
ततो निवेदयांचक्रुः ब्रह्मणे विबुधाः पुनः
जालंधरस्य सकलं तथा निजपराभवम् ॥५॥
क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह
तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः
स्थिताः संतुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः ॥६॥
नमो भवाय शर्वाय नीलग्रीवाय ते नमः
नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ॥७॥
इति सर्वमुखो भूत्वा वाणीमाकर्ण्य शंकरः
प्रोवाच नंदिनं देवा नानयस्वेति सत्वरम् ॥८॥
श्रुत्वा शंभोर्वचो देवा आहूता नंदिना द्रुतम्
प्रविश्यांतःपुरे देवा ददृशुर्विस्मितेक्षणाः ॥९॥
तत्रासने समासीनं शंकरं लोकशंकरम्
गणैः कोटिसहस्रैस्तु सेवितं भक्तिशालिभिः ॥१०॥
नग्नैर्विरूपैः कुटिलैर्जटिलैर्धूलिधूसरैः
प्रणिपत्याग्रतः प्राह सह देवैः पितामहः ॥११॥
सुखरोगो यथा स्यासीच्छक्रः सोऽयं वृथागतः
कृपां कुरु महादेव शरणागतवत्सल ॥१२॥
तत उच्चैर्विभोर्हास्यं श्रुत्वा ब्रह्मा पिनाकिनः
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् ॥१३॥
ततः सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितम्
शक्रस्य मानभंगं च देवार्थे परमेश्वरः ॥१४
प्रेम्णा भवान्या विज्ञप्तो नृप प्राह वचो हरः
विष्णुना न हतो योऽरि स कथं हन्यते मया ॥१५॥
पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह
तैः शस्त्रैर्नैव वध्योऽसौ बली जालंधरोऽसुरः ॥१६॥
हेतिभिः पूर्वसंसृष्टैः समयापि न हन्यते
देवाः कुर्वंतु शस्त्रं हि मम प्राणसहं दृढम् ॥१७॥
शंभोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाथ शंकरम्
स्वयं कुरु महाशस्त्रं त्वं वेत्थ स्वात्मनो बलम् ॥१८॥
इति तस्य वचः श्रुत्वा प्रत्युवाच महेश्वरः
ब्रह्मन्विमुंच तेजस्त्वं क्रोधयुक्तं सुरैः सह ॥१९॥
ततस्तेजो मुमोचाथ ब्रह्मा ब्रह्मास्त्रसूचकः
रुद्रस्त्रिनेत्रजं तेजस्ततो निर्मुक्तवान्स्वयम् ॥२०॥
देवाश्च मुमुचुः सर्वे सक्रोधं तेजसां चयम्
अत्रांतरे स्मृतः प्राप्तो हरेण मधुसूदनः ॥२१॥
किं करोमीति तेनोक्तः शिवः प्राह जनार्दनम्
विष्णो जालंधरः कस्मान्न हतः संगरे त्वया ॥२२॥
कथं सुरान्परित्यज्य क्षीराब्धिं शयितुं गतः ॥२३॥
श्रीविष्णुरुवाच-
यदि तं हन्मि देवेश श्रीः कथं मम वल्लभा
तस्मात्त्वं पार्वतीकांत जहि जालंधरं रणे ॥२४॥
तेजस्त्वं क्रोधजं मुंचेत्युक्तः शर्वेण केशवः
मुमोच वैष्णवं तेजः तत्सर्वं समवर्द्धत
तेजः प्रवृद्धं तद्दृष्ट्वा व्यापकं प्राह केशवम् ॥२५॥
शंकर उवाच-
एतेन तेजसा शीघ्रं ममास्त्रं कर्तुमर्हथ
विश्वकर्मादयस्तच्च श्रुत्वा शंकरभाषितम् ॥२६॥
निरीक्ष्य च तदाऽन्योऽन्यं किं कुर्म इति शंकिताः
दृष्ट्वा तूष्णीं स्थितांस्तांश्च ज्ञात्वा तन्मनसि स्थितम् ॥२७॥
तदाह भगवान्ब्रह्मा अनालोक्यं हि दैवतैः
सोढुं न शक्तास्ते तेजो धर्तुं केन च शक्यते ॥२८॥
ततः प्रहस्य भगवानुत्पत्योपरि तेजसः
वामांघ्रिपार्ष्णिना शंभुर्ननर्त भ्रमरीचयम् ॥२९॥
ततो देवा महेंद्राद्यास्तेजसोपरि शंकरम्
नृत्यमानं तदा दृष्ट्वा मुदा वाद्यान्यवादयन् ॥३०॥
तदाप्रभृति नृत्येषु भ्राम्यते भ्रमरीचयम्
अथ चक्रं समुत्पन्नं शंभोर्नर्तनमर्दनात् ॥३१॥
आरलक्षत्रयोपेतं अस्थिकोटिसमाकुलम्
शर्वांघ्रिकषणात्तस्य तेजसो निसृताः कणाः ॥३२॥
विश्वकर्मा च तेनास्त्रं विमानानि च निर्ममे
ततस्ते निर्ज्जरा भीत्या दृष्ट्वा चक्रं सुदर्शनम् ॥३३॥
त्राहित्राहीति देवेशं प्रत्यूचुस्ते सुरान्नृप
पृथ्वीकाठिन्यमादाय लोहानामपि तेजसाम् ॥३४॥
यद्विश्वकर्मणा कोशं कृतं भस्मीकृतं च तत्
सृष्टेन तेन चक्रेण दग्धः कालोऽपतत्क्षितौ ॥३५॥
ततस्तद्ब्रह्मणो हस्ते ददौ चक्रं स धूर्जटिः
चक्रार्चिर्निचयैः कूर्चं दृष्ट्वा दग्धमुमापतिः ॥३६॥
हसित्वा ब्रह्मणो हस्ताद्गृहीत्वा सत्वरं शिवः
दधौ कक्षापुटे चक्रं निधानं निर्धनो यथा ॥३७॥
ततो न दृश्यते चक्रं शिवकक्षापुटेस्थितम्
महामूर्खस्य यद्दत्तं दानं तस्य फलं यथा ॥३८॥
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्र
संहितायां युधिष्ठिरनारदसंवादे जालंधरोपाख्याने सर्व
देवतेजोमयचक्रोत्पत्तिर्नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP