संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १७६ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १७६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १७६ Translation - भाषांतर श्रीभगवानुवाचआदिमस्यैवमाख्यानमुदीरितमनुत्तमम्शृणु माहात्म्यमन्येषामध्यायानामपींदिरे ॥१॥दक्षिणस्यां दिशि श्रीमानासीदाम्नायवादिनाम्पुरे पुरंदराह्वाने देवशर्मेति विश्रुतः ॥२॥अर्चितातिथिराम्नातो वेदशास्त्रविशारदःआहर्ता क्रतुसंघानां तापसानां प्रियः सदा ॥३॥देवान्संतर्पयामास हव्यैर्हुतवहं चिरम्न चोपलेभे धर्मात्मा शांतिमेकांतिकीं ततः ॥४॥निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम्सिषेवे सत्यसंकल्पाननल्पैरेव कल्पकैः ॥५॥एवमाचरतस्तस्य काले महति गच्छतिमुक्तकर्मा ततः कश्चित्प्रादुरासीत्पुरा भुवि ॥६॥अनुभूतनिराकांक्षी नासाग्रन्यस्तलोचनःशांतचेताः परं ब्रह्म ध्यायन्नानंदनिर्भरः ॥७॥पादौ तस्योपसंगृह्य प्रणतेनांतरात्मनाचकार विधिवत्तस्मै विद्वानतिथिसत्क्रियाम् ॥८॥तं च शुद्धेन भावेन परितुष्टं तपस्विनम्प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः ॥९॥स तस्मै कथयामास पुरेऽसौ पुरनामनिमित्रवंतमजापालमुपदेष्टारमात्मवित् ॥१०॥स चाभिवंद्य तत्पादावेत्यसौ पुरमूर्जितम्तस्योत्तरदिशोभागे ददर्श विपुलं वनम् ॥११॥मारुतांदोलितानेक कुसुमामोदसुंदरम्उन्मत्तभ्रमरोद्गीत नादापूरितदिङ्मुखम् ॥१२॥तस्मिन्वने सरित्तीरे निषीदंतं शिलातलेमित्रवंतं ददर्शाथ सानंदस्तिमितेक्षणम् ॥१३॥अपि स्वाभाविकं वैरं हित्वान्योन्यं विरोधिभिःसत्वैरावृतमुद्याने मंदस्यंदनभास्वति ॥१४॥शांतेषु मृगयूथेषु दशानंदमनोज्ञयाकृपानुविद्धया भूमिं निषिंचंतमिवामृतम् ॥१५॥उपेत्य विनयेनामुमुन्मनाः प्रीतमानसःकिंचिदानम्रशिरसा तेनापि स तु सत्कृतः ॥१६॥उपतस्थे ततो विद्वान्मित्रवंतमनन्यधीःसमाप्तध्यानकालं स पर्यपृच्छत्समाहितः ॥१७॥देवशर्मोवाचआत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथेलब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि ॥१८॥श्रीभगवानुवाचपरामृश्य क्षणं सोऽपि मित्रवानिदमब्रवीत्मित्रवानुवाचविद्वन्विद्धि पुरावृत्तमुच्यमानमिदं मया ॥१९॥अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम्तत्र दुर्दमनामासीदन्वये च मनीषिणाम् ॥२०॥तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिःदानानि प्रत्यहं गृह्णन्वर्त्तते उदरंभरः ॥२१॥कालेन कालपाशेन बद्धानीतो यमालयम्निरयेषु समग्रेषु यातना अनुभूय च ॥२२॥कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम्भवांतरानुवर्तिन्या विद्यया स पुरस्कृतः ॥२३॥उपयेमे दुराधर्षां कन्यकामधमे कुलेकालेन सा वयो हित्वा शैशवं यौवनं ययौ ॥२४॥पीनस्तनी च सुश्रोणी मदविह्वललोचनापतिं न सेहे दुर्वृत्तं चकमे स्वपतीन्परान् ॥२५॥वृत्तिमाहर्तुकामस्मिन्निर्गता सा पुराद्बहिःसंगता कामुकेनासौ चिरं चांडालजन्मना ॥२६॥दधे गर्भमसौ तस्मात्सा च कन्योपपद्यतेसैव भार्यापि तस्यासीत्पूर्वपापप्रसंगतः ॥२७॥सैव वृद्धा ततः काले डाकिनी समजायतकुसंगात्कुमतिर्जाता दुष्टनारीप्रसंगतः ॥२८॥चखाद व्याधितं व्याधमसृगास्वादलालसाभ्रमंती विपिने घोरे जनैर्दृष्ट्वा बहिष्कृता ॥२९॥परेतलोकमासाद्य व्याधौ व्याघ्रोऽभ्यवर्त्ततनरकान्दारुणान्भुक्त्वा जीवहिंसा प्रभावतः ॥३०॥सापि कालेन दुष्टात्मा मृत्युवेगमुपागतानिरयानेत्य दुर्द्धर्षानजाजायत मद्गृहे ॥३१॥तामन्या अप्यहं विद्वन्पालयन्काननांतरेअपश्यन्द्वीपिनं घोरं जिघांसंतमिवाखिलम् ॥३२॥समालोक्य तमायांतं भयेन प्रपलायितम्अजायूथं परित्यज्य मया मरणभीरुणा ॥३३॥उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन्अजा तु तत्समीपेऽगात्सत्वरं सरिदंतिके ॥३४॥तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गलाअवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः ॥३५॥तं तथाविधमालोक्य सा वक्तुमुपचक्रमेद्वीपिन्नभीप्सितं भुंक्ष्व मांसमुद्धृत्य सादरः ॥३६॥नेयं भवति ते बुद्धिः कथं वैरमतिं त्यजःइत्याकर्ण्य तदा वाक्यं प्राह द्वीपी विमत्सरः ॥३७॥स्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौन प्रार्थयामि तेन त्वां समीपे समुपस्थिताम् ॥३८॥सैवमुक्ता पुनः प्राह जाताहं निर्भया कथम्किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि ॥३९॥एवमुक्तः पुनर्द्वीपी तामाहाजां न वेद्म्यहम्पुरोगतमिमं प्रष्टुं महांतमिति निर्गतौ ॥४०॥ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयःअहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम् ॥४१॥मया पृष्टः स विप्रेदमब्रवीत्सादरं कपिःशृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम् ॥४२॥इदमायतनं पश्य पुरोवनगतं महत्अत्र त्र्यंबकलिंगं हि द्रुहिणेन प्रतिष्ठितम् ॥४३॥सुकर्मानाम मेधावी पर्युपास्ते तपश्चरन्वनपुष्पाण्यपाहृत्य सुरपूज्यं पुरोभवम् ॥४४॥संस्नाप्य सरिदंभोभिः केवलं कर्मणा वसन्काले महति तस्यागादतिथिः कश्चिदंतिकम् ॥४५॥उपाहृत्य फलाहारं स तस्मै पर्यकल्पयत्तेनातिथ्येन संप्रीतः सुकर्माणमभाषत ॥४६॥किमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसिगतानुगतया वृत्त्या किं वा केवलमीहसे ॥४७॥स एवमुक्तः प्रायेण प्रीतेनात्मविदा तदाप्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तमम् ॥४८॥विद्वन्न वेद्मि तत्वेन फलमेतस्य कर्मणःबुभुत्सया परः शंभुः सेव्यते केवलं यया ॥४९॥फलमेतस्य सेवायाः परिपाकं कपर्दिनःयन्मांसमनुगृह्णासि संस्पृश्यात्ममनोरथम् ॥५०॥तस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनःद्वितीयमालिलेखाऽसौ गीताध्यायं शिलातले ॥५१॥आदिदेशाशु तं विप्रं पठनाभ्यसनाय चफलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः ॥५२॥इत्युक्त्वांतर्दधे धीमान्पुरतस्तस्य पश्यतःविस्मितस्तस्य चादेशात्सोऽन्वतिष्ठदनारतम् ॥५३॥ततः कालेन महता भावितात्मा प्रसन्नधीःयत्रयत्र चचारासौ शांतं तत्तत्तपोवनम् ॥५४॥न द्वंद्वबाधा नैव क्षुत्पिपासा न च वा भयम्तपसा तस्य जानीहि द्वितीयाध्यायजापिनः ॥५५॥मित्रवानुवाचएवमुक्तश्च तेनाऽहं ख्यापयित्वा परां कथाम्अनुज्ञातप्रसंनेन च्छागीव्याघ्रयुतोगमम् ॥५६॥गत्वा शिलातले पश्यमध्यायं लिखितं पठेत्तस्यैवावर्त्तनादाप्तं तपसः पारमुत्तमम् ॥५७॥तेन त्वमपि कल्याण नित्यमाहर्तुमर्हसिअध्यायं तेन ते मुक्तिरदूरस्था भविष्यति ॥५८॥देवशर्मा समादिष्टस्तेन मित्रवता स्वयम्अभ्यर्च्य प्रणतो भूत्वा पुरंदरपुरं ययौ ॥५९॥तत्रात्मविदमासाद्य देवतायतने क्वचित्वृत्तमेतन्निवेद्यादावध्यायमपठत्ततः ॥६०॥शिक्षितस्तेन पूतात्मा पठन्नध्यायमादरात्द्वितीयमाससादोच्चैर्निरवद्यं परं पदम् ॥६१॥द्वितीयस्येदमाख्यानं कथितं शृणु सांप्रतम्तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेंदिरे ॥६२॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये सतीश्वरसंवादे षट्सप्तत्यधिकशततमोऽध्यायः ॥१७६॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP