संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ६० उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ६० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ६० Translation - भाषांतर युधिष्ठिर उवाच-कथयस्व प्रसादेन मयि स्नेहाज्जनार्दनकार्त्तिकस्यासिते पक्षे किंनामैकादशी भवेत् ॥१॥श्रीकृष्ण उवाच-श्रूयतां राजशार्दूल कथयामि तवाग्रतःकार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना ॥२॥एकादशी समाख्याता महापापहरा पराअस्याः प्रसंगतो राजन्माहात्म्यं प्रवदामि ते ॥३॥मुचुकुंद इति ख्यातो बभूव नृपतिः पुरादेवेंद्रेण समं तस्य मित्रत्वमभवन्नृप ॥४॥यमेन वरुणेनैव कुबेरेणापि सर्वथाविभीषणेन यस्यैव सखित्वमभवन्नृप ॥५॥विष्णुभक्तः सत्यसंधो बभूव नृपतिः परःतस्यैवं शासतो राजन्राज्यं निहतकंटकम् ॥६॥बभूव दुहिता गेहे चंद्रभागा सरिद्वराशोभनाय च सा दत्ता चंद्रसेनसुताय वै ॥७॥स कदाचित्समायातः श्वशुरस्य गृहे नृपएकादशीव्रतदिनं समायातं सुपुण्यदम् ॥८॥समागते व्रतदिने चंद्रभागा त्वचिंतयत्किं भविष्यति देवेश मम भर्त्तातिदुर्बलः ॥९॥क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनःपटहस्ताड्यते यस्य संप्राप्ते दशमीदिने ॥१०॥न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिनेश्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम् ॥११॥किं कर्त्तव्यं मया कांते देहि शिक्षां वराननेचंद्रभागोवाच -मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित् ॥१२॥गजैरश्वैश्च कलभैरन्यैः पशुभिरेव चतृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने ॥१३॥मानवैश्च कुतः कांत भुज्यते हरिवासरेयदि त्वं भोक्ष्यसे कांत ततो गर्हां प्रयास्यसि ॥१४॥एवं विचार्य मनसा सुदृढं मानसं कुरुशोभन उवाच-सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम् ॥१५॥दैवेन विहितं यद्धि तत्तथैव भविष्यतिइति दृढां मतिं कृत्वा चकार नियमं व्रते ॥१६॥क्षुधया पीडिततनुः स बभूवातिदुःखितःइति चिंतयतस्तस्य आदित्योऽस्तमगाद्गिरिम् ॥१७॥वैष्णवानां नराणां सा निशा हर्षविवर्द्धनीहरिपूजारतानां च जागरासक्तचेतसाम् ॥१८॥बभूव नृपशार्दूल शोभनस्यातिदुःखदारवेरुदयवेलायां शोभनः पंचतां गतः ॥१९॥दाहयामास राजा तं राजयोग्यैश्च दारुभिःचंद्रभागा नात्मदेहं ददाह पतिना सह ॥२०॥कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनिशोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः ॥२१॥प्राप्तो देवपुरं रम्यं मंदराचलसानुनिअनुत्तममनाधृष्यमसंख्येयगुणान्वितम् ॥२२॥हेमस्तंभमयैसौधै रत्नवैडूर्यमंडितैःस्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः ॥२३॥सिंहासनसमारूढः सुश्वेतच्छत्रचामरःकिरीटकुंडलयुतो हारकेयूरभूषितःस्तूयमानश्च गंधर्वैरप्सरोगणसेवितः ॥२४॥शोभनः शोभते यत्र राजराजोपरो यथासोमशर्मेति विख्यातो मुचुकुंदपुरेऽभवत् ॥२५॥तीर्थयात्राप्रसंगेन भ्रमन्विप्रो ददर्श तम्नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः ॥२६॥शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम्आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम् ॥२७॥चकार कुशलप्रश्नं श्वशुरस्य नृपस्य चकांतायाश्चंद्रभागायास्तथैव नगरस्य च ॥२८॥सोमशर्मोवाच-कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तवचंद्रभागा कुशलिनी सर्वतः कुशलं पुरे ॥२९॥स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम्पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित् ॥३०॥एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वयाशोभन उवाच-कार्तिकस्यासिते पक्षे या नामैकादशी रमा ॥३१॥तामुपोष्य मया प्राप्तं द्विजेंद्र पुरमध्रुवम्ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः ॥३२॥द्विज उवाच-कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम्तत्त्वं कथय राजेंद्र तत्करिष्यामि नान्यथा ॥३३॥शोभन उवाच-मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम्तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु ॥३४॥मुचुकुंदस्य दुहिता चंद्रभागा सुशोभनातस्यै कथय वृत्तांतं ध्रुवमेतद्भविष्यति ॥३५॥कृष्ण उवाच-स श्रुत्वा वचनं तस्य मुचुकुंदपुरं गतःउवाच सर्वं वृत्तांत्तं चंद्रभागाग्रतो द्विजः ॥३६॥सोमशर्मोवाच -प्रत्यक्षं दयितः कांतस्तव दृष्टो मया शुभेइंद्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मयाअध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ॥३७॥चंद्रभागोवाच-तत्र मां नय विप्रर्षे पतिदर्शनलालसाम्आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ॥३८॥आवयोर्द्विजसंयोगो यथा भवति तत्कुरुप्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ॥३९॥इति श्रुत्वा सह तया सोमशर्मा जगाम हआश्रमं वामदेवस्य मंदराचलसंनिधौ ॥४०॥वामदेवोऽशृणोत्सर्वं वृत्तांतं कथितं तयोःअभ्यषिञ्चच्चन्द्रभागां वेदमंत्रैरथोज्ज्वलाम् ॥४१॥ऋषिमंत्रप्रभावेन विष्णुवासरसेवनात्दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ॥४२॥पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचनाजहर्ष शोभनोऽतीव दृष्ट्वा कांतां समागताम् ॥४३॥समाहूय स्वके वामे पार्श्वेतां संन्यवेशयत्अथोवाच प्रियं हर्षाच्चंद्रभागा प्रियं वचः ॥४४॥शृणु कांत हितं वाक्यं यत्पुण्यं विद्यते मयिअष्टवर्षाधिका जाता यदाहं पितृवेश्मनि ॥४५॥ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम्यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसातेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम् ॥४६॥सर्वकामसमृद्धं च यावदाभूतसंप्लवम्एवं सा नृपशार्दूल रमते पतिना सह ॥४७॥दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिताशोभनोऽपि तया सार्द्धं रमते दिव्यविग्रहः ॥४८॥रमाव्रतप्रभावेन मंदराचलसानुनिचिंतामणिसमा ह्येषा कामधेनुसमाथ वा ॥४९॥रमाभिधाना नृपते तवाग्रे कथिता मयातस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप ॥५०॥मया तवाग्रे कथितं माहात्म्यं पापनाशनम्एकादशीव्रतानां च पक्षयोरुभयोरपि ॥५१॥यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत्सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी ॥५२॥धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयःतथैव तुल्यफलदं स्मृतमेकादशीद्वयम् ॥५३॥एकादशीव्रतानां यो माहात्म्यं शृणुते नरःसर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥५४॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्तिक कृष्णा रमैकादशीनाम षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : November 19, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP