उत्तरखण्डः - अध्यायः ९३
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
नाडीद्वयावशिष्टायां रात्रौ गच्छेज्जलाशयम्
तिलगंधाक्षतैः पुष्पैर्दीपाद्यैः सहितः शुचिः ॥१॥
मानुषे देवखाते च नद्यां नद्योश्च संगमे
क्रमाद्दशगुणं स्नानं तीर्थेऽनंतफलं स्मृतम् ॥२॥
विष्णुं स्मृत्वा ततः कुर्यात्संकल्पं सवनस्य तु
तीर्थादिदेवतादिभ्यः क्रमादर्घादि दापयेत् ॥३॥
ॐनमः कमलनाभाय नमस्ते जलशायिने
नमस्तेऽस्तु हृषीकेश गृहाणार्घं नमोऽस्तु ते ॥४॥
वैकुंठे च प्रयागे च तथा बदरिकाश्रमे
यतो विष्णुर्विचक्रमे त्रेधा स निदधे पदम् ॥५॥
अतो देवा मामवंतु यतो विष्णुर्विचक्रमे
तैरेव सहितैः सर्वैर्मुनिदेवसमन्वितैः ॥६॥
कार्तिकेऽहं करिष्यामि प्रातःस्नानं सुरोत्तम
प्रीत्यर्थं देवदेवेश दामोदर मया सह ॥७॥
ध्यात्वाहं त्वां च देवेश जलेऽस्मिन्स्नातुमुद्यतः
तव प्रसादात्पापं मे दामोदर विनश्यतु ॥८॥
नित्यनैमित्तिके कृष्णे कार्तिके पापनाशने
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ॥९॥
व्रतिना कार्तिके मासि स्नातस्य विधिवन्मम
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ॥१०॥
स्मृत्वा भागीरथीं विष्णुं शिवं सूर्यं जले विशेत्
नाभिमात्रे जले तिष्ठन्व्रती स्नायाद्यथाविधि ॥११॥
तिलामलकचूर्णेन गृही स्नानं समाचरेत्
वनस्थानां यतीनां च तुलसीमूलमृत्तिका ॥१२॥
सप्तमी दर्श नवमी द्वितीया दशमीषु च
त्रयोदश्यां च न स्नायाद्धात्रीफल तिलैः सह ॥१३॥
आदौ कुर्यान्मलस्नानं मंत्रस्नानं ततः परम्
स्त्री शूद्राणां न वेदोक्तैर्मंत्रैस्तेषां पुराणजैः ॥१४॥
स्नान मन्त्राः
त्रिधाभूद्देवकार्याय यः पुरा भक्तिभावतः
स विष्णुः सर्वपापघ्नः पुनातु कृपयात्र माम् ॥१५॥
विष्णोराज्ञामनुप्राप्य कार्तिकव्रतकारणात्
रक्षंतु देवास्ते सर्वे मां पुनंतु सदैव ते ॥१६॥
वेदमंत्राः सबीजास्तु सरहस्याः सवीर्यकाः
कश्यपाद्याश्च मुनयो मां पुनंतु सदैव ते ॥१७॥
गंगाद्याः सरितः सर्वास्तीर्थानि जलदा नदाः
ससप्तसागराः सर्वे मां पुनंतु जलाशयाः ॥१८॥
पतिव्रतास्त्वदित्याद्या यक्षाः सिद्धाः सपन्नगाः
ओषध्यः पर्वताश्चाशु मां पुनंतु त्रिलोकजाः ॥१९॥
एभिः स्नात्वा व्रती मंत्रैर्हस्तन्यस्तपवित्रकः
देवर्षीन्मानवपितॄंस्तर्पयेच्च यथाविधि ॥२०॥
यावंतः कार्तिके मासि वर्तंते पितृतर्पणे
तिलास्तत्संख्यकाब्दानि पितरः स्वर्गवासिनः ॥२१॥
ततो जलाद्विनिष्क्रम्य शुचिवस्त्रावृतो व्रती
प्रातःकालोदितं कर्म समाप्यार्चेद्धरिं पुनः ॥२२॥
तीर्थादिदेवान्संस्मृत्य पुनरर्चां प्रदापयेत्
गंधपुष्पफलैर्युक्तो भक्तितत्परमानसः ॥२३॥
अर्घमंत्रः
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम
गृहाणार्घ्यं मया दत्तं दनुजेंद्र निषूदन ॥२४॥
ततश्च ब्राह्मणान्भक्त्या भोजयेद्वेदपारगान्
गंधपुष्पैः सतांबूलैः प्रणमेच्च पुनः पुनः ॥२५॥
तीर्थानि दक्षिणे पादे वेदाश्च मुखमाश्रिताः
सर्वांगे संस्थिता देवाः पूजिताः स्युर्द्विजार्चनात् ॥२६॥
अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि
नावमान्या नो विरोध्याः कदाचिच्छुभमिच्छता ॥२७॥
तां वै हरिप्रियां देवि तुलसीमर्चयेद्व्रती
प्रदक्षिणनमस्कारान्कुर्यादेकाग्रमानसः ॥२८॥
देवैस्त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः
नमो नमस्ते तुलसि पापं हर हरिप्रिये ॥२९॥
ततो विष्णुकथां श्रुत्वा पौराणीं स्निग्धमानसः
तं ब्राह्मणं मुनिं विप्रं पूजयेद्भक्तिमान्व्रती ॥३०॥
एवं पूर्णविधिं सम्यक्पूर्वोक्तं भक्तिमान्नरः
करोति यः स लभते नारायणसलोकताम् ॥३१॥
रोगापहं पापविनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधनम्
मुक्तेर्निदानं न हि कार्तिकव्रताद्विष्णुप्रियादन्यतमं हि भूतले ॥३२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे स्नानविधिवर्णनोनाम त्रिनवतितमोऽध्यायः ॥९३॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP