संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ११४

उत्तरखण्डः - अध्यायः ११४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीकृष्णोवाच
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत्
प्रदर्शयिष्यंस्तान्सर्वान्यमस्यानुचरस्तदा ॥१॥
प्रेतप उवाच
पश्येमान्निरयान्घोरान्धनेश्वर महाभयान्
येषु पापकरा नित्यं पच्यंते यमकिंकरैः ॥२॥
तप्तवालुकनामायं निरयो घोरदर्शनः
यस्मिन्नेते दग्धदेहाः क्रंदंते पापकारिणः ॥३॥
अतिथीन्वैश्वदेवान्ते क्षुत्क्षामानागतान्गृहे
ये नार्चंति नरास्ते हि पच्यंते स्वेन कर्मणा ॥४॥
गुर्वग्निब्राह्मणान्देवांस्तथा मूर्द्धाभिषिक्तकान्
ताडयंति पदा ये वै ते निर्दग्धांघ्रयस्त्विमे ॥५॥
षड्भेदस्त्वेषनिरयो नानापापैः प्रपद्यते
तथैव चांधतामिस्रो द्वितीयो निरयो महान् ॥६॥
पश्य सूचीमुखैर्देहो भिद्यते पापकर्मणा
क्रिमिभिर्घोरवक्त्रैश्च तत्संपर्कागमैर्द्विज ॥७॥
असावपि स्थितः षोढा श्वकाकमृगपक्षिभिः
परमर्मभिदो मर्त्याः पच्यंते तेषु पापिनः ॥८॥
तृतीयः क्रकचो ह्येष निरयो घोरदर्शनः
यत्रेमे क्रकचैर्मर्त्याः पाट्यंते पापकारिणः ॥९॥
असिपत्रवनाद्यैस्तु षट्प्रकारो व्यवस्थितः
पत्नीपुत्रादिभिर्ये वै वियोगं कारयंति हि ॥१०॥
इष्टैरन्यैरपि परान्पच्यंते त इमे नराः
असिपत्रैश्छिद्यमाना छेदभीत्या पलायिताः ॥११॥
पच्यंते पापिनः पश्य क्रंदमाना इतस्ततः
अर्गलाख्यो महाघोरश्चतुर्थो निरयो ह्ययम् ॥१२॥
पश्य नानाविधैः पाशैराबध्य यमकिंकरैः
मुद्गराद्यैर्वध्यमानाः क्रंदंते ते च पापिनः ॥१३॥
सज्जनान्ब्राह्मणाद्यांश्च विरुंधंतीह ये नराः
कंठग्रहाद्यैस्ते पापाः पच्यंते यमकिंकरैः ॥१४॥
असावपि हि षड्भेदो वधभेदादिभिः स्थितः
कूटशाल्मलिनामानं निरयं पश्य पंचमम् ॥१५॥
यत्रांगारनिभा एते शाल्मल्याद्याः स्थिता द्विज
यत्र षोढा विपच्यंते यातनाभिरिमे नराः ॥१६॥
परदारा परद्रव्य परद्रोह रताः सदा
रक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम् ॥१७॥
अधोमुखा विपच्यंते यत्र पापकृतो नराः
अभक्ष्यभक्षका निंदा पैशुन्यादि रता इमे ॥१८॥
भज्यमाना वध्यमानाः क्रंदंते भैरवान्स्वरान्
षट्प्रकारैर्विगंधाढ्यैरसावपि च संस्थितः ॥१९॥
कुंभीपाकः सप्तमोऽयं निरयो घोरदर्शनः
षोढास्तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय ॥२०॥
महापातकिनो यत्र क्वथ्यंते यमकिंकरैः
बहून्यब्दसहस्राणि सोन्मज्जननिमज्जनैः ॥२१॥
चत्वारिंशन्मितानेतान्द्व्यधिकान्पश्य रौरवान्
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ॥२२॥
आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्
चतुरशीतिसंख्याकैः पृथग्भेदैरवस्थितान् ॥२३॥
यत्प्रकीर्णमपांक्तेयं मलिनीकरणं तथा
ज्ञातिभ्रंशकरं तद्वदुपपातकसंज्ञकम् ॥२४॥
अतिपापं महापापं सप्तधा पातकं स्मृतम्
एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम् ॥२५॥
कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव
तत्पुण्योपचयादेते निर्हृता निरयाः खलु ॥२६॥
श्रीकृष्ण उवाच
दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत्
धनेश्वरं यक्षलोकं पश्चादासीत्स तत्र हि ॥२७॥
धनदस्यानुगः सोऽयं धनयक्षेति स स्मृतः
यदाख्यायाकरोत्तीर्थमयोध्यायां तु गाधिजः ॥२८॥
एवं प्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो मुक्तिकरश्च यस्मात्
प्रयात्यनेकार्जितपातकोऽपि व्रतस्थसंदर्शनतोऽपि मुक्तिम् ॥२९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये धनेश्वरोपाख्याने चतुर्दशाधिकशततमोऽध्यायः ॥११४॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP