संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १२७ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १२७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२७ Translation - भाषांतर कार्तवीर्य उवाचहेतुना केन विप्रर्षे माघस्नाने महाद्भुतःप्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत ॥१॥गतपापो यदेकेन द्वितीयेन दिवं गतःवैश्योऽसौ माघपुण्येन ब्रूहि मे तत्कुतूहलम् ॥२॥दत्तात्रेय उवाचनिसर्गात्सलिलं मेध्यं निर्मलं शुचिपांडुरम्मलहं पुरुषव्याघ्र द्रावकं दाहनाशनम्तारकं सर्वभूतानां पोषणं जीवनं च यत् ॥३॥आपो नारायणोदेवः सर्ववेदेषु पठ्यतेग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशीमासानां च तथा माघः श्रेष्ठः सर्वेषु कर्मसु ॥४॥मकरस्थे रवौ माघे प्रातः काले तथाऽमलेगोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥५॥योगोऽयं दुर्लभो राजंस्त्रैलोक्ये सचराचरेअस्मिन्योगे त्वशक्तोऽपि स्नायाद्यदि दिनत्रयम् ॥६॥दद्यात्किंचिदशक्तोऽपि दरिद्राभाववांच्छयात्रिस्नानेनापि माघस्य धनिनो दीर्घजीविनः ॥७॥पंच वा सप्त वाहानि चंद्रवद्वर्धते फलम्संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम् ॥८॥सत्कार्यास्तिथयः सर्वा स्नानदानादि कर्मसुकर्तारं दापयंतीह ह्यक्षयं शाश्वतं पदम् ॥९॥तस्मान्माघे बहिः स्नायादात्मनो हितकाम्ययाअथातः संप्रवक्ष्यामि माघस्नानविधिं परम् ॥१०॥कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैःफलातिशयहेतोर्वै किंचिद्भोज्यं त्यजेद्बुधः ॥११॥भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम्त्रिकालं चार्चयेद्विष्णुं वासुदेवं सनातनम् ॥१२॥दातव्यो दीपकोऽखंडो देवमुद्दिश्य माधवम्इंधनं कंबलं वस्त्रमुपानत्कुंकुमं घृतम् ॥१३॥तैलं कार्पासकोष्ठं च तूलीं तूलवटीं पटीम्अन्नं चैव यथाशक्ति देयं माघे नराधिप ॥१४॥सुवर्णं रत्तिकामात्रं दद्याद्वेदविदे तथातद्दानमक्षयं राजन्समुद्र इव सर्वदा ॥१५॥परस्याग्निं न सेवेत त्यजेच्चैव प्रतिग्रहम्माघांते भोजयेद्विप्रान्यथाशक्ति नराधिप ॥१६॥देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छताएकादशीविधानेन माघस्योद्यापनं तथा ॥१७॥कर्तव्यं श्रद्दधानेन ह्यक्षय्य स्वर्गवांछयाअनंतपुण्यावाप्त्यर्थं विष्णुसंप्रीतिहेतवे ॥१८॥मकरस्थे रवौ माघे गोविंदाच्युतमाधवस्नानेनानेन भो देव यथोक्तफलदो भव ॥१९॥इति मंत्रं समुच्चार्य स्नायान्मौनी समाहितःवासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः ॥२०॥गृहेऽपि सजलं कुंभं वायुना निशिपीडितम्तत्स्नानं तीर्थसदृशं सर्वकामफलप्रदम् ॥२१॥तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितम्तत्स्नानस्य प्रभावेण नरो न निरयं व्रजेत् ॥२२॥तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैःषडब्दफलदं तद्धि मकरस्थे दिवाकरे ॥२३॥बहिः स्नानं तु वाप्यादौ द्वादशाब्दफलं स्मृतम्तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणम् ॥२४॥शतधा देवखातेषु शतधा तु महानदेशतं चतुर्गुणं राजन्महानद्याश्च संगमे ॥२५॥सहस्रगुणितं सर्वं तत्फलं मकरे रवौगंगायां स्नानमात्रेण लभते मानवो नृप ॥२६॥गंगायां येऽवगाहंति माघमासे नृपोत्तमचतुर्युगसहस्रं तु न पतंति सुरालयात् ॥२७॥दिनेदिने सहस्रं तु सुवर्णानां विशांपतेतेन दत्तं तु गंगायां यो माघे स्नाति मानवः ॥२८॥शतेन गुणितं माघे सहस्रं राजसत्तमनिर्दिष्टमृषिभिः स्नानं गंगायामुनसंगमे ॥२९॥पापौघभूरिभारस्य दाहार्थे च प्रजापतिःप्रयागं विदधे भूप प्रजानां च हिते स्थितः ॥३०॥शृणु स्थानमिदं सम्यक्सितासित जलं किलपापरूप पशूनां च ब्रह्मणा विहितं पुरा ॥३१॥सितासितजले मज्जेदपि पापशतान्वितःमकरस्थे रवौ माघे नैव गर्भेषु मज्जति ॥३२॥सूनारतोऽपि यो मर्त्यः प्रयागे स्नानमाचरेत्माघेमासि नरव्याघ्र स याति परमंपदम् ॥३३॥सितासिता तु या धारा सरस्वत्याविगर्भितातन्मार्गं विष्णुलोकस्य सृष्टिकर्ता ससर्ज वै ॥३४॥दुस्तरा वैष्णवी माया देवैरपि सुदुर्जयाप्रयागे दह्यते सा तु माघे मासि नराधिप ॥३५॥तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशःपश्चाच्चक्रिणि लीयंते प्रयागे माघ मज्जनात् ॥३६॥उपस्पृशति यो माघे मकरार्के सितासितेन तत्पुण्यं च संख्यातुं चित्रगुप्तोऽपि वेत्यलम् ॥३७॥सन्निमज्जति यो माघे मकरस्थ सितासितेतस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्मापि न क्षमः ॥३८॥संवत्सरशतं साग्रं निराहारस्य यत्फलम्प्रयागे माघमासे तु त्र्यहस्नानस्य तत्फलम् ॥३९॥स्वर्णभारसहस्रेण कुरुक्षेत्ररविग्रहेयत्फलं लभते माघे वेण्याः स्नानाद्दिने दिने ॥४०॥राजसूयसहस्रस्य राजन्नविकलं फलम्सितासिते तु माघे च स्नानानां भवति ध्रुवम् ॥४१॥पृथिव्यां यानि तीर्थानि पुर्यः सप्त च याः पुनःवेण्यां स्नातुं समायांति माघेमासि नृपोत्तम ॥४२॥सर्वतीर्थानि कृष्णानि पापिनां संगदोषतःभवंति शुक्लवर्णानि प्रयागे माघमज्जनात् ॥४३॥आकल्पसंचितं पापं जन्मभिर्यन्नरैर्नृपतद्भवेद्भस्मसान्माघे स्नातानां च सितासिते ॥४४॥वाङ्मनःकायजं पापं नरस्य विलयं व्रजेत्प्रयागे माघमासे तु त्र्यहस्नातस्य निश्चितम् ॥४५॥प्रयागे माघमासे यस्त्र्यहं स्नाति च मानवःपापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवोरगः ॥४६॥कुरुक्षेत्रसमा गंगा यत्रकुत्रावगाहितातस्माद्दशगुणा पुण्या यत्र विंध्येन संगता ॥४७॥तस्माच्छतगुणा गंगा काश्यामुत्तरवाहिनीकाश्याः शतगुणाः प्रोक्ता गंगायामुनसंगमे ॥४८॥सा सहस्रगुणा तासां भवेत्पश्चिमवाहिनीया राजन्दर्शनादेव ब्रह्महत्यापहारिणी ॥४९॥या पश्चाद्वाहिनी गंगा कालिंद्या सह संगताहंति कोटिकृतं पापं सा माघे नृप दुर्लभा ॥५०॥यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तितातस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम् ॥५१॥ब्रह्माविष्णुर्महादेवो रुद्रादित्यमरुद्गणाःगंधर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः ॥५२॥अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनःब्रह्माणी पार्वती लक्ष्मीः शची मेनादितिर्दितिः ॥५३॥सर्वास्ता देवपत्न्यश्च तथा नागांगना नृपघृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥५४॥गणा ह्यप्सरसां सर्वे पितॄणां च गणास्तथास्नातुमायांति ते सर्वे माघे वेण्यां नराधिप ॥५५॥कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणःप्रयागे माघमासे तु त्र्यहस्नानस्य यत्फलम् ॥५६॥नाश्वमेधसहस्रेण तत्फलं लभते भुवित्र्यहस्नानफलं माघे पुरा कांचनमालिनी ॥५७॥राक्षसाय ददौ भूप तेन मुक्तः स पापकृत्कार्तवीर्य उवाचभगवन्राक्षसः कोऽसौ सा का कांचनमालिनी ॥५८॥कथं दत्तवती धर्मं कथं वा तस्य सद्गतिःएतत्कथय योगींद्र अत्रिसंतानभास्करयदि त्वं मन्यसे श्राव्यं परं कौतूहलं हि मे ॥५९॥दत्तात्रेय उवाचशृणु राजन्विचित्रं त्वमितिहासं पुरातनम्यस्य स्मरणमात्रेण वाजपेयफलं लभेत् ॥६०॥अप्सरारूपसंपन्ना नाम्ना कांचनमालिनीप्रयागे माघमासे सा स्नात्वा याति हरालयम् ॥६१॥निकुंजे गिरिराजस्य तिष्ठता गिरिरूपिणादृष्टा गगनमारूढा तेन वृद्धेन रक्षसा ॥६२॥तेजस्विनी सुहेमाभा सुश्रोणी दीर्घलोचनाचंद्रानना सुकेशी च पीनोन्नतपयोधरा ॥६३॥तां दृष्ट्वा रूपसंपन्नामुवाच राक्षसस्तदाका त्वं कमलपत्राक्षि कुत आगम्यते त्वया ॥६४॥आर्द्रं च वसनं कस्मात्सार्द्रा ते कबरी कुतःकुत्र आगम्यते भीरु कुतस्ते खेचरी गतिः ॥६५॥केन पुण्येन वा भद्रे तव तेजोमयं वपुःअतीवरूपसंपन्नं संभूतं च मनोहरम् ॥६६॥त्वद्वस्त्रबिंदुपातेन मम मूर्ध्नि सुलोचनेक्षणेन ह्यगमच्छांतिं क्रूरं मे मानसं सदा ॥६७॥नीरस्य महिमा कोऽयमेतद्व्याख्यातुमर्हसित्वं मे शीलवती भासि नाकृतिर्निर्गुणा भवेत् ॥६८॥अप्सरा उवाचश्रूयतामप्सराश्चाहं भो रक्षः कामरूपिणीप्रयागतश्चागताऽहं नाम्ना कांचनमालिनी ॥६९॥आर्द्रः परिकरोमेऽतः सुस्नाताऽहं सितासितेगंतव्यं तु मया रक्षः कैलासे तु नगोत्तमे ॥७०॥तत्रास्ते पार्वतीनाथः सुरासुरसुपूजितःवेणीवारिप्रभावेण रक्षस्ते क्रूरता गता ॥७१॥जाताहं येन पुण्येन गंधर्वस्य सुमेधसःकन्यका दिव्यरूपा तु तत्सर्वं कथयामि ते ॥७२॥कलिंगाधिपते राज्ञस्त्वहमासीच्च वेश्यकारूपलावण्यसंपन्ना सौभाग्यमदगर्विता ॥७३॥अन्यासां युवतीनां च तत्पुरेऽहं शिरोमणिःतज्जन्मनि मया रक्षो भुक्त्वा भोगान्यथेच्छया ॥७४॥मोहितं तत्पुरं सर्वं मया यौवनसंपदारत्नानि च विचित्राणि भूषणानि धनानि च ॥७५॥वासांसि चित्ररूपाणि कर्पूरागुरुचंदनम्एतच्चोपार्जितं सर्वं मया मोहनरूपया ॥७६॥नाहं जानामि हेम्नोंतं स्वनिवासे निशाचरसंसेवंते युवानो मे चरणौ कामपीडिताः ॥७७॥मया ते वंचिताः सर्वे सर्वस्वेन तु माययाअन्योन्यस्पर्धाभावेन मृताः केचित्तु कामिनः ॥७८॥इत्थं तन्नगरे रम्ये सकले मे गतिस्तदाप्राप्ते तु वार्द्धके काले शुशोच हृदयं ममन दत्तं न हुतं जप्तं न व्रतं चरितं मया ॥७९॥नाराधितो मया देवश्चतुर्वर्गफलप्रदःन मया पूजिता देवी दुर्गा दुर्गतिनाशिनीसर्वपापहरो विष्णुर्न स्मृतो भोगलुब्धया ॥८०॥न च संतर्पिता विप्रा न कृतं प्राणिनां हितम्अणुमात्रमिदं पुण्यं न कृतं च प्रमादतः ॥८१॥पातकं तु कृतं भद्र तेन मे दह्यते मनःबहुधैवं विलप्याहं ब्राह्मणं शरणं गता ॥८२॥ब्रह्मण्यं वेदविद्वांसं तस्य राज्ञः पुरोहितम्स हि पृष्टो मया रक्षः कथं मे निष्कृतिर्भवेत् ॥८३॥पापस्यास्य द्विजश्रेष्ठ कथं यास्यामि सद्गतिम्स्वेनैव कर्मणा तप्तां वराकीं दीनमानसाम् ॥८४॥पापपंकनिमग्नां त्वं मामुद्धर कचग्रहैःमयि कारुण्यंजं वारि वर्षहर्षदृशा द्विज ॥८५॥सज्जने साधवः सर्वे साधुः साधुरसज्जनेइत्यसौ मद्वचः श्रुत्वा चकारानुग्रहं मयि ॥८६॥द्विज उवाचनिषिद्धाचरणं जाने सर्वं तेऽहं वराननेकुरु मे सत्वरं वाक्यं याहि क्षेत्रं प्रजापते ॥८७॥तत्र गत्वा कुरु स्नानं तेन पापक्षयस्तवसर्वं मनोगतं भद्रे त्वदीयं शोचितं मया ॥८८॥नाहमन्यत्प्रपश्यामि यत्ते पापप्रणाशनम्प्रायश्चित्तं परं तीर्थे स्नानं च ऋषिभिः स्मृतम् ॥८९॥किंतु तीर्थे त्यजेद्भीरु मनसाप्यशुभं कृतम्प्रयागस्नानशुद्धा त्वं स्वर्गं यास्यसि निश्चितम् ॥९०॥प्रयागस्नानमात्रेण नृणां स्वर्गो न संशयःअन्यदेशकृतं पापं तत्क्षणादेव भामिनि ॥९१॥प्रयागे विलयं याति पापं तीर्थकृतं विनाशृणु भीरु पुरा शक्रो गौतमस्य मुनेर्वधूम् ॥९२॥दृष्ट्वा कामवशं प्राप्तस्तां गतो गुप्तकामुकःउग्रेण तेन पापेन तदैव जनितं फलम् ॥९३॥ऋषिस्त्रीगंतुरिंद्रस्य तस्याश्च पुरतस्तदाकुत्सितं गर्हितं जातमिति लज्जाकरं वपुः ॥९४॥तद्भर्तुः शापमाहात्म्यात्सहस्रभगचिह्नितम्अधोमुखस्ततो भूत्वा देवराजो विनिर्गतः ॥९५॥निनिंद स्वकृतं कर्म सोऽभिभूतः सलज्जितःमेरोः शिरसि तोयाढ्ये शतयोजनविस्तृते ॥९६॥तत्र गत्वा प्रविष्टस्तु हेमांभोरुहकोरकेतत्रस्थो गर्हयन्नित्यमात्मानं मन्मथं तथा ॥९७॥धिक्तां कामात्मतां लोके सद्यः पातकदायिनीम्यया हि नरकं याति सर्वलोकविगर्हितः ॥९८॥आयुः कीर्तिर्यशोधर्म धैर्य ध्वंसकरी तथाधिङ्मन्मथं दुराचारमापदां नियतं पदम् ॥९९॥देहस्थं दुर्दमं शत्रुमसंतुष्टं सदावशम्इत्थंवादिनि प्रच्छन्ने वासवे पद्मसद्मनि ॥१००॥आखंडलं विना भीरु देवलोको न शोभतेततो देवाः सगंधर्वा लोकपालाः सकिन्नराः ॥१०१॥शच्या सह समागम्य पप्रच्छुस्ते बृहस्पतिम्भगवन्बलभिद्देवं नैव जानीमहे वयम् ॥१०२॥क्व तिष्ठति गतः कुत्र कुत्र वा मृगयामहेन नाकः शोभते तेन विना देवगणैः सह ॥१०३॥सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम्उपायश्चिंत्यतां सद्यः स्वर्लोके येन शोभते ॥१०४॥सनाथः सुश्रियायुक्तो न विलंबोऽत्र युज्यतेइति तेषां वचः श्रुत्वा गुरुर्वचनमब्रवीत् ॥१०५॥जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठतिरभसा लब्धकार्यस्य भुंक्ते स मघवा फलम् ॥१०६॥नृणां नीतिपरित्यागाद्विपाकाः स्युर्भयंकराःअहो राज्यमदैर्मत्तः कृत्याकृत्यमचिंतयन् ॥१०७॥कृतवान्निंद्यमानं हि दृष्टादृष्टक्षयंकरम्कुर्वंति बालिशा यत्र दैवोपहतबुद्धयः ॥१०८॥अपराधाद्यथाजन्म स्यादिहामुत्र निष्फलम्अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति ॥१०९॥इत्युक्त्वा निर्गताः सर्वे बृहस्पतिपुरोगमाःदृष्ट्वा सरसि विस्तीर्णे स्वर्णपंकजकाननम् ॥११०॥तुष्टुवुर्देवराजानं प्रबोधो येन जायतेततो गुरोः प्रबोधेन निर्गतः पद्मकुड्मलात् ॥१११॥दीनाननो विरूपस्तु व्रीडाकुंचितलोचनःजग्राह चरणाविंद्रो गुरोस्तस्याग्रजन्मनः ॥११२॥त्राहि मां निष्कृतिं ब्रूहि पापस्यास्य बृहस्पतेदेवराजवचः श्रुत्वा जगौ विप्रो बृहस्पतिः ॥११३॥शृणु देवेंद्र वक्ष्येऽहमुपायं पापनाशनम्प्रयागस्नानमात्रेण तत्क्षणादेव पातकात् ॥११४॥मुच्यसे देवराजत्वं तत्र यामः सहैव तेअथ पुरोधसा सार्धमागत्य बलमर्दनः ॥११५॥सस्नौ सितासिते तीर्थे सद्यो मुक्तो ह्यघैस्ततःअथ देवगुरुस्तस्मै प्रसन्नस्तु वरं ददौ ॥११६॥प्रयागस्नानमात्रेण क्षीणं पापं त्वयानघक्षीणपापस्य ते शक्र मत्प्रसादेन सत्वरम् ॥११७॥सहस्रमेतद्योनीनां सहस्रं स्याद्दृशां तवतदैव द्विजवाक्येन शुशुभे च शचीपतिः ॥११८॥लोचनानां सहस्रेण पंकजैरिव मानसम्अथ वृंदारकैः सर्वैरृषिभिश्चाभिपूजितः ॥११९॥गंधर्वैः स्तूयमानस्तु गतः शक्रोऽमरावतीम्इत्थं सद्यो विपापोऽभूत्प्रयागे पाकशासनः ॥१२०॥याहि त्वमपि कल्याणि प्रयागं देवसेवितम्सद्यः पापविनाशाय तथा स्वर्गतये दृढम् ॥१२१॥इति तस्य वचः श्रुत्वा सेतिहासं समंगलम्तदैव संभ्रमापन्ना नत्वा पादौ द्विजस्य तु ॥१२२॥त्यक्त्वा बंधुजनं सर्वं दासदासीगृहं तथासकलान्विषयान्रक्षो विषग्रासानिव स्फुटम् ॥१२३॥वपुश्च क्षणविध्वंसि पश्यंती निर्गता ह्यहम्नरकार्णवसंपात दारुणांतर वह्निना ॥१२४॥हृदये कुणपव्याघ्र तदा तत्तप्यमानयामया गत्वा कृतं स्नानं माघे मासि सितासिते ॥१२५॥तस्य स्नानस्य माहात्म्यं शृणु वृद्धनिशाचरत्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः ॥१२६॥शेषैर्मे यदभूत्पुण्यं तेन देवत्वमागतारममाणा तु कैलासे गिरिजायाः प्रिया सखी ॥१२७॥जातिस्मरा तथा जाता प्रयागस्य प्रभावतःस्मृत्वा प्रयागमाहात्म्यं माघे माघे व्रजाम्यहम् ॥१२८॥इति राक्षस यत्पृष्टं त्वया विस्मितचेतसातन्मया कथितं सर्वं चरितं प्रीतये तव ॥१२९॥मत्प्रीतये चरित्रं स्वं त्वं ब्रूहि मम राक्षसकर्मणा केनजातोऽसि विरूपोऽतिभयंकरः ॥१३०॥श्मश्रुलो दीर्घदंष्ट्रंश्च क्रव्यादो गिरिगह्वरेराक्षस उवाचइष्टं ददाति गृह्णाति गुह्यं वदति पृच्छति ॥१३१॥प्रीत्या हि सज्जनो भद्रे तच्च सर्वं त्वयि स्थितम्त्वया संभावितो नूनं मन्येऽहं वामलोचने ॥१३२॥भाविनी निष्कृतिः सद्यस्त्वयास्य क्रूरकर्मणःअतो वक्ष्यामि ते भद्रे दुष्कृतं यत्स्वयंकृतम् ॥१३३॥निवेद्य सज्जने दुःखं ततः सर्वसुखी भवेत्शृणु सुश्रोण्यहं काश्यां बह्वृचो वेदपारगः ॥१३४॥जातः पुरा द्विजः श्रेष्ठः कुले महति निर्मलेराज्ञां दुष्कृतिनां भीरु शूद्राणां च तथा विशाम् ॥१३५॥वाराणस्यां कृतो घोरो मया दुष्टप्रतिग्रहःबहुधा बहुधा वारं निषिद्धः कुत्सितो बहु ॥१३६॥चांडालस्यापि न त्यक्तो मया दुष्टप्रतिग्रहःअन्यच्च पातकं तत्र ममाभून्मूढचेतसःतन्नास्ति दुष्कृतं कर्म मया यत्र न यत्कृतम् ॥१३७॥अन्यच्च श्रूयतां दोषः क्षेत्रस्य वरवर्णिनिअविमुक्तेऽणुमात्रं यत्तदघं मेरुतां व्रजेत्न धर्मस्तु मया कश्चित्संचितस्तत्र जन्मनि ॥१३८॥ततो बहुतिथे काले मृतस्तत्रैव शोभनेअविमुक्तप्रभावेण न चाहं नरकं गतः ॥१३९॥अविमुक्ते मृतः कश्चिन्नरकं नेति किल्बिषीअविमुक्ते कृतं किंचित्पापं वज्री भवेद्दृढम् ॥१४०॥वज्रलेपेन पापेन तेन मे जन्म राक्षसम्रौद्रं क्रूरतरं पापं संभूतं हिमपर्वते ॥१४१॥द्विर्जातो गृध्रयोनौ प्राक्त्रिर्व्याघ्रो द्विः सरीसृपःएकवारमुलूकस्तु विड्वराहस्ततः परम् ॥१४२॥इदं तु दशमं जन्म राक्षसं मम भामिनीअतीतानि सहस्राणि वर्षाणि मम जन्मनः ॥१४३॥नास्ति मे निष्कृतिर्भद्रे एतस्माद्दुःखसागरात्अत्र त्रियोजनं सुभ्रूर्निर्जंतु हि मया कृतम् ॥१४४॥अनागसां च भूतानां बहूनां च कृतः क्षयःकर्मणा तेन मे सुभ्रूर्दह्यते सततं मनः ॥१४५॥त्वद्दर्शनसुधासिक्तं गतं शैत्यं मनो ममतीर्थं फलति कालेन सद्यः साधुसमागमः ॥१४६॥अतः सत्संगतिं सुभ्रूः प्रशंसंति मनीषिणःएतत्ते कथितं सर्वं स्वदुःखं हृद्गतं मया ॥१४७॥विरलः सज्जनः सुभ्रूः स्वात्मा यस्य न खिद्यतेजानास्यत्रोचितं त्वं हि किंचिन्नो वच्म्यतः परम् ॥१४८॥अस्य दुःखोदधेः पारं कथं यामीति चिंतयन्सज्जनानां समा भूतिः सर्वेषामुपजीवनम् ॥१४९॥क्षीरार्णवः पयो दत्ते हंसाय न बकाय किम्दत्तात्रेय उवाचइति तस्य वचः श्रुत्वा दयार्द्रीकृतमानसा ॥१५०॥धर्मदाने मतिं कृत्वा जगौ कांचनमालिनीकरिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः ॥१५१॥प्रतिज्ञां तु दृढां कृत्वा यतिष्ये तव मुक्तयेबहवो हि कृता माघा वर्षे वर्षे यथाविधि ॥१५२॥श्रद्धापूर्वं मया भद्र ब्रह्मक्षेत्रे सितासितेतां वदामि तु संख्यातिं तस्य धर्मस्य राक्षस ॥१५३॥गूढो धर्मो हि कर्तव्य इत्यूचुर्विबुधा जनाःआर्ते दानं प्रशंसंति मुनयो वेदवादिनः ॥१५४॥सागरे वर्षतो भद्र किं मेघस्य फलं भवेत्अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलम् ॥१५५॥तत्तु दास्यामि ते मित्र सद्यः पापविनाशनम्निष्पीड्याथ ततो वस्त्रं जलं कृत्वा करांबुजे ॥१५६॥ददौ सा माघजं पुण्यं तस्मै वृद्धाय रक्षसेशृणु राजन्विचित्रं हि प्रभावं माघधर्मजम् ॥१५७॥तदैवं प्राप्य तत्पुण्यं विमुक्ता राक्षसी तनुःसंभूतो देवताकारस्तेजो भास्करविग्रहः ॥१५८॥देवयानं समारूढः सहर्षोत्फुल्ललोचनःद्योतमानस्तदा व्योम्नि भासयन्प्रभया दिशः ॥१५९॥दिव्यरूपधरो रेजे द्वितीय इव भास्करःततोऽभिनंदयामास सतां कांचनमालिनीम् ॥१६०॥भद्रे वेत्तीश्वरो देवः कर्मणां यः फलप्रदःतत्त्वयोपकृतं सर्वं यत्र मे नास्ति निष्कृतिः ॥१६१॥इदानीमपि कारुण्यात्प्रसीदानुग्रहं कुरुशिक्षां विधेहि मे देवि सर्वनीतिमयीं शुभाम् ॥१६२॥सर्वधर्मकरीं नूनं न कुर्वे पातकं यथातां श्रुत्वा त्वदनुज्ञातः पश्चाद्यामि सुरालयम् ॥१६३॥दत्तात्रेय उवाचएतन्निशम्य तेनोक्तं प्रियं धर्ममयं वचःअतिप्रीत्याब्रवीद्धर्मं राजन्कांचनमालिनी ॥१६४॥धर्मं भजस्व सततं त्यज भूतहिंसां सेवस्व साधुपुरुषान्जहि कामशत्रुम्अन्यस्य दोषगुणकीर्तनमाशु हित्वा सत्यं वदार्चय हरिं व्रज देवलोकम् ॥१६५॥देहेऽस्थिमांसरुधिरे स्वमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुंचपश्यानिशं जगदिदं क्षणभंगुरं हि वैराग्यभावरसिको भव योगनिष्ठः ॥१६६॥प्रीत्या मया निगदितं तव धर्ममार्गं चित्तो निधेहि सकलं भवशीलयुक्तःसंत्यज्य राक्षसतनुं धृतदेवदेहो ज्योतिर्मयो व्रज यथासुखमाशु नाकम् ॥१६७॥श्रुत्वाधर्मं ततो हृष्टः संतुष्टो राक्षसोऽब्रवीत्भवप्रमुदिता नित्यं सर्वदा शिवमस्तु ते ॥१६८॥आचन्द्रार्कं रमस्व त्वं कैलासे शिवसन्निधौउमयाऽखंडितं प्रेम तवास्तु वरवर्णिनि ॥१६९धर्मनिष्ठा तपोनिष्ठा मातस्त्वं भव सर्वदामास्तु लोभः शरीरे ते आपन्नार्ति सदा हर ॥१७०॥इत्युक्त्वा तु प्रणम्याथ सतां कांचनमालिनीम्जगाम राक्षसः स्वर्गं गंधर्वैर्बहुभिः स्तुतः ॥१७१॥देवकन्यास्तदागत्य ववर्षुः पुष्पवृष्टिभिःतस्याः कांचनमालिन्या मूर्ध्नि हर्षसमाकुलाः ॥१७२॥तामालिंग्य ततः प्रोचुः कन्यकास्तु प्रियं वचःकृतं भद्रे त्वया चित्रं राक्षसस्य विमोक्षणम् ॥१७३॥दुष्टस्यास्य भयात्कश्चिद्विशत्यस्मिन्न काननेअधुना निर्भया ह्यत्र विचरामो यथासुखम् ॥१७४॥श्रुत्वा तद्वचनं राजंस्तासां कांचनमालिनीहृष्टा तेनैव दानेन कृतकृत्या तदा सती ॥१७५॥तं राक्षसं कांचनमालिनीवरा गन्धर्वकन्या परिमोच्य सत्वरम्क्रीडंत्यमूभिः प्रययौ हरालयं प्रीत्या सपूर्णा च परोपकारया ॥१७६॥संवादमेनं वरकन्यकेरितं भक्त्या परं यः शृणुयाच्च मानवःन बाध्यते जातु सदा स राक्षसैर्धर्मे मतिस्तस्य भृशं हि जायते ॥१७७॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे माघमासमाहात्म्ये दिलीपवसिष्ठसंवादे राक्षसमोक्षोनाम सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP