संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २३०

उत्तरखण्डः - अध्यायः २३०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच-
भगवन्यत्रदेवेशो राक्षसान्मधुसूदनः
जघान केन रूपेण यथावद्वक्तुमर्हसि ॥१॥
वैभवं च स्थवीयस्य मत्स्यकूर्म्मादिरूपकम्
विस्तरेण समाख्याहि मम प्रीत्या महेश्वर ॥२॥
महादेव उवाच-
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा
मत्स्यकूर्म्मादि यद्रूपमवतारात्मकं हरेः ॥३॥
दीपादुत्पाद्यते दीपो यथावत्तद्भविष्यति
परावस्थापरेशस्य सव्यूहा विभवादयः ॥४॥
उक्ता देवावतारास्तु विविधाकारकाः शुभाः
अर्च्चावतारा देवस्य वैभवाः परमात्मनः ॥५॥
प्राजापत्येन वै ब्रह्मा स सम्राट्परमोत्सवः
भृगुं मरीचिमत्रिं च दक्षं कर्द्दममेव च ॥६॥
पुलस्त्यं पुलहं चैव गिरिशं च तथा क्रतुम्
नवप्रजानां पतय इमे प्रोक्ता यथाक्रमम् ॥७॥
मरीचिर्भगवांस्तत्र जनयामास कश्यपम्
कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने ॥८॥
अदितिश्च दितिश्चैव कद्रुश्च विनता तथा
अदितिर्जनयामास देवांस्तु शुभदर्शनान् ॥९॥
दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान्
शंबूकस्तु हयग्रीवो हिरण्याक्षो महाबलः ॥१०॥
हिरण्यकशिपुर्जंभो मयाद्याः सुमहातपाः
मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ॥११॥
ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान्
ग्रसित्वा च श्रुतिं सोऽथ प्रविवेश महार्णवम् ॥१२
ततः सर्वं जगच्छून्यमभवद्धर्मसंकरः
नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम् ॥१३॥
ततः प्रजापतिर्देवः सर्वदेवगणैर्वृतः
गत्वा दुग्धांबुधिं देवं तुष्टाव शरणं गतः ॥१४॥
ब्रह्मोवाच-
प्रसीद देव मे नाथ नागपर्यंकसंस्थित
सर्वेश सर्वदेवात्मन्सर्ववेदमयाच्युत ॥१५॥
आद्यं जगद्भुवो बीजं मध्ये त्वं सर्वतोऽधिकः
अंते च पशुनाथस्त्वं स्वेच्छया तस्तमेव च ॥१६॥
त्वमेव धत्से चिद्रूपं जगत्सर्वं सनातनम्
त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोऽव्ययः ॥१७॥
त्वमादिमध्यांतवपुर्जगतः परमेश्वरः
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ॥१८॥
भूतादिस्त्वं महद्भूतं भूतसंघस्य कारणम्
त्वमेव कारणमाश्रित्य रमते धाम आत्मवान् ॥१९॥
त्वमादिभूतश्चांतस्त्वं त्वं वायुः सर्व्वगो महान्
त्वमादिस्त्वमनादिश्च त्वमग्निस्तेजसां निधिः ॥२०॥
त्वमापः सर्व्वजगतां जीवनं परमेश्वरः
त्वं भूमिर्जगदाधारो भूधरस्त्वं महामते ॥२१॥
सरितं सागरस्त्वं वै सर्व्वस्यादिस्त्वमेव च
देवर्षिः सर्वभूतानि त्वमेव पुरुषोत्तम ॥२२॥
त्वयैव प्रेरिता लोकाश्चेष्टंते साध्वसाधुषु
दैत्येनोपद्रुता वेदाः प्रविष्टा महदर्णवम् ॥२३॥
वेदाधारमिदं सर्व्वं जगत्स्थावरजंगमम्
वेदाश्चैव हि सर्व्वेषां धर्माणां परितः स्थितिः ॥२४॥
वेदेषु सर्वदेवानां नित्यतृप्तिर्भविष्यति
तस्माद्वेदान्समानेतुं त्वमेवार्हसि केशव ॥२५॥
श्रीमहादेव उवाच-
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः
मत्स्यरूपं समास्थाय प्रविवेश महोदधिम् ॥२६॥
तं दैत्यं सुमहाघोरं माकरंरूपमास्थितः
तुण्डाग्रेण विदार्याथ जघानामरपूजितं ॥२७॥
तं हत्वा सर्ववेदांश्च साङ्गोपाङ्गसमन्वितान्
गृहीत्वा प्रददौ तस्मै ब्रह्मणे स महाद्युतिः ॥२८॥
अन्योन्यमिश्रिता वेदा ग्रसितास्तेन रक्षसा
व्यक्ता भगवता तेन व्यासरूपेण धीमता ॥२९॥
पृथग्भूता समं वेदा व्यासेनैव महात्मना
एवं मत्स्यावतारेण रक्षिताः सर्व्वदेवताः ॥३०॥
श्रुतिप्रदानेन जगत्त्रयं तदा कृत्वा निरातंकमहो रमाधवः
संस्तूयमानः सुरसिद्धसंघैरंतर्दधे योगिभिरर्च्चितांघ्रिः
वासुदेवो हि भवगान्सर्वदेवमयो हरिः ॥३१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे उमामहेश्वर
संवादे मत्स्यावतारवर्णनंनाम त्रिंशदधिकद्विशततमोऽध्यायः ॥२३०॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP