संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६

उत्तरखण्डः - अध्यायः १६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच
कथं जालंधरो गौरीं हररूपधरो मुने
दृष्ट्वा चकार किं तत्र तन्मे कथय विस्तरात् ॥१॥
नारद उवाच-
यदा मायाशिवस्तत्र प्रार्थयद्गिरिजां प्रति
ततः सा चुक्षुभे राजन्किंचिन्नोवाच तं प्रति ॥२॥
अनातुरस्य देवस्य प्राप्तस्य तपसा मया
न युक्तमिति निश्चित्य पार्वती नाह तं नृप ॥३॥
सा न तत्र प्रतीकारं दृष्ट्वा तस्य च पश्यतः
निर्गता तत उत्थाय ददर्शाकाशवाहिनीम् ॥४॥
गंगां वासोचितां मत्वा भवानी तपसे ययौ
पुरापि तपसा लब्धो मयेशः सांप्रतं तथा ॥५॥
इत्यव्रजच्चिंतयती सखीभिः सहिता ततः
पुरः क्षीरनिभां राजन्पार्वती गगनात्परम् ॥६॥
मंदाकिनीं ददर्शाथ पतंतीं मानसोत्तरे
हारमालामिवायांतीं विविक्तां गगनस्रजः ॥७॥
मंदाकिन्याः पयःपूरो ह्याकृष्टः स्वर्गतो यथा
श्रुतीनां पूरधारेव ब्रह्मणो वदनच्युता ॥८॥
दृष्ट्वा मुमोद तां गंगां स्नात्वा चालिसमन्विता
संपूज्य स्वतनुं पश्चान्निविष्टा स्वर्णदीतटे ॥९॥
परस्परमथालोक्य गौरी प्राह सखीं जयाम्
त्वं गच्छ मद्वपुः कृत्वा तत्समीपं सखी त्वरा ॥१०॥
जानीहि तत्वं किं शंभुर्यदि वान्यो भविष्यति
यद्यसौ त्वां समालिंग्य कुरुते चुंबनादिकम् ॥११॥
तदा मायां समास्थाय जानीह्यसुरमागतम्
यदि चेत्त्वां प्रतिब्रूयान्मन्निमित्तं शुभाशुभम् ॥१२॥
असंशयं पिनाकी स्यादत्रागत्य ब्रवीहि माम्
इत्यादिष्टा जया देव्या गता गंगाधरांतिकम् ॥१३॥
तामायांतीं स दृष्ट्वा च भृशं मन्मथपीडितः
चकारालिंगनं तस्या गौरीरूपेण भावयन् ॥१४॥
ततो जालंधरः सद्यो वीर्यं स्वं प्रमुमोचह
अल्पेंद्रियश्च संजातो वेगतः कुरुनंदन ॥१५
तया सप्रोदितो दैत्य न त्वं रुद्रो भविष्यसि
अल्पवीर्योऽधमाचारो नाहं गौरी हि तत्सखी ॥१६॥
इत्युक्त्वा निजमास्थाय रूपं सा प्राह तं पुनः
अनेन बत पापेन हतस्त्वं हि पिनाकिना ॥१७॥
इति ज्ञात्वा च सा प्राप्ता तत्र गत्वाब्रवीदुमाम्
देवि जालंधरो ह्येष न शंभुस्तव वल्लभः ॥१८॥
ततो भयार्ता हरवल्लभाभूद्द्रुतं विवेशाथ सरोजमध्ये
सख्यो भ्रमर्यः कमलेषु जाता भयेन जालंधरजेन राजन् ॥१९॥
अत्रांतरे वनगतामदृष्ट्वा तां नृपांगनाम्
भीतास्तु रक्षकास्तस्याः सत्वरं रणमाययुः ॥२०॥
ततः शुंभेन ते पृष्टास्तं नत्वोचुः ससाध्वसाः
आत्मनः परिहारार्थो विष्णुमित्यसुरेश्वरम् ॥२१॥
श्रुत्वा वृंदां हृतां त्रस्तो रुद्रात्त्यक्त्वाथ संगरम्
शुंभेन प्रेषितौ चंडमुंडौ जालंधरं प्रति ॥२२॥
मानसोत्तरमागत्य दानवौ वेगवत्तरौ
हररूपधरं दैत्यं ऊचतुर्विटपान्तरे ॥२३॥
किं तया नृपशार्दूल विदेशगतया श्रिया
अरयो यां न पश्यंति बंधुभिर्या न भुज्यते ॥२४॥
जितः शुंभो हतं सैन्यं देव रुद्रेण ते रणे
एह्येहि कुरु संग्रामं न त्वं प्राप्नोषि पार्वतीम् ॥२५॥
पंचाननस्य महिषीं कथं प्राप्नोति जंबुकः
अंधकारः कथं राजन्प्राप्नोति सवितुः प्रभाम् ॥२६॥
तव जालंधरात्पीठाद्धृता राज्ञी मुरारिणा
इति संश्रूयते वार्ता तस्मात्त्वं कुरु संगरम् ॥२७॥
रणे शर्वं विजित्याशु भव सर्वेश्वरेश्वरः
अथवा शिवनाराचैः खंडितो यासि तत्पदम् ॥२८॥
इति जालंधरः श्रुत्वा भाषितं चंडमुंडयोः
निःससार गिरेस्तस्मात्सक्रोधं रक्तलोचनः ॥२९॥
चंडमुंडौ समाश्वास्य त्यक्त्वा रूपं हरस्य च
गच्छञ्जालंधरो मार्गे दुर्वारणमुवाच ह ॥३०॥
पश्य दुर्वारणेदानीं तत्र यद्विष्णुना कृतम्
मायामाश्रित्य सा राज्ञी वृंदा नीतात्मनः पदम् ॥३१॥
गृहे स्थितस्य जामातुर्विश्वसेन्नैव बुद्धिमान्
नूनं तस्मै प्रदत्वा च कन्यकां विसृजेद्बुधः ॥३२॥
जामातरं गृहे नैव स्थापयेत्सर्वथा नरः
धनदारादिकं सर्वं स गृह्णाति शनैः शनैः ॥३३॥
दुर्वारण उवाच-
राजन्यत्क्रियते कर्म तत्तथैव तु भुज्यते
त्वं हर्तुमागतो गौरीं हरिणा ते हृता वधूः
तस्य स्पष्टं वचः श्रुत्वा क्षणं मौनी व्यचिंतयत् ॥३४॥
जालंधर उवाच-
किं प्रयामि हरं जेतुमथवा हरिमुल्बणम्
कार्यद्वये समुत्पन्ने यत्परं तत्प्रकथ्यताम् ॥३५॥
दुर्वारण उवाच-
यदि यासि हरिं जेतुं हरः पृष्ठे हनिष्यति
हनिष्यंति रणे शूरा यातुं रुद्रो न दास्यति ॥३६॥
तस्मात्पशुपतिं जित्वा कृत्वा त्वं वश्यमात्मनः
पश्चात्प्रयाहि गोविंदं यदि जानासि तत्पदम् ॥३७॥
अधुना सत्वरं वीर याहि दैत्यान्महाबलान्
रणं कुरु महाघोरं यथा स्वर्गे सुपच्यते ॥३८॥
देशकालोचितं श्रुत्वा दुर्वारणवचस्तदा
ययौ जालंधरो योद्धुं सह रुद्रेण योगिना ॥३९॥
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्रसंहितायां
जालंधरोपाख्याने जालंधरस्य मायारूपपरित्यागोनाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP