संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २३१ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २३१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २३१ Translation - भाषांतर श्रीरुद्र उवाच-यत्कौर्म्यवैभवं विष्णोः सर्वलोकनमस्कृतम्तद्वक्ष्यामि प्रिये सम्यक्शृणुष्वेकाग्रचेतसा ॥१॥अत्रिपुत्रो महातेजा दुर्वासा इति विश्रुतःप्रचण्डः सर्वलोकानां क्षोभकारी महातपाः ॥२॥स ययौ हिमवत्पृष्ठं ब्रह्मर्षिस्तपसो निधिःममांशभूतो ब्रह्मर्षिः सर्वेषां भयदस्सदा ॥३॥उषितस्तत्र वर्षं तु किन्नरीभिः स पूजितःमहेंद्रं द्रष्टुकामोऽसौ स्वर्लोकं प्रययौ मुनिः ॥४॥तस्मिन्काले महातेजा गजारूढं महेश्वरम्ददर्श सर्वदेवैस्तं पूज्यमानं शचीपतिम् ॥५॥तच्च दृष्ट्वा स हृष्टात्मा दुर्वासा सुमहातपाःपारिजातस्रजं तस्मै प्रददौ विनयान्वितः ॥६॥आदाय देवताधीशस्तां स्रजं गजमूर्द्धनिविन्यस्य तत्र देवेशः प्रययौ नंदनं प्रति ॥७॥करेणादाय तां मालां मदोद्रिक्तस्ततो गजःपीडयित्वाथ चिक्षेप संस्थितां धरणीतले ॥८॥ततः क्रुद्धो महातेजा दुर्वासा रक्तलोचनःप्रशप्तवान्महेंद्रं तं संतप्तक्रोधवह्निना ॥९॥दुर्वासा उवाच-त्रैलोक्यैकश्रियायुक्तो यस्मान्मामवमन्यतेतस्मात्त्रैलोक्यश्रीर्नष्टा भवत्वेव न संशयः ॥१०॥रुद्र उवाच-इति शप्तस्ततः शक्रो जगाम स्वपुरं पुनःततः श्रीर्जगतां धात्री क्षणादंतर्दधे स्वयम् ॥११॥अंतर्द्धानं गता लक्ष्मीस्तदा नष्टं जगत्त्रयम्यदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् ॥१२॥तस्यामंतर्द्धानवत्यां सर्वं नष्टतरं भवत्ब्रह्मादि त्रिदशाः सर्वे गंधर्वा यक्ष किन्नराः ॥१३॥दैत्याश्च दानावा नागा मनुष्या राक्षसास्तथापशवः पक्षिणः कीटाः सर्वे स्थावरजंगमाः ॥१४॥तया लक्ष्म्या जगन्मात्रा ते सर्वे नावलोकिताःदारिद्र्येनैव विहितास्ते सर्वे दुःखभागिनः ॥१५॥क्षुत्पिपासार्दिता देवाश्चुक्रुशुर्गतचेतसःन ववर्ष जलधरः सर्वे शुष्का जलाशयाः ॥१६॥सर्वे ते पादपा शुष्काः फलपुष्पविवर्जिताःतदा देवाः सगंधर्वा दैत्यदानवराक्षसाः ॥१७॥क्षुत्पिपासार्द्दिता जग्मुः ब्रह्माणममितौजसम्ऊचुस्तं देवदेवेशमब्जयोनिं पितामहम् ॥१८॥देवा ऊचुः -भगवन्क्षुत्पिपासाभ्यां पीडितं हि जगत्त्रयम्न हुतं न वषट्कारः सर्वधर्म्मविवर्जितम् ॥१९॥क्षुत्पिपासार्द्दिताः सर्वे देवदानवमानवाःत्रातारं सर्वलोकेशं भवंतं शरणं गताः ॥२०॥त्रातुमर्हसि देवेश क्षुत्पिपासार्दिताञ्जनान्रुद्र उवाच-इति तेषां वचः श्रुत्वा सर्वलोकपितामहः ॥२१॥उवाच परमप्रीतस्तान्सर्वान्प्रति मानदःब्रह्मोवाच-शृणुध्वं देवताः सर्वे दैत्यगंधर्वमानवाः ॥२२॥महेंद्रस्यापचारेण सर्वमेतदुपस्थितम्समुद्भूतमिदं घोरं जगत्संवर्त्तकं महत् ॥२३॥दुर्वासाः सुमहात्मातु यतः क्रोधमवाप्तवान्तस्मात्क्रोधेन तेनेदं नष्टं लोकत्रयं सुराः ॥२४॥असौ रोषपरीतात्मा क्रोधेन कलुषीकृतःजगत्त्रयं च श्रीनष्टं भवत्वित्याह दुर्मतिः ॥२५॥तच्छापाज्जगतां धात्री लक्ष्मीर्न्नारायणप्रियाअंतर्द्धानं गता देवी जगन्माता महेश्वरी ॥२६॥यदपाङ्गे क्षिता लोका भवंति सुखितास्तथानालोकिता जगन्मात्रा दुःखभागिन एव हि ॥२७॥तस्मात्सर्वे वयं गत्वा दुग्धाब्धौ स्थितमुत्तमम्तत्र नारायणं देवमर्च्चयामः सनातनम् ॥२८॥तस्मिन्प्रसन्ने देवेशे शिवमेतद्भवेज्जगत्इति निश्चित्य मनसा ब्रह्मा देवगणैर्युतः ॥२९॥भृग्वादिमुनिभिः सार्द्धं प्रययौ क्षीरसागरम्क्षीराब्धावुत्तरतटे ब्रह्मरुद्रादिदेवताः ॥३०॥विष्णुं समर्च्चयामासुः पौरुषेण विधानतःजपन्नष्टाक्षरं मंत्रं पौरुषं सूक्तमेव च ॥३१॥ध्यायंतोऽनन्यमनसो जुहुवुः परमेश्वरम्तुष्टुवुः स्तवनैर्दिव्यैर्नमश्चक्रुर्विचित्रधा ॥३२॥ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम्तेषां संदर्शने तस्थौ स्तूयमानो महर्षिभिः ॥३३॥वैनतेयं समारुह्य सर्वदेवमयं विभुम्तं दृष्ट्वा जगतामीशं शंखचक्रगदाधरम् ॥३४॥पीतवस्त्रं चतुर्बाहुं पुंडरीकनिभेक्षणम्श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥३५॥किरीटहारकेयूरनूपुरैरुपशोभितम्तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् ॥३६॥ततः प्रोवाच भगवान्कृपया सर्वदेवताःवरदोस्मि वरं देवा वृणीध्वमिति चाब्रवीत् ॥३७॥इति श्रुत्वा तदा सर्वे देवा ब्रह्मपुरोगमाःऊचुः प्रांजलयो देवमिदं वचनमीश्वरम् ॥३८॥देवा ऊचुःभगवन्मुनिशापेन संप्रतीदं जगत्त्रयम्क्षुत्पिपासार्दितं सर्वं सदेवासुरमानुषम् ॥३९॥तस्माद्भवंतं शरणं याताः स्म पुरुषोत्तमत्राहि सर्वमिमं लोकं नान्यः शक्तो भवेत्क्वचित् ॥४०॥रुद्र उवाच-इत्युक्तो देवतैः सर्वैरच्युतः परमेश्वरःविचार्य्यैतदुवाचैतान्देवान्ब्रह्मपुरोगमान् ॥४१॥श्रीभगवानुवाच-अत्रिसूनोर्मुनेः शापादंतर्द्धानं गता रमाकटाक्षदर्शनात्तस्या जगदैश्वर्य्यसंयुतम् ॥४२॥तस्माद्यूयं सुराः सर्वे शिवब्रह्मपुरोगमाःउत्पाट्य मंदरं शैलं निधाय क्षीरसागरम् ॥४३॥मंदरं घर्घरं कृत्वा सर्प्पराजेन वेष्टितम्कुरुध्वं मथनं देवा दैत्यगंधर्वदानवैः ॥४४॥उत्पद्यते च सा लक्ष्मीर्जगत्संरक्षणाय वैतया हृष्टा महाभागा भविष्यथ न संशयः ॥४५॥धारयाम्यहमेवाद्रिं कूर्मरूपेण संवृतःमम शक्त्या सुरान्सर्वान्प्रविश्य च बलीयसः ॥४६॥रुद्र उवाच-इत्युक्ता देवताः सर्वा हरिणा कामलक्षणेसाधुसाध्विति देवेशमूचुर्ब्रह्मपुरोगमाः ॥४७॥संस्तूयमानो भगवानच्युतः सुरसत्तमैःअंतर्दधे ततः श्रीमान्सर्वलोकनमस्कृतःसर्वाधारः सर्वदेवः सर्वत्र समदर्शनः ॥४८॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडेउमामहेश्वरसंवादे दुर्वाससःशापकथनंनाम एकत्रिंशदधिकद्विशततमोऽध्यायः ॥२३१॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP