संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १८५

उत्तरखण्डः - अध्यायः १८५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


देव्युवाच
इतिहासोऽयमीशान श्रेयसां साधनं परम्
आकर्ण्य करुणापूर्ण ममकांक्षा प्रवर्त्तते ॥१॥
एकादशस्य माहात्म्यमध्यायस्य कथाश्रयम्
व्यावर्णय विरूपाक्ष वक्तॄणां प्रथम प्रभो ॥२॥
ईश्वर उवाच-
आकर्णय कथां कांते गीतावर्णनसंश्रयाम्
विश्वरूपाभिधानस्य माहात्म्यमपि पावनम् ॥३॥
अध्यायस्य विशालाक्षि वक्तुं तावन्न शक्यते
सहस्राणि कथाः संति तत्रैका कथ्यते मया ॥४॥
प्रणीतायास्तटे नद्या मेघंकरमिति श्रुतम्
नगरं गरिमाधार तुंगप्राकारगोपुरम् ॥५॥
विशालाश्रमशालासु स्वर्णस्तंभविभूषितम्
श्रीमद्भिः सुखिभिः शांतैः सदाचारैर्जितेंद्रियैः ॥६॥
अधिष्ठितं जवैश्चारुशृंगाटकमनोहरम्
मणिस्तंभस्फुरत्स्वर्णापणचत्वरशोभितम् ॥७॥
पताकाकिंकिणीक्वाण कदंबक कलस्वरम्
वेदाध्ययननिर्घोषवाचालित दिगंतरम् ॥८॥
तूर्यसंघोषणाकीर्ण विशालव्योममंडलम्
पताकापल्लोद्भूतवातनिर्जितविग्रहम् ॥९॥
राजामार्गवरद्वारनारीमंजीरसिंजितैः
वल्लकीवेणुकैर्गीतेर्भाति वाजींद्र हेषितैः ॥१०॥
प्रेक्षमाणमिवाभीक्ष्णं दिक्पालानां पुरैः समम्
आस्ते जगत्पतिर्यत्र शार्ङ्गपाणिर्विराजितः ॥११॥
मूर्तिमत्परमं ब्रह्म जगल्लोचनजीवितम्
लक्ष्मीनयनराजीव पूजिताकारगौरवः ॥१२॥
त्रिविक्रमवपुर्मेघश्यामलः कोमलद्युति
श्रीवत्सवक्षाराजीव वनमालाविभूषितः ॥१३॥
अनेकभूषणोपेतः सरत्न इव वारिधिः
चलत्सौदामिनीदाम सांद्रमेघसमद्युतिः ॥१४॥
तस्यास्ते मुकुटे साक्षात्शार्ङ्गपाणिः परः पुमान्
तं दृष्ट्वा मुच्यते जंतुर्जन्मसंसारबंधनात् ॥१५॥
यस्मिन्पुरे महातीर्थं विद्यते मेखलाभिधम्
यत्र स्नात्वा नरैर्नित्यं प्राप्यते वैष्णवं पदम् ॥१६॥
तत्र वीक्ष्य जगन्नाथं नरसिंहं कृपार्णवम्
सप्तजन्मार्जिताद्धोरान्मुच्यते दुष्कृतान्नरः ॥१७॥
मेखलायां गणाधीशं विलोकयति यो नरः
स निस्तरति विघ्नानि दुस्तराण्यपि सर्वदा
ब्रह्मचर्यपरो दांतो निर्ममो निरहंकृतिः ॥१८॥
तस्मिन्मेघंकरे कश्चिदभूद्ब्राह्मणसत्तमः
सुनंद इति विख्यातो वेदशास्त्रविशारदः ॥१९॥
वशीकृतेंन्द्रियग्रामो वासुदेवपरायणः
देवस्य शार्ङ्गिणः पार्श्वे गीताध्यायमिमं प्रिये ॥२०॥
एकादशं पठत्येष विश्वरूपप्रदर्शनम्
अध्यायस्य प्रभावेन ब्रह्मज्ञानमवाप सः ॥२१॥
परमानंदसंदोह श्लाघ्यसंवित्समाधिना
प्रत्यङ्मुखेंद्रियतयानिश्चलां स्थितिमीयुषा ॥२२॥
सततं स्थीयते तेन जीवन्मुक्तेन योगिना
एकदा स महायोगी सिंहराशिस्थिते गुरौ ॥२३॥
गोदावरीतीर्थयात्रां विधातुमुपचक्रमे
प्रथमेऽह्नि समागत्य विरजं तीर्थमुत्तमम् ॥२४॥
नाभिमारभ्य तीर्थेषु स समभ्यर्च्य देवताम्
मर्ज्जन्मज्जन्जगद्धात्रीं कमलां स व्यलोकयत् ॥२५॥
तां संपूज्य महामायां सर्वकामफलप्रदाम्
तारातीर्थे ततः स्नात्वा कपिलासंगमे ततः ॥२६॥
अष्टतीर्थमसौ चक्रे विधाय पितृतर्पणम्
कुमारीशं शिवं नत्वा कपिलाद्वारमाययौ ॥२७॥
तत्र निर्मज्ज्य निर्धुतप्राग्जन्मांतरदुष्कृतः
संपूज्य नत्वा श्रुत्वा च देवं वै मधुसूदनम् ॥२८॥
उषित्वा तत्र तां रात्रिं प्रागात्प्रातः सह द्विजैः
नरसिंहवने तत्र तीर्थे रामस्य दीर्घिका
प्रह्लादपूजितः साक्षादास्ते यत्र नृकेसरी ॥२९॥
तं दृष्ट्वा देवदेवेशं पूजयित्वा तु भक्तितः
तत्र तं दिवसं नीत्वा स ययावंबिकापुरम् ॥३०॥
अनुग्रहेण भक्तानामंबिका तत्र तिष्ठति
पूरयंति मनुष्याणां वांच्छितान्यखिलान्यपि ॥३१॥
पूजयित्वांबिकां भक्त्या पुष्पगंधानुलेपनैः
उपहारैश्च विविधैः स्तौत्रैः प्रणमनैरपि ॥३२॥
विप्रस्तस्मात्पुरा प्राप्तः कंठस्थानाभिधं पुरम्
यत्रास्ते परमा शक्तिर्महालक्ष्मीर्महाद्युतिः ॥३३॥
तामवेक्ष्य सुधाभानुभास्करद्युतिमंडलाम्
संसारतापविच्छेदपद्मपीयूषवाहिनीम् ॥३४॥
योगिराजहृदंभोज राजहंसनिषेविताम्
अनाहतमहानादमयीमद्वयरूपिणीम् ॥३५॥
महालक्ष्मीं भगवतीं वांछितार्थप्रदायिनीम्
आराध्य भक्तिभावेन चेतसा स मुनीश्वरः ॥३६॥
विवाहमंडपं प्राप पुरं विप्रैः समन्वितः
पुरे तत्र प्रतिगृहं वासस्थानमयाचत ॥३७॥
न लेभे वसतिं स्थातुं गेहे कस्मिन्नपि द्विजः
दर्शितं ग्रामपालेन विशालं वासमंदिरम् ॥३८॥
प्रविश्य वशतिं चक्रे ब्राह्मणः संगिभिः सह
ततः प्रभाते विमले सुनंदोऽसौ द्विजोत्तमः ॥३९॥
बहिरालोकयांचक्रे वासगेहान्निजं वपुः
अध्वन्यानखिलान्यत्र जातान्क्वापि यदृच्छया ॥४०॥
गम्यमानः समायांतं ग्रामपालो ददर्श सः
तं बभाषे ग्रामपाल आयुष्मानसि सर्वशः ॥४१॥
भागधेयवतां पुंसां पुण्यः पुण्यवतामसि
प्रभावो विद्यते वत्स कोपि लोकोत्तरस्त्वयि ॥४२॥
क्व प्रयाताः सहायास्ते कथं तत्सदनाद्बहिः
तत्पश्य मुनिशार्दूल कथयामि तवाग्रतः ॥४३॥
किंतु नान्यं त्वया तुल्यं पश्यामीह तपस्विनम्
किं जानासि महामंत्रं कां विद्यामवलंबसे ॥४४॥
कस्य देवस्य कारुण्याच्छक्तिर्लोकोत्तरा त्वयि
तत्कारुण्यवशात्तिष्ठ ग्रामेऽस्मिन्ब्राह्मणोत्तम ॥४५॥
शुश्रूषामखिलामेव भगवंस्ते करोम्यहम्
इति संवासयामास तस्मिन्ग्रामे मुनीश्वरम् ॥४६॥
परिचर्या च तस्यासौ भक्त्या चक्रे दिवानिशम्
दिवसेषु प्रयातेषु सप्ताष्टसु समेयिवान् ॥४७॥
प्रातरागत्य तस्याग्रे रुरोद भृशदुःखितः
अद्य मे भाग्यहीनस्य गुणवान्भक्तिमान्सुतः ॥४८॥
जाज्वल्यमानदंष्ट्रेण भक्षितो निशि रक्षसा
इत्येवं रक्षकेणोक्तं तं पप्रच्छ स संयमी ॥४९॥
क्वास्ते स राक्षसः पुत्रो भक्षितस्ते कथं वद
ग्रामपाल उवाच-
वर्तते नगरे घोरः पुरुषादो निशाचरः ॥५०॥
स खादति नरानेत्य नित्यं नगरगोचरान्
स सर्वैर्नागरैरत्र प्रार्थितः पुरुषैः पुरा ॥५१॥
रक्ष राक्षस नः सर्वान्ग्रासं ते कल्पयामहे
पथिका निशि निद्रंति ये च तान्भुंक्ष्व राक्षस ॥५२॥
एतस्मिन्सदने पांथान्ग्रामपालप्रवेशितान्
आहारं कल्पयांचक्रुरात्मीयप्राणगुप्तये ॥५३॥
भवान्सुप्तोगृहेऽमुष्मिन्नधन्यैः संयुतः परैः
ते ग्रस्ताः किल चानेन न त्वं मुक्तोसि द्विजोत्तम ॥५४॥
प्रभावं भवतो वेत्ति भवानेव द्विजोत्तम
मदीय तनयस्याद्य मित्रमेकमुपागतम् ॥५५॥
अजानता मया सोऽपि तनयस्य प्रियः सखा
अन्यैः पांथजनैः सार्द्धं तस्मिन्गेहे प्रवेशितः ॥५६॥
श्रुत्वा तत्र प्रविष्टं तं निशीथे तनयो मम
तमानेतुं गतः सोऽपि भक्षितस्तेन रक्षसा ॥५७॥
दुःखितेन मया प्रोक्तः प्रातः स पिशिताशनः
ममापि पुत्रो दुष्टात्मन्भवता निशि भक्षितः ॥५८॥
भवज्जठरनिर्मग्नः सुतोऽसौ येन जीवति
अस्ति चैवमुपायस्ते ब्रूहि मे त्वं निशाचर ॥५९॥
राक्षस उवाच-
अंतःप्रविष्टा त्वत्पुत्रमज्ञात्वाहमभक्षयम्
अजानन्भक्षितः पांथैः सहितोऽसौ सुतस्तव ॥६०॥
यथा जीवति मे कुक्षौ यथा भवति रक्षितः
तथा विहितमप्यस्ति दैवेन परमेष्ठिना ॥६१॥
गीतैकादशमध्यायं यः पठत्यनिशं द्विजः
तत्प्रभावेन मे मुक्तिर्मृतानां पुनरुद्भवः ॥६२॥
ग्रामपाल उवाच-
कथमेकादशाध्यायसामर्थ्यमिदमद्भुतम् ॥६३॥
इति पृष्टो मया विप्र स बभाषे निशाचरः ॥६४॥
पुरा गृध्रेण केनापि नभोमार्गेण गच्छता
अस्थिखंडं स्वतुंडाग्रात्पातितं क्वापि वारिणि ॥६५॥
तं जलाशयमागत्यकोऽपि ज्ञानीश्वरस्तदा
महातीर्थमिति ज्ञात्वा विदधे पितृतर्पणम् ॥६६॥
तमूचिरे जनाः सर्वे तीर्थमेतत्कथं वद
जपत्येकादशाध्यायं त्रिसन्ध्यं नियतेंद्रियः ॥६७॥
कृतमौनस्तु विप्रोऽसौ चौरैर्व्यापादितः पथि
तस्यास्थिशकलं गृध्रवदनात्पतितं जले ॥६८॥
तेन तीर्थमिदं दिव्यं जातं पातकनाशनम्
ततस्ते मानवाः सर्वे सस्नुस्तत्र जलाशये ॥६९॥
निष्कल्मषतया चैवं प्रापुस्ते परमं पदम्
एकादशस्य सामर्थ्यादध्यायस्य भविष्यति ॥७०॥
ममापि मुक्तिः पांथानां पुनरुत्थानमेव च
यो मया कश्चिदुद्गीर्णो ब्राह्मणोऽत्रैव तिष्ठति ॥७१॥
स च एकादशाध्यायं जपति स्म निरंतरम्
स तेनाध्यायमंत्रेण सप्तवाराभिमंत्रितम् ॥७२॥
विधाय वारि विप्रेंद्रः क्षिपेद्यदि ममोपरि
ततो मे शापनिर्मुक्तिर्भविष्यति न संशयः
इति तेनास्मि संदिष्टः समायातस्त्वदंतिकम् ॥७३॥
विप्र उवाच-
राक्षसः केन पापेन जातोसौ वद रक्षक
यत्क्षपायां गृहे तस्मिन्नरान्खादति निद्रितान् ॥७४॥
ग्रामपाल उवाच
अस्मिन्ग्रामे पुरा कश्चिदासीद्विप्रः कृषीवलः
एकदा शालिकेदाररक्षणे व्याकुलो द्विजः ॥७५॥
नातिदूरे महागृध्रः पांथमेकमभक्षयत्
तं विमोचयितुं दूराद्दयांचक्रेऽपि तापसः ॥७६॥
भुक्त्वा पांथं खगस्तावन्निरगादंबराध्वना
ततः स तापसः कोपात्तं बभाषे कृषीवलम् ॥७७॥
धिक्त्वां हालिक दुर्बुद्धे कठोरमतिनिर्घृण
कुक्षिभरं परत्राण विमुखं हतजीवितम् ॥७८॥
चोरैश्च दंष्ट्रिभिः सर्प्पैररिवह्निविषांबुभिः
गृध्रराक्षसभूतैश्च वेतालादिभिराहतान् ॥७९॥
जनानुपेक्षते शक्तः स तद्वधफलं लभेत्
न मोचयति यो विप्रं प्रभुश्चोरादिभिर्धृतम् ॥८०॥
स याति नरकं घोरं स पुनर्जायते वृकः
निहन्यमानं विपिने गृध्रव्याघ्रेण पीडितम् ॥८१॥
मुंचमुचेति यो वक्ति स याति परमां गतिम्
गवामर्थे हता व्याघ्रैर्व्याधैर्दुष्टैश्च राजभिः ॥८२॥
तेपि यांति पदं विष्णोर्दुष्प्राप्यं योगिनामपि
अश्वमेधसहस्राणि वाजपेयशतानि च ॥८३॥
शरणागतसंत्राण कलां नार्हंति षोडशीम्
दीनस्योपेक्षणं कृत्वा भीतस्य च शरीरिणः ॥८४॥
पुण्यवानपि कालेन कुंभीपाके स पच्यते
पश्यन्नपि भवान् पांथं दुष्टगृध्रेण भक्षितम् ॥८५॥
निवारणसमर्थोपि न चक्रे यन्निवारणम्
निष्कृपोसि यतस्तस्माद्भविष्यसि निशाचरः ॥८६॥
इमां शापं मुने श्रुत्वा कंपमानकलेवरः
प्रणम्य हालिको विप्रं बभाषे करुणं वचः ॥८७॥
अत्राहं क्षेत्ररक्षायां चिरं क्षिप्तेन चक्षुषा
न वेद्मि निकटं गृध्र हन्यमानमिमं नरम् ॥८८॥
तेन मेऽनुग्रहं कर्तुं कृपणस्य त्वमर्हसि
विप्र उवाच
यो वेत्त्येकादशाध्यायं जपत्यनुदिनं च यः ॥८९॥
तेनाभिमंत्रितं वारि यदा शिरसि तावके
पतिष्यति तदा शापात्तव मुक्तिर्भविष्यति ॥९०॥
इत्युक्त्वा तापसो यातो हालिको राक्षसोऽभवत्
तदागच्छ द्विजश्रेष्ठ तेनाध्यायेन मंत्रय
तीर्थोदकं स्वहस्तेन तस्य मूर्द्धनि निक्षिप ॥९१॥
महादेव उवाच
इति तत्प्रार्थितं तस्य श्रुत्वा च करुणाप्लुतः
तथेति सहपालेन मुनी रक्षोंतिकं ययौ ॥९२॥
एकादशेन तेनांबु विश्वरूपेण मंत्रितम्
निक्षिप्तं तस्य शिरसि तेन विप्रेण योगिना ॥९३॥
गीताध्यायप्रभावेण शापमोक्षमवाप सः
विहाय राक्षसं देहं चतुर्बाहुस्ततोऽभवत् ॥९४॥
निगीर्णा ये जनास्तेन पांथा आसन्सहस्रशः
चतुर्भुजा बभूवुस्ते शंखचक्रगदाधराः ॥९५॥
ते विमानान्यारुरुहुस्तावदूचे स राक्षसम्
मदीयस्तनयः कस्तं दर्शयस्व निशाचर ॥९६॥
इत्युक्ते ग्रामपालेन दिव्यधीराह राक्षसः
एवं चतुर्भुजं विद्धि तमालश्यामलद्युतिम् ॥९७॥
माणिक्यमुकुटं दिव्यमणिकुंडलमंडितम्
हारहारिमहास्कंधं स्वर्णकेयूरभूषितम् ॥९८॥
राजीवलोचनं स्निग्धं हस्ते कृतसरोरुहम्
दिव्यं विमानमारूढं देवत्वं प्राप्तमात्मजम् ॥९९॥
इति तस्य वचः श्रुत्वा सुतं दृष्ट्वा च तादृशम्
स्वगेहं नेतुमारेभे जहास स सुतस्ततः ॥१००॥
कति वाराणि जातोऽसि त्वं पुत्रो मम रक्षक
पूर्वपुत्रस्त्वदीयोऽस्मि अधुना विबुधोऽस्म्यहम् ॥१०१॥
यास्यामि वैष्णवं धाम ब्राह्मणस्य प्रसादतः
निशाचरोऽपि प्राप्तोऽयं पश्य देहं चतुर्भजम् ॥१०२॥
एकादशस्य माहात्म्याद्याति स्वर्गं समं जनैः
विप्रादस्मात्तमध्यायमधीष्व त्वं जपानिशम् ॥१०३॥
भविष्यति न संदेहस्तवापि गतिरीदृशी
तात तस्मात्सतां संगं दुर्लभं सर्वथा जनैः ॥१०४॥
सोप्यद्य ते समुत्पन्नो ह्यात्मनः साधयेप्सितम्
किं धनैर्भोगदानैर्वा किं यज्ञैस्तपसा नु किम् ॥१०५॥
किं पूर्तैर्वापरं श्रेयो विश्वरूपस्य पाठतः
तद्विष्णोः परमं रूपमध्यायस्य श्रुतेन च ॥१०६॥
यत्पूर्णानंदसंदोह कृष्णब्रह्मास्यनिर्गतम्
कुरुक्षेत्रेऽर्जुने मित्रे तत्कैवल्यरसायनम् ॥१०७॥
नृणां च भवभीतानामाधिव्याधिभयापहम्
अनेकजन्मदुःखघ्नं नान्यत्पश्यामि तत्स्मर
शिव उवाच
इत्युक्त्वा सह तैः सर्वैर्ययौ विष्णोः परं पदम् ॥१०८॥
तमध्यायं ततो विप्राद्ग्रामपालः पपाठ सः
तावुभौ तस्य माहात्म्याज्जग्मतुर्वैष्णवं पदम् ॥१०९॥
इत्येकादशमाहात्म्य कथा तुभ्यं निरूपिता
यस्याः श्रवणमात्रेण महापातकसंक्षयः ॥११०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये सतीश्वरसंवादे पंचाशीत्यधिकशततमोऽध्यायः ॥१८५॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP