संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १९२

उत्तरखण्डः - अध्यायः १९२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पावर्त्युवाच-
उक्तं सप्तदशाध्यायगौरवं भवता शिव
स त्वमष्टादशाध्यायमहिमानमुदीरय ॥१॥
ईश्वर उवाच-
आकर्णय चिदानंद निष्पादि निगमोत्तरम्
पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनंदिनि ॥२॥
समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनम्
संसारयातनाजालविदारणपरायणम् ॥३॥
परं रहस्यं सिद्धानामविद्योन्मूलनक्षमम्
चैतन्यं कैटभारातेरग्रगण्यं परं पदम् ॥४॥
विवेकवल्लरीमूलं कामक्रोधमलापहम्
पुरंदरादिगीर्वाणचित्तविश्रामकारकम् ॥५॥
सनकादिमहायोगिमनोरंजनकारणम्
पाठमात्रपराभूतकालकिंकरगर्जितम् ॥६॥
अष्टोत्तरशतव्याधिमूलोन्मूलनकारकम्
नातः परतरं किंचिद्रहस्यं हंसगामिनि ॥७॥
उपतापत्रयहरं महापातकनाशनम्
यथाकालेष्वहं नित्यो यथा पशुषु कामधुक् ॥८॥
यथा व्यासो मुनींद्रेषु व्यासेषु ब्रह्मवित्तमः
यथा दिवौकसां शक्रो गुरुः शक्राद्यथा वरः ॥९॥
यथा रसानां पीयूषमुत्तमं विश्वविश्रुतम्
तथा गिरीणां कैलासो यथा चेंद्रो दिवौकसाम् ॥१०॥
तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पंकजम्
पतिव्रतासु नारीषु यथा लोकेष्वरुंधती ॥११॥
यथा मखेष्वश्वमेधो यथोद्यानेषु नंदनम्
यथारुद्रेषु सर्वेषु वीरभद्रो ममानुगः ॥१२॥
यथा दानेषु भूदानं यथा सिंधुषु गौतमी
यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु ॥१३॥
तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरम्
तत्राख्यानमिदं पुण्यं भक्त्याकर्णय पार्वति ॥१४॥
यथाकर्णनमात्रेण जंतुः पापैः प्रमुच्यते
अस्ति मेरुगिरेः शृंगे पुरी रम्यामरावती ॥१५॥
पुरा मम विनोदाय निर्मिता विश्वकर्मणा
निरंतरं गुणयुता कोटिगीर्वाणसेविता ॥१६॥
तेजःपुंजवती साक्षाद्ब्रह्मविद्येव विश्रुता
चिंतामणिशिलाबद्धाः प्रासादा यत्र कामदाः ॥१७॥
जयंति मेरुशिखरे चतुर्मुखपुरावधि
यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा ॥१८॥
शृणोति श्यामला गीर्भिर्गीतं गंधर्वयोषिताम्
यत्रास्ते सबलारातिर्देवैश्च दलितायुषाम् ॥१९॥
दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गता
पुरातनसुधास्वादु स्मारं स्मारं दिवौकसः ॥२०॥
धयंति यत्र क्षुत्क्षामा कलां प्रत्यहमैंदवीम्
तस्यां कैवल्यकल्पायामासीत्पूर्वं शतक्रतुः ॥२१॥
शची समन्वितः श्रीमान्सर्वगीर्वाणसेवितः
स कदाचित्सुखासीनो विष्णुदूतैरधिश्रितम् ॥२२॥
सहस्रनेत्रमायांतमपश्यत्पुरुषं परम्
ततस्तदीय तेजोभिरभिभूतः पुरंदरः ॥२३॥
मणिसिंहासनात्तूर्णं पतितः स्थानमंडपे
सिंहासनात्प्रयातस्य ततस्तस्य हरेर्भटाः ॥२४॥
गीर्वाणगणसाम्राज्य पट्टबंधं वितेनिरे
अथ तस्याभिषिक्तस्य महेंद्रस्य पुलोमजा ॥२५॥
वामांकमारुरोहाशु दिव्यदुंदुंभिनिःस्वनैः
अथ त्रिदिवसंगीत गीर्वाणाः प्रमदान्विताः ॥२६॥
सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः
ततो वै ऋषयो वेदैराशीर्वादास्तदा ददुः ॥२७॥
रंभाद्या ननृतुस्तस्य पुरस्तादप्सरोगणाः
गंधर्वा ललितालापाञ्जगुर्मंगलकौतुकम् ॥२८॥
एवं नूतनमिंद्रं तु जुष्टं बहुभिरुत्सवैः
विना शतक्रतुं दृष्ट्वा शक्रो विस्मयमाययौ ॥२९॥
न मया विहिता मार्गे तडागा न विनिर्मिताः
न रोपिता महावृक्षाः पांथविश्रांतिकारकः ॥३०॥
न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः
निधिवासे स्थिता देवी पूजिता न मदालसा ॥३१॥
मेघंकरस्थितः शार्ङ्गधरो नैव निरीक्षितः
न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः ॥३२॥
न देववाटिकावासी दृष्टो नरहरिः स्वयम्
एरंडविष्णुर्हेरंबो न जातु परिशीलितः ॥३३॥
रेणुकानेक्षिता जातु माता पुरनिवासिनी
न भक्त्या पूजिता देवी दाना पुरनिवासिनी ॥३४॥
न भक्त्या त्रिपुरे दृष्टस्त्रिलिंगस्त्र्यंबकः स्वयम्
न शार्दूलतडागस्थो वीक्षितः सोमनाथकः ॥३५॥
रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः
नागदंतपुरे ख्यातो नागनाथो न वेक्षितः ॥३६॥
पर्णग्रामस्थितो दृष्टो न महानमृतेश्वरः
न तुंगभद्रा तीरस्थो दृष्टो हरिहरः स्वयम् ॥३७॥
न वेंकटाद्रिनिलयः श्रीनिवासः सुलक्षितः
कावेरी कर्णिकातीरे श्रीरंगो नैव वीक्षितः ॥३८॥
दीनास्त्वनाथाः क्रोशंतः कारागारान्न मोचिताः
अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः ॥३९॥
रात्रौ रात्रौ कृता क्वापिनिर्जले नोदकप्रभा ॥४०॥
न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः
कृष्णवेण्यां च न कृतं स्नानं कन्यागते गुरौ ॥४१॥
दत्तं नो भूखंडमपि कवयो नैव पूजिताः
न तीर्थेषु कृतं सत्रं न ग्रामेषु कृता मखाः ॥४२॥
पुष्करिण्यो न विहिता मध्ये मार्गं बहूदकाः
न प्रासादाः कृताः क्वापि ब्रह्मविष्णुपिनाकिनाम् ॥४३॥
न जातुचिद्भयाक्रांता रक्षिताः शरणागताः
कथमेकेन पुण्येन देवदत्तमिहार्जितम् ॥४४॥
इति चिंताकुलो भूत्वा हरिं प्रष्टुं पुरंदरः
ययौ सरभसंखिन्नः क्षीरकूपारगह्वरम् ॥४५॥
तत्र प्रविश्य गोविंदं कृतनिद्रं नवैस्तवैः
अकस्मान्निजसाम्राज्यभ्रंशदुःखमुवाच ह ॥४६॥
इंद्र उवाच-
रमाकांत भवत्प्रीत्यै कृतं क्रतुशतं पुरा
तेन पुण्येन संप्राप्तं मया पौरंदरं पदम् ॥४७॥
इदानीं नूतनः कोऽपि जातो दिवि पुरंदरः
न तेन धर्मो विहितो न तेन क्रतवः कृताः ॥४८॥
मम सिंहासनं दिव्यं कथमाक्रांतमच्युत ॥४९॥
महादेव उवाच-
इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः
उन्मीलितस्मिताक्षो सावुवाच मधुरं वचः ॥५०॥
श्रीभगवानुवाच-
किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः
वर्त्तमानः क्षितितले सत्वं प्रीणितवान्पुरा ॥५१॥
इन्द्र उवाच-
भगवन्कर्मणा केन स त्वां प्रीणितवान्द्विजः
यत्प्रीत्या भगवान्प्रादात्तस्मै पौरंदरं पदम् ॥५२॥
श्रीभगवानुवाच
जपत्यष्टादशाध्याये गीतानां श्लोकपंचकम्
यत्पुण्येन च संप्राप्तं तव साम्राज्यमुत्तमम् ॥५३॥
सर्वपुण्यशिरोरत्न भूतेन त्वं स्थिरो भव
इति विष्णोर्वचः श्रुत्वा ज्ञातोपायं पुरंदरः ॥५४॥
विप्रवेषधरो भूत्वा गतो गोदावरीतटम्
तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमम् ॥५५॥
यत्र कालेश्वरो देवो वर्त्तते कालमर्दनः
तत्र गोदावरी तीरे स्थितं परमधार्मिकम् ॥५६॥
अपश्यत्करुणावंतं ब्राह्मणं वेदपारगम्
नित्यमष्टादशाध्यायं जपंतं दांतचेतसम् ॥५७॥
ततस्तच्चरणद्वंद्वे लुठित्वा परया मुदा
सत्वमष्टादशाध्यायमपठत्तेन शिक्षितम् ॥५८॥
अथ पुण्येन तेनाऽसौ विष्णोः सायुज्यमाययौ
हित्वा पुरंदरादीनां देवानां पदमल्पकम् ॥५९॥
ज्ञात्वातीव मुदायुक्तो वैकुंठमगमत्पुरम्
अतएव परं तत्वं मुनीनामिदमुत्तमम् ॥६०॥
दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥६१॥
इत्येवं गीतामाहात्म्यं कथितं पापनाशनम्
पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥६२॥
यः शृणोति महाभागे श्रद्धया संयुतः पुमान्
सर्वयज्ञफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् ॥६३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखंडे सतीश्वरसंवादे गीतामाहात्म्ये द्विनवत्यधिक शततमोऽध्यायः ॥१९२॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP