संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १०८

उत्तरखण्डः - अध्यायः १०८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच
इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः
प्रणम्य दंडवद्भूमौ वाक्यमेतदुवाच ह ॥१॥
धर्मदत्त उवाच
आराधयंति सर्वेऽपि विष्णुं भक्तार्त्तिनाशिनम्
यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि ॥२॥
विष्णुप्रीतिकरं तेषां विष्णुसान्निध्यकारकम्
यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवंति हि ॥३॥
गणावूचतुः
साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः
सेतिहासां कथां विप्र कथ्यमानां पुराभवाम् ॥४॥
कांतिपुर्यां पुरा चोल चक्रवर्त्ती नृपोऽभवत्
यस्य नाम्ना च ते देशाश्चोलाख्या अभवन्किल ॥५॥
यस्मिन्शासति भूचक्रं दरिद्रो नैव दुःखितः
पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः ॥६॥
यस्याप्यत्यंतयज्ञस्य ताम्रपर्णी तटावुभौ
सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ ॥७॥
स कदाचिदगाद्राजा ह्यनंतशयनं द्विज
यत्रासौ जगतां नाथो योगनिद्रामुपासते ॥८॥
तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः
मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः ॥९॥
प्रणम्य दंडवद्यावदुपविष्टः स तत्र वै
तावद्ब्राह्मणमायां तमपश्यद्देवसन्निधौ ॥१०॥
देवार्चनार्थमायांतं तुलस्युदकपाणिनम्
स्वपुरीवासिनं तत्र विष्णुदासा वयं द्विजम् ॥११॥
तत्राभ्येत्य स विप्रर्षिर्देवदेवमपूजयत्
विष्णुसूक्तेन संस्नाप्य तुलसीमंजरीदलैः ॥१२॥
तुलसीपूजया तस्य रत्नपूजां तथा कृताम्
आच्छादितां समालोक्य राजा क्रुद्धोऽब्रवीद्वचः ॥१३॥
राजोवाच
माणिक्यस्वर्णपूजात्र शोभाढ्या या मया कृता
विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः ॥१४॥
विष्णुभक्तिं न जानासि वराकोऽसि मतो मम
यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो ॥१५॥
इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः
राज्ञो गौरवमुल्लंघ्य जगाद वचनं तदा ॥१६॥
विष्णुदास उवाच
राजन्मुक्तिं न जानासि गर्वितोऽसि नृपश्रिया
किंस्विद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत् ॥१७॥
गणावूचतुः
तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः
विष्णुदासं तदा गर्वादुवाच वचनं द्विज ॥१८॥
इत्थं चेत्कथ्यसे विप्र विष्णुभक्त्यातिगर्वितः
भक्तिस्ते कियतीविष्णोर्दरिद्रस्याधनस्य च ॥१९॥
यज्ञदानादिकं चैव विष्णुतुष्टिकरं कृतम्
नापि देवालयं पूर्वं त्वया विप्र क्वचित्कृतम् ॥२०॥
ईदृशस्यापि ते गर्व एष तिष्ठति भक्तितः
तच्छृण्वंतु वचो मेऽद्य सर्वेप्येते द्विजोत्तमाः ॥२१॥
साक्षात्कारमहं विष्णोरेष वादो गमिष्यति
यथा तु सर्वेऽपि ततो भक्तिं ज्ञास्यथ चावयोः ॥२२॥
गणावूचतुः
इत्युक्त्वा स नृपो गच्छन्निजं राजगृहं द्विजः
आरेभे वैष्णवं सत्रं कृत्वाचार्यं तु मुद्गलम् ॥२३॥
ऋषिसंघसमाजुष्टं बभूव बहुदक्षिणम्
यद्वद्ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत् ॥२४॥
विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती
पंचैतान्नियमान्कृत्वा विष्णुतुष्टिकरान्सदा ॥२५॥
माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम्
एकादशीव्रतं जाप्यं द्वादशाक्षरविद्यया ॥२६
उपचारैः षोडशभिर्गीतनृत्यादिमंगलैः
नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत् ॥२७॥
नित्यं संस्मरणं विष्णोर्गच्छन्भुंजन्स्वपन्नपि
सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः ॥२८॥
माघकार्तिकयोर्नित्यं विशेषनियमानपि
अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा ॥२९॥
एवं समाराधयतोः श्रियः पतिं तयोस्तु चोलेश्वरविष्णुदासयोः
अगादनेहा बहु तद्व्रतस्थयोस्तन्निष्ठकर्मेन्द्रियकर्मणोस्तयोः ॥३०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने अष्टाधिकशततमोऽध्यायः ॥१०८॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP