संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १४४ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १४४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १४४ Translation - भाषांतर महादेव उवाचब्रह्मवल्ली महत्तीर्थं ततो गच्छेत्सुरेश्वरितस्य तीर्थस्य स्वरूपं साक्षाच्छृणु सुरोत्तम ॥१॥यत्र साभ्रमती तोयं ब्रह्मवल्ल्यंभसा सहयुज्यते ब्रह्मतीर्थं तत्प्रयागेन समं स्मृतम् ॥२॥तत्र पिंडप्रदानेन तृप्तिर्द्वादशवार्षिकीपितॄणां जायते नूनं ब्रह्मणो वचनं यथा ॥३॥गयाश्राद्धसमंपुण्यंब्रह्मवल्ल्यांविशेषतःयत्रज्ञात्वाप्रकुर्वंतिपितरस्तृप्तिमाप्नुयुः ॥४॥गोदानंभूमिदानंचअन्नदानंतथैवचएतद्दानसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः ॥५॥अत्रैव सनकाद्यास्तु स्नात्वा च विधिपूर्वकम्परंब्रह्मपदध्यानाद्विष्णुलोकमवाप्नुयुः ॥६॥पुष्करे चैव गंगायां क्षेत्रे चामरकंटकेतत्र गत्वा तु देवेशि यत्फलं लभते नरः ॥७॥तत्फलं समवाप्नोति ब्रह्मवल्ल्यां विशेषतःचंद्र सूर्योपरागे च दानं ये ददते नराः ॥८॥तत्फलं समवाप्नोति ब्रह्मावल्ल्यां सुरेश्वरिदिव्यरूपधरास्ते च शंखचक्रगदाधराः ॥९॥तेऽपि स्वर्गे हि गच्छंति स्नानं कृत्वा सुरेश्वरिधृत्वा तुलसिजां मालां नारायणमनुस्मरन्वैकुंठं दिव्यमानंदं याति वै पदमव्ययम् ॥१०॥इति ब्रह्मवल्लीतीर्थमाहात्म्यम्वृषतीर्थं ततो गच्छेत्खंडतीर्थेऽतिविश्रुतम्तत्र स्नात्वा दिवं गावो गोलोकं च पुराश्रिताः ॥११॥खंडरूपेण धर्मेण या गावो लोकमातरःशापाद्भ्रष्टावितास्तेन खंडतीर्थमथोच्यते ॥१२॥पार्वत्युवाचशापो हि लोकमातॄणां गवां कस्य पुराऽभवत्कथं लोकात्परिभ्रष्टाः कथं धर्मेण रक्षिताः ॥१३॥महादेव उवाचपुरा वृषेण गोलोके क्रीडता सह मातृभिःमुक्तं तथा शकृन्मूत्रं पतितं हरमूर्द्धनि ॥१४॥ततस्तासां ददौ शापं तेन दोषेण वै हरःनष्टसंज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीम् ॥१५॥गावः शप्ता भगवता संप्रसाद्य पुनर्हरम्प्राप्स्यामहे पुनर्लोकं इति देवं ययाचिरे ॥१६॥यदा साभ्रमती तीर्थे ब्रह्मवल्ली समीपतःखंडसंज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यथ ध्रुवम् ॥१७॥ततस्तस्मिन्ह्रदे स्नात्वा गावो गोपतिना सहस्वर्गं गता शुद्धतमा महादेवसमीपतः ॥१८॥गोह्रदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम्गवां लोकमवाप्नोति दाहप्रलयवर्जितम् ॥१९॥तत्र स्थित्वा निराहारो गोपिंडं च ददाति वैस नरः सुखमेधेत यावदिंद्राश्चतुर्दश ॥२०॥गवांकोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम्तत्फलं समवाप्नोति खंडतीर्थे न संशयः ॥२१॥गृहीत्वा वृषमूत्रं च तीर्थं यः पिबते नरःतत्क्षणादेव शुद्धिः स्यात्खंडतीर्थे न संशयः ॥२२॥खंडतीर्थात्परं तीर्थं न भूतं न भविष्यतिये गच्छंति सुरश्रेष्ठ ते नराः पुण्यभागिनः ॥२३॥तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत्वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः ॥२४॥पूजनाद्वै न संदेहो गोलोके तु वसेच्चिरम्तत्र गत्वा विशेषेण सौवर्णी गां ददंति ये ॥२५॥ते नरा भुंजते सौख्यं यावदिंद्राश्चतुर्दशदशधेनुं ततः कृत्वा यो ददाति द्विजातये ॥२६॥खंडतीर्थे सुरश्रेष्ठे तदनंतफलं स्मृतम्तत्र गत्वा तु कर्त्तव्यं पिप्पलारोपणं बुधैः ॥२७॥तत्कृते सति देवेशि पितृलोकं स गच्छतिपंच वामलकीर्दिव्या ये कुर्वंति प्ररोपणम् ॥२८॥इहलोके सुखं भुक्त्वा हरिलोकं व्रजंति ते ॥२९॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खंडतीर्थंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP