संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १८४

उत्तरखण्डः - अध्यायः १८४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


देव्युवाच
सर्वज्ञ सर्वचैतन्य सर्वेश्वर गिरां गुरो
धन्यास्मि शिवमान्येन दृश्यमानेन यत्त्वया ॥१॥
निरूपितमिदं पुण्यं नवमाध्यायवैभवम्
अनेकविस्मयस्वादु कथानकमयं मधु ॥२॥
शृण्वंत्या मम देवेश न तृप्तिर्जातु जायते
अकुंठाश्रवणोत्कंठा वर्द्धते वृषभध्वज ॥३॥
आसीन्ममहिमांभोधे गीतानां श्रुतिजीवितम्
तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः ॥४॥
तमुद्दिश्य महाध्यायमभिधेहि कथानकम्
शिव उवाच
शृणु सुश्रोणि निश्रेणीं स्वर्गदुर्गस्य दुर्ल्लभाम् ॥५॥
सीमामिव प्रभावानां पावनीं परमां कथाम्
आसीत्काशीपुरे विप्रः पुण्यकीर्त्तिपरायणः ॥६॥
प्रशांतचेता निर्मुक्त हिंसाकार्कश्यसाहसः
निवृत्तिनिरतो नित्यं जितेंद्रियतया तथा ॥७॥
धीरधीरिति विख्यातो नंदीव मयि भक्तिमान्
निस्तीर्णनिगमांभोधिः सर्वशास्त्रार्थकोविदः ॥८॥
तस्य ध्यानपराधीन चेतसः प्रतिगच्छतः
अंतरात्मनि निर्मग्न मनसस्तत्त्वचक्षुषः ॥९॥
करावलंबनं तस्य धावन्प्रीत्या ददाम्यहम्
कदाचन चमत्कारकारकं विमना मुनिः ॥१०॥
आचांतः किंच नासाग्रपरमानंदमेदुराम्
दृशमासाद्य निद्राणकरणोयमिवास्थितः ॥११॥
उपाधास्य विशालाक्षि विशालां द्वारदेहलीम्
अशेत निशि निःशंकं तावल्लंबेक्षणः क्षणम् ॥१२॥
मामपृच्छद्भृंगिरिटिः प्रणम्यपादपंकजम्
अनेन विधिना केन विहितं तव दर्शनम् ॥१३॥
तपस्तप्तं हुतं जप्तं किमनेन महात्मना
दत्ते प्रतिपदं देवो यस्य हस्तावलंबनम् ॥१४॥
अयं न लभते गंतुं कस्मादस्मात्पुराद्बहिः
यदृच्छया यदा काशी सीमामुल्लंघ्य गच्छति ॥१५॥
न पश्यति तदा सर्वान्पार्श्वस्थानपि देहिनः
अत्र हेतुमहं ज्ञातुमिच्छामि स्वामिभाषिताम् ॥१६॥
अनुग्राह्योस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय
भृंगिरिटेरिमं प्रश्नं समाकर्ण्याहमूचिवान् ॥१७॥
कदाचिदासं कैलासं पार्श्वे पुन्नागकानने
रणत्खेचरसुश्रोणि पूर्णस्तबककानने ॥१८॥
कलकंठकुलालाप कल्लोलितदिगंतरे
गरुत्मदादिदात्यूह समूहस्वरसंकुले ॥१९॥
भ्रमद्दारुघटीयंत्र प्रोल्लसद्बिंदुदंतुरे
प्रबुद्धसारणिप्रांत कदलीकंदलालसे ॥२०॥
कस्तूरीहरिणोपेते किंनरस्वरमोहिते
रोमंथमंथरापांगैर्मृगैः क्वापि निषेविते ॥२१॥
हंसैः कीरेषु पांडित्यं कुर्वाणैः संकुले शुकैः
निर्हृदिक्वणिनीरंध्र समीरणविलोडिते ॥२२॥
माधवीपुष्पनिर्यासशीधुक्षीबमधुव्रते
उन्मीलित्त्रिवलीपुष्पगुच्छसौरभनिर्भरे ॥२३॥
प्रोत्फुल्लबकुलामोदमदमंथरषट्पदे
सोमादुद्भूतपीयूषक्षालितक्षितिमंडले ॥२४॥
अध्यास्य वेदिकामेकामहं क्षणमवस्थितः
उद्दंडशाखिसंघट्टस्फुटन्मंथामुखोत्करैः ॥२५॥
प्रकंपिता चलच्छायो ववौ चंडसमीरणः
पश्चादभून्महाघोषो निर्घोषित दरीतटः ॥२६॥
अवातरत्ततः कश्चित्पक्षी गगनगह्वरात्
शारदानरिदच्छायः कज्जलानामिवोच्चयः ॥२७॥
तमसामिव संघातः पक्षच्छेदीव पर्वतः
अवष्टभ्य क्षितिं पद्मां पक्षी मां प्रणनाम सः ॥२८॥
आनीय पद्ममम्लानमसौ मत्पादयोर्व्यधात्
अथासौ स्पष्टया वाचा पक्षी स्तोत्रमुदीरयत् ॥२९॥
जयदेव चिदानंद सुधासिंधो जगत्पते
सदा सद्भावना संग कल्लोलानंतविग्रह ॥३०॥
अद्वैतवासना मत्या मलत्रयविवर्जित
जितेंद्रिय पराधीन समाधिप्राप्यविग्रह ॥३१॥
निरुपाधिविनिर्मुक्त निराकार निरामय
निःसीम निरहंकार निरावरणनिर्गुण ॥३२॥
शरणागतसंत्राण प्रवीण चरणांबुज
भीममाल महाव्याल ज्वालादग्धमनोभव ॥३३॥
कुठारभिन्नदैत्येंद्र गंडूषित महाविभो
त्रिपुरप्रमदाभाल सिंदूरोद्धूलिमार्जन ॥३४॥
कात्यायनीकुचांभोज वरकुंकुमचर्चित
नमः प्रमाणदूराय नमः प्रमतिरूपिणे ॥३५॥
नमश्चैतन्यनाथाय नमस्त्रैलोक्यरूपिणे
वंदे तव पदांभोजं योगिप्रवरचुंबितम् ॥३६॥
अपारभवपाथोऽधि पारावतरणाद्भुतम्
वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भते ॥३७॥
सहस्रवदनस्यापि फणींद्रस्य न चातुरी
त्वद्वर्णने महादेव कोऽहंमल्पमतिः खगः ॥३८॥
स्तोत्रमेतत्समाकर्ण्य कृतं तेन पतत्रिणा
तमवोचमहं कोऽसि कुतस्त्योसि विहंगम ॥३९॥
हंसेन सदृशः कायो वर्णः काकेन संनिभः
प्रयोजनं कमुद्दिश्य प्राप्तोसीह तदुच्यताम् ॥४०॥
इति पक्षी मया पृष्टः प्रश्रयानतकंधरः
जगाद श्लक्ष्णया वाचा पक्षीवाक्यविदांवरः ॥४१॥
देवेश धूर्जटे विद्धि मां मरालं स्वयंभुवः
कर्मणा येन मे कार्ष्ण्यं जातमाधुनिकं विभो ॥४२॥
तदाकर्णय सर्वज्ञ पृष्टं यदि तदुच्यते
मानसात्सरसः पृथ्वीं यातः प्राप्तोस्मि संकटम् ॥४३॥
सौराष्ट्रनगरादारात्सरसि स्फुटदंबुजे
बालेंदुखंडधवलान्मृणालकवलानहम् ॥४४॥
आदाय बलमाश्रित्य निरगां गगनं द्रुतम्
विहायसस्ततस्तस्मादकस्मादपतं भुवि ॥४५॥
अथ मोहपरीतात्मा सर्वथा विकलेंद्रियः
वेपमानवपुर्मोहात्स्पृष्टः शीतैः समीरणैः ॥४६॥
प्रबुद्धः पतने हेतुमपश्यन्नात्मनस्तदा
अहो किमेतदापन्नमद्य पातः कथं मम ॥४७॥
कालिमा येन कायेस्मिन्पक्वकर्पूरपांडुरे
इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणम् ॥४८॥
तावदंबुरुहाद्वाणीमश्रौषमहमीदृशीम्
उत्तिष्ठ हंस वक्ष्यामि कारणं पातकार्ष्ण्ययोः ॥४९॥
अथोत्थाय समागत्य मया मध्ये सरोवरे
दृष्टराजीविनीरम्या राजीवैः पंचभिर्युता ॥५०॥
कारणं प्रष्टुमारेभे कार्ष्ण्यस्य पतनस्य च
अथ तत्र घनश्यामान्स्वर्णवर्णांबरावृतान् ॥५१॥
चतुर्भुजान्गदाशंखचक्रपंकेरुहायुधान्
किरीटहारकेयूरकुंडलद्युतिचित्रितान् ॥५२॥
अद्राक्षमंतरिक्षस्थान्पुरुषानयुतानि षट्
नत्वा प्रदक्षिणीकृत्य पंचपद्मां सरोजिनीम् ॥५३॥
आत्मीयं पातमारभ्य पृष्टं तदखिलं मया
पद्मिन्युवाच
कलहंस गतोऽसि त्वं मां विलंघ्य विहायसा ॥५४॥
तेन पातकयोगेन पतितोऽसि महीतले
तेनैव कालिमा काये पक्षिसत्तम लक्ष्यते ॥५५॥
भवंतं पतितं वीक्ष्य कृपापूर्णेन चेतसा
मध्यमेनामुनाब्जेन वदता जातसौरभम् ॥५६॥
आघ्राय षट्पदाः षष्टिसहस्राणि दिवं ययुः
एते ये भवतां दृष्टाः नीलोत्पलसमत्विषः ॥५७॥
सर्वे ते सप्तमेऽतीते जन्मन्यासन्मुनेः सुताः
अस्यैव सरसस्तीरे तेपुस्ते परमं तपः ॥५८॥
कदाचित्कामिनी काचिच्चंपकस्तबकस्तनी
चलापांगकालाकांततरंगित रसालिनी ॥५९॥
नासा मुक्ताफलज्योत्स्ना चुंबितस्मित दीधितिः
वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ ॥६०॥
गायंत्या स्वरमाकर्ण्य ब्राह्मणा हरिणा इव
तां समागत्य ते सर्वे सममेव व्यलोकयन् ॥६१॥
मया दृष्टा ममैवेयमित्यूचुस्ते परस्परम्
मुष्टामुष्टि ततस्तेषां भ्रातॄणामभवद्रणः ॥६२॥
अन्योन्यमुष्टिनिष्पिष्ट वक्षसस्त्यक्तजीविताः
ते भुक्त्वा निरयान्घोरान्बभूवुः सारसा भुवि ॥६३॥
तदा ते श्वापदान्जघ्नुर्दग्धावन्येन वह्निना
ततो मातंगतामेत्य पथिपांथानघातयन् ॥६४॥
वने विषोदकं पीत्वा ते ययुर्यममंदिरम्
खरोष्ट्रकपिमार्जार जन्मान्यासाद्य च क्रमात् ॥६५॥
ततो मधुव्रता जाता वर्तंतेऽत्र सरोवरे
अद्य मे गंधमाघ्राय प्रापुस्ते वैष्णवं पदम् ॥६६॥
शृणु पक्षींद्र वक्ष्यामि येन मय्यस्ति वैभवम्
एतस्माज्जन्मनः पूर्वे तृतीये जन्मनि क्षितौ ॥६७॥
सरोजवदनानाम द्विजातेः कन्यकाऽभवम्
पातिव्रत्यैकनिरता गुरुशुश्रूषणे रता ॥६८॥
कदाचित्सारिकामेकां पाठयंत्याविलंबितम्
सारिका भव पापे त्वं पत्या शप्तास्मि कुप्यता ॥६९॥
प्रेत्य सारित्वमासाद्य पातिव्रत्यप्रसादतः
मुनीनामेव सदने कन्या काचित्पुपोष माम् ॥७०॥
गीतानां दशमाध्यायं विभूतिरिति विश्रुतम्
प्रातः पठति विप्रोसावश्रौषं तमघापहम् ॥७१॥
कालेन सारिकादेहमहं हित्वा विहंगम
दशमाध्यायमाहात्म्यादप्सराश्चाभवं दिवि ॥७२॥
पद्मावतीति विख्याता पद्माया दयिता सुखी
कदाचन मया यांत्या विमानेन विहायसा ॥७३॥
एतत्सरोवरं रम्यं विलोक्य विमलांबुजम्
अवतीर्य जलक्रीडायावदारभ्यते मया ॥७४॥
दुर्वासास्तावदायातो विवस्त्रा तेन वीक्षिता
तद्भयात्पद्मिनीरूपं धृतमेतन्मया स्वयम् ॥७५॥
पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च
मुखेन पंचमांभोजमिति पंचांबुजास्म्यहम् ॥७६॥
दृष्टा तेन मुनींद्रेण कोपज्वलित चक्षुषा
अनेनैव स्वरूपेण तिष्ठ पापे शतं समाः ॥७७॥
इति शापं समुत्सृज्य स चैवांतर्दधे क्षणात्
विभूत्यध्यायमाहात्म्याद्वाणी मे न विलीयते ॥७८॥
मद्विलंघनमात्रेण पतितोसि महीतले
अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम ॥७९॥
निशामय मया गीयमानमध्यायमुत्तमम्
यस्याकर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे ॥८०॥
इत्यसौ दशमाध्यायं पपाठ श्लक्ष्णया गिरा
तमाकर्ण्य तया दत्तमादाय च सरोरुहम् ॥८१॥
मया समर्पितं तुभ्यं पद्मिन्या पद्ममुत्तमम्
इत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् ॥८२॥
भृंगिरिटिरुवाच
पुरातने भवे कोऽयं ब्रह्म हंसोऽभवत्कथं
तवाग्रतः कुतो हेतोरुत्ससर्ज कलेवरम् ॥८३॥
इति भृंगिरिटिर्वाक्यमाकर्ण्याहं तदाब्रुवम्
द्विजवेश्मनि पूर्वस्मिन्जन्मन्ययमजायत ॥८४॥
सुतपा इति विख्यातो ब्रह्मचारी जितेंद्रियः
वसन्गुरुकुले कुर्वन्वेदाध्ययनमन्वहम् ॥८५॥
गुरुशुश्रूषणं सम्यग्विदधाति च भक्तितः
शयानस्य गुरोः शय्यां निद्रितः सपदा स्पृशत् ॥८६॥
तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान्
पद्मयोनिमरालानां मध्ये जातस्ततो द्विजः ॥८७॥
अस्मिञ्जन्मन्यमुष्येह पुरास्मल्लोकनावधि
गीतानां दशमाध्यायं नलिन्या कथितं ततः ॥८८॥
आकर्ण्य विहगो लेभे ब्रह्मज्ञानमनुत्तमम्
सोऽयं विप्रकुले जातो दशमाध्यायवैभवात् ॥८९॥
जन्माभ्यासवशादस्य शिशोरपि मुखांबुजात्
गीतानां दशमाध्यायः समुल्लसति सर्वदा ॥९०॥
तदर्थपरिणामेन सर्वभूतेष्ववस्थितम्
शंखचक्रधरं देवमयं पश्यति सर्वदा ॥९१
यस्मिन्यस्मिन्यदैवास्य दृष्टिः स्निग्धा शरीरिणः
स स मुक्तो भवेत्सर्वः सुरापो ब्रह्महाऽपि वा ॥९२॥
तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा
इदं नगरमानीतो मुक्तिक्षेत्रं स्वभावतः ॥९३॥
अत्रत्यानां मनुष्याणां मुक्तिः करतले स्थिता
तेनास्य दृष्टिपातेन विशेषोऽन्यो न जायते ॥९४॥
न ददामि बहिर्गंतुमहमस्य पुरा कृतम्
दशमाध्यायमहात्म्यात्तत्वज्ञानं सुदुर्लभम् ॥९५॥
लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा
तेनास्य चलतो हस्तं ददामि पथि गच्छतः ॥९६॥
दशमाध्यायमहिमा भृंगिरिटे महानयम्
इति भृंगिरिटेरग्रे कथितं यत्कथानकम् ॥९७॥
तवेदमत्र कथितं सर्वपापप्रणाशनम्
नरो वाप्यथवा नारी यापि कोऽपि च वा पुनः ॥९८॥
अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेत् ॥९९
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये चतुरशीत्यधिकशततमोध्यायः ॥१८४॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP