संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १३९

उत्तरखण्डः - अध्यायः १३९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
साभ्रमत्युत्तरे कूले अग्नितीर्थमिति श्रुतम्
तस्याश्चोत्तरपूर्वेण नातिदूरे कृतास्पदम् ॥१॥
तीर्थं पालेश्वरं नाम चंडी यत्र प्रतिष्ठिता
पीठं तद्योगमातॄणां सर्वसिद्धिविधायकम् ॥२॥
यत्र ताः सर्वदेवानां कार्यार्थे मातरः स्थिताः
परमं यत्नमास्थाय लोकानुग्रहकारणात् ॥३॥
त्रिरात्रमुषितो भूत्वा तस्मिंस्तीर्थे दृढव्रतः
अभिगच्छेत्तमीशानं देवेशं चंडिकेश्वरम् ॥४॥
साभ्रमत्यां कृतस्नानो मातृतीर्थस्य संनिधौ
समाधिविधिना युक्तो गच्छेद्वै मातृमंडलम् ॥५॥
गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः
अग्नितीर्थे नरः स्नात्वा चामुंडादर्शने कृते ॥६॥
न भयं जायते तस्य रक्षोभूतपिशाचजम्
गोखुरा च नदी यत्र साभ्रमत्यां तु संगता ॥७॥
तत्र तीर्थसहस्राणि तिष्ठंतीति सुरेश्वरि
श्राद्धं तत्र प्रकर्त्तव्यं तिलचूर्णेन पार्वति ॥८॥
पिंडान्दत्त्वा द्विजान्भोज्य अक्षयं पदमाप्नुयात्
यत्र कुकर्दमो राजा पापिष्ठो दुर्द्धरः खलः ॥९॥
मूढोऽहंकारसंयुक्तो द्विजानां परिनिंदकः
गोघ्नोऽपि बलहा चैव पापिष्ठो दुर्दमः सदा ॥१०॥
राज्यं च कुर्वतस्तस्य पुरे पिंडारसंज्ञके
तदा मृत्तिः समापन्ना धर्मे योगे सुरेश्वरि ॥११॥
मृतोऽसौ तत्र संजातः प्रेतरूपो महेश्वरि
पीतास्यः शुष्कतुंडश्च पीतरोमाऽथ कर्कशः ॥१२॥
उच्चस्तरो बहुरोमा क्षुत्पिपासाप्रपीडितः
वायुभक्षं प्रकुर्वाणः प्रगच्छति इतस्ततः ॥१३॥
बहुप्रेतैः समायुक्तो हाहेति करुणो रुदन्
किं कर्तव्यमिति प्राहुः प्रेतास्ते वै समीपगाः ॥१४॥
तेऽपि तदा रोदमानाः क्षुत्पिपासादि पीडिताः
अन्ये प्रेता दुरात्मानो राज्ञः संगतिमाययुः ॥१५॥
राज्ञा सार्द्धं च गच्छंति लोकान्विजनकान्बहून्
नोदकमथवा चान्नं न मार्गे दृश्यते कदा ॥१६॥
ते प्रेता दुष्टरूपाश्च विचरंति महीतले
भक्षंति शवमांसानि पिबंति रुधिरं सदा ॥१७॥
एवं कुकर्दमो राजा सदा तैः परिवारितः
कदाचिद्दैवयोगेन गुरोराश्रममन्वगात् ॥१८॥
पूर्वजन्मकृतं पुण्यं तेन योगेन संगतः
पार्वत्युवाच
किं कृतं तेन वै पुण्यं वद विश्वेश्वर प्रभो ॥१९॥
अयं पापी दुरात्मा च ब्राह्मणानां च दुःखदः
सत्संगतिः कथं जाता तन्मे दुस्तरतो वद ॥२०॥
महादेव उवाच
एतेन नरदेवेन पूर्वजन्मनि यत्कृतम्
तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि ॥२१॥
पूर्वजन्मन्ययं देवि ब्राह्मणो वेदपाठकः
संपूज्य च महादेवं कृत्वा चातिथिपूजनम् ॥२२॥
भोजनं कुरुते नित्यमसौ वाडवसत्तमः
तेन पुण्यप्रभावेन पुरो पिंडारसंज्ञके ॥२३॥
राजा वै तत्र संजातः कुकर्दम इति श्रुतः
कर्मणा मनसा चैव न कृतं पुण्यमेव च ॥२४॥
तेन देवाभियोगेन मृतो वै प्रेतराडभूत्
शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः ॥२५॥
पूर्वजन्मकृतं पुण्यं न नश्यति सुरेश्वरि
तेन पुण्याभियोगेन संगतो गुरुणाश्रमे ॥२६॥
कहोडो वर्तते तत्र तेन दृष्टोऽथ प्रेतराट्
शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः ॥२७॥
गंभीराक्षो महापापी दुष्टैः प्रेतैश्च संयुतः
ऊर्द्ध्वरोमा जटायुक्तः कालरूपो भयंकरः ॥२८॥
एवं दृष्ट्वा तदा देवि विह्वलो वाडवोऽभवत्
कहोड उवाच
अस्मिन्मनोरमे चाहं स्थाने वै परमाद्भुते ॥२९॥
अग्निपालेश्वरे तीर्थे नित्यं तिष्ठामि भूमिप
यजमानस्त्वमस्माकं कथं जातोऽसि प्रेतराट् ॥३०॥
दुरात्मा दुष्टरूपश्च कालरूपो भयंकरः
केन कर्मविपाकेन जातो वै भूतले शुभे ॥३१॥
प्रेत उवाच
शृणु वाडव मे पापं पूर्वजन्मनि यत्कृतम्
अहं कुकर्दमो राजा पुरे पिंडारसंज्ञके ॥३२॥
तत्रस्थेन मया देव यत्कृतं तच्छृणुष्व हि
ब्रह्मणां हिंसनं चैव पुराऽसत्यादिभाषणम् ॥३३॥
प्रजानां पीडनं चैव जीवानां हिंसनं सदा
गवां वै दुःखकर्ताऽहं ब्राह्मणव्रतलोपनः ॥३४॥
अस्नातः सर्वदा विप्र सज्जनानां विदूषकः
विष्णुनिंदापरो नित्यं वैष्णवानां च निंदकः ॥३५॥
दुराचारो दुरात्मा च वृषलीसंयुतः सदा
तत्र तत्र प्रभुंजानो नाऽहं शौचपरायणः ॥३६॥
तेन कर्माभियोगेन मृतो वै द्विजराट्ततः
प्रेतयोनिं प्रपन्नोऽस्मि दुःखी जातो ह्यनेकधा ॥३७॥
यस्य माता पिता नास्ति यस्य स्वजनबांधवाः
तस्य बंधुर्गुरुर्माता पितापि गुरुरेव च ॥३८॥
इति ज्ञात्वा तु भो ब्रह्मन्मुक्तिं दातुं त्वमर्हसि ॥३९॥
कहोड उवाच
शृणु त्वं नृपतिश्रेष्ठ करिष्ये वचनं तव
मुक्तिं यास्यति वै सद्यो भवांस्त्विह न संशयः ॥४०॥
एकादश पुरोगाश्च प्रेता ये तव संगताः
ते चापि मुक्तिमायांति सुतीर्थेऽस्मिन्विशेषतः ॥४१॥
तदा वै तेन विप्रेण तीर्थे गत्वा सुरेश्वरि
सर्वैश्चकारयामास तिलपिंडोदकक्रियाः ॥४२॥
न मासो न तिथिर्देवी तीर्थे गत्वा पुनः पुनः
कर्त्तव्यं श्राद्धकर्मादि ब्रह्मणोक्तं पुरा मम ॥४३॥
कृते कर्मणि देवेशि मुक्तास्ते तीर्थराजके
विमानवरमारूढास्ते गता मामकीं पुरीम् ॥४४॥
संगता गोखुरा यत्र साभ्रमत्या सुरेश्वरि
तत्र स्नानं च दानं च कोटियज्ञफलं लभेत् ॥४५॥
यत्राग्नितीर्थं वर्तेत कपालेश्वरसंज्ञकम्
तत्र मुक्तिस्तु संप्रोक्ता सत्यं सत्यं भवेद्ध्रुवम् ॥४६॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे अग्निपालेश्वरमहिमानामैकोनचत्वारिंशत्यधिकशततमोऽध्यायः ॥१३९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP