उत्तरखण्डः - अध्यायः १९१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ईश्वर उवाच-
षोडशाध्यायसामर्थ्यं कथितं शृणु सांप्रतम्
स्पष्टं सप्तदशाध्यायमहिमांभोनिधिं शिवे ॥१॥
खड्गबाहोः सुतस्यैव भृत्यो दुःशासनोऽभवत्
तं गजं धर्तुमागत्य गजात्प्राप्तो यमक्षयम् ॥२॥
तद्वासनानिबद्धात्मा गजयोनिमवाप्य च
गीता सप्तदशाध्यायं श्रुत्वा प्राप्तः परं पदम् ॥३॥
देव्युवाच
दुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतम्
तदेव वद कल्याण विस्तरेण मम प्रभो ॥४॥
ईश्वर उवाच-
स्थितः कश्चन दुर्मेधा मंडलीककुमारकैः
बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः ॥५॥
गत्वा कतिपयान्येव पदानि जनवारितः
नाम्ना दुःशासनो मूढः प्रौढवाक्यमुदीरयन् ॥६॥
ततो निशम्य तद्वाक्यं क्रोधांधः सिंधुरोऽभवत्
न्यपतच्च स्खलत्पादः कंपमानकुमारकैः ॥७॥
ततो निपतितं किंचिदुच्छ्वसंतं गजो रुषा
ऊर्द्ध्वमुन्मूलयांचक्रे कृतांतकनिरंकुशः ॥८॥
गतासोरपि रोषेण तस्यास्थ्न्यां च गणं गजः
विकीर्णवान्पृथक्कृत्वा मत्तो दंतावलस्ततः ॥९॥
ततः कालेन संप्रेत्य गजयोनिमवाप सः
महांतं कालमनयत्सिंहलद्वीपभूपतेः ॥१०॥
मैत्री गरीयसी सार्द्धं खड्गबाहुमहीभुजा
ततोऽयं जलमार्गेण प्रापितो वारुणो मतः ॥११॥
जयदेवेन खड्गबाहोः प्रीत्या नीतो महीभुजा
जातिं स्मरन्स्वकीयां स पश्यन्बंधून्सहोदरान् ॥१२॥
दुःखेन महतास्तोकान्दिवसानत्यवाहयत्
उवास खड्गबाहोश्च गृहे तूष्णीमनिर्दिशन् ॥१३॥
स कदाचित्तु संतुष्टः समस्याश्लोकपूरणे
कस्मैचित्कवये प्रादात्तमुपायन हस्तिनम् ॥१४॥
शतेन तेन कविना रोगोपद्रवभीरुणा
मालवक्षोणिपालस्य विक्रीतश्चैत्यकुंजरः ॥१५॥
कियत्यपि गते काले पाल्यमानोऽपि यत्नतः
मुमूर्षुरभवत्तत्र कुंजरो दुर्जरज्वरः ॥१६॥
न जिघ्रति पयः शीतं नादत्ते कवलं गजः
स्वपित्यपि न सौख्येन मुंचत्यश्रूणि केवलम्
ततो हस्तिपकाख्यातं वृत्तांतमवनीपतिः ॥१७॥
आकर्ण्य स समायातो यत्रास्ते ज्वरितो गजः
स चावलोक्य भूपालं जगद्विस्मयकारिणीम् ॥१८॥
वाचमूचे गजः सम्यग्विसृष्टज्वरवेदनः
राजन्नशेषशास्त्रज्ञ राजनीतिपयोनिधे ॥१९॥
निर्जितारातिसंघात मुरारिचरणप्रिय
किमौषधैरलं वैद्यैः किं धानैः किं नु जापकैः ॥२०॥
गीतासप्तदशाध्यायजापकं द्विजमानय
तेनायं मामको रोगः शाम्यत्यत्र न संशयः ॥२१॥
यथादिष्टं गजेनासौ तथा चक्रे नराधिपः
ततो गजत्वमुत्सृज्य मुक्तो दुःशासनोऽभवत् ॥२२॥
तेन विप्रेणाभिमंत्र्य जले क्षिप्ते तदुत्तमे
अथ दिव्यं समारूढं विमानमवनीपतिः ॥२३॥
तं दुःशासनमद्राक्षीत्पाकशासनतेजसम् ॥२४॥
राजोवाच
किं जातीयः किमात्मा त्वं किं वृत्त इति मे वद
केन वा कर्मणा जातो गजः कथमिहागतः ॥२५॥
पृष्टो राज्ञा विमुक्तोऽसौ विमानस्थः स्थिराक्षरम्
वृत्तं यथा यदाचख्यौ निजं दुःशासनः क्रमात् ॥२६॥
गीतासप्तदशाध्यायं जपन्मालवभूपतिः
नरवर्माभवन्मुक्तः कालेनाल्पीयसा ततः ॥२७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकनवत्यधिकशततमोऽध्यायः ॥१९१॥
N/A
References : N/A
Last Updated : November 21, 2020
TOP