संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २०५

उत्तरखण्डः - अध्यायः २०५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शिवशर्मोवाच-
एकदाऽत्र महातीर्थे पंके मग्नां पयस्विनीम्
दृष्ट्वा स राक्षसश्रेष्ठस्तामुद्धर्तुं विवेश ह ॥१॥
गोरक्षणे महान्धर्मो रक्षतुः स्वर्गतिर्भवेत्
चिंतयन्निति मध्ये तु सगृहीतोंबुहस्तिना ॥२॥
नीतस्तु वारिणोऽधस्ताज्जलपूर्णोदरस्तदा
तत्याज जीवितं सद्यस्तेन पीडितविग्रहः ॥३॥
दिव्यरूपं समास्थाय विमानमपि ढौकितम्
गणेन प्रहितेनाथ दैवैरिंद्रपुरोगमैः ॥४॥
गच्छन्निति मया पृष्टः स निशाचरपुंगवः
मुक्तिदेऽत्र महातीर्थे मृत्युं प्राप्य सदुर्लभे ॥५॥
कथं देवपदप्राप्तिर्जाता तव महामते
इत्युक्तो मामुवाचेदं वांछासीदत्र मेऽनघ ॥६॥
तस्मिन्गते पुण्यजने स्वर्गं पुण्यवतां पदम्
एकाकिना मया विष्णुः सद्गतिः प्रापितस्तदा ॥७॥
गच्छंस्तिष्ठन्स्वपन्जाग्रत्स्नानं कुर्वंश्च नित्यशः
तमेव पुंडरीकाक्षमहं दध्यावनन्यधीः ॥८॥
हरे तव पदांभोजमहं शरणमागतः
ब्रह्मत्वे च महेशत्वे नेंद्रत्वे मम मानसम् ॥९॥
प्रार्थयन्नित्यहं तात तमेव पुरुषोत्तमम्
उषितोऽत्र महातीर्थे कृत्वा निर्विषयं मनः ॥१०॥
विष्णुशर्मोवाच-
वसतोऽत्र महातीर्थे मरणं चेत्तवाभवत्
कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः ॥११॥
मर्यादां यस्य तीर्थस्य त्यक्त्वापि धनलोभतः
राक्षसान्मरणं प्राप्ताः पथिकस्ते च वाहकाः ॥१२॥
यस्य तीर्थवरस्यास्य जलपानाद्दिवंगताः
तथैव राक्षसोऽप्यस्मिन्नपमृत्युमवाप्य सः ॥१३॥
नक्रतः स्वेच्छया स्वर्गं जगाम तव पश्यतः
न नूनं तत्र मरणं जातं यज्जन्म दृश्यते ॥१४॥
नारद उवाच-
शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः
उवाच पूर्ववृत्तांतं कारणं निजजन्मनः ॥१५॥
शिवशर्मोवाच-
विष्णुशर्मन्शृणुष्वेदं कारणं मम जन्मनः
कथयामि तवाग्रेऽहं श्रुत्वा निःसंशयो भव ॥१६॥
एकदा विष्णुपूजायां मयि ध्यानं समास्थिते
दुर्वासाः प्रकृतिक्रोधी ममाश्रममुपागतः ॥१७॥
तमागतमविज्ञाय विष्णुध्यानपरायणः
तस्थिवांस्तदवस्थोऽहं चिरं तं नामसंस्मरन् ॥१८॥
समुहूर्तं मुनिः स्थित्वा ममाग्रे क्रोधमूर्छितः
आत्मनात्मानमाहेदमुच्चैरारक्तलोचनः ॥१९॥
दुर्वासा उवाच-
अहो अत्रेरहं पुत्रोऽनसूयागर्भसंभवः
शिवांशो मानुषेणालमवज्ञातोऽमुना भवम् ॥२०॥
त्रिलोकीराज्यतः शक्रो मया येन प्रपातितः
तं मामपि मनुष्योऽयमवजानाति दुर्मतिः ॥२१॥
यो बिभेति न कः सोसि मत्तः कालानलादिव
मुक्त्वा देवत्रयीं लोके यतः सार्हत्तमा मम ॥२२॥
यामसौ ध्यायते मूढो देवतां ध्यानमास्थितः
न कथं बोधयत्येनं सेति मूर्त्तिस्थितो यमः ॥२३॥
नूनं नारायणं देवं ध्यायत्येष जगद्गुरुम्
यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् ॥२४॥
हरिं वा ब्रह्म वा शंभुमन्यं वा ध्यायतामहम्
मयायं सर्वथा दंड्यो मदवज्ञाकरो ह्ययम् ॥२५॥
शिवशर्मोवाच-
एवं विचिंतयित्वा स सुमतिं मामबोधयत्
शशाप च विबुद्धं मामितिक्रोधारुणेक्षणः ॥२६॥
मामवज्ञाय यश्चित्ते ध्यानकाले मनोरथः
कुतस्तेन भवेह्यस्मिन्भविष्यति हि सर्वथा ॥२७॥
इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः
तदा मया चरणयोर्गृहीतोभयभीरुणा ॥२८॥
इत्युक्तश्च मुनिश्रेष्ठ क्षम्यतां रुड्विमुच्यताम्
मादृशा न विजानंति सम्यक्कर्म भवादृशाम् ॥२९॥
शापं त्वं दत्तवान्घोरं सांप्रतं मे निरेनसः
प्रसीद मम नम्रस्य शापांते कुर्वनुग्रहम् ॥३०॥
इत्युक्तः कोपमुत्सृज्य दुर्वासा शीतलोभवत्
किमेतन्नोचितं तात स यतश्चंद्रशेखरः ॥३१॥
उवाचेति समां धीमांस्तं भूत्वा ब्राह्मणोत्तमः
अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे ॥३२॥
इति मामनुगृह्याथ स जगाम दिगंबरः
उषित्वा तद्दिनं तात मया सत्कारपूजितः ॥३३॥
न मुनेर्भाषितं मिथ्या चिंतयित्वाहमित्यपि ॥३४॥
जगाम स्वगृहं चित्ते पश्चात्तापं वहन्निति
अहो मे ध्यायतो नित्यं स तीर्थाश्रमिणस्तथा ॥३५॥
दर्शनं दुर्लभं जातं श्रीपतेरिह जन्मनि
चातकस्येव मेघस्य शुचौ संतापकारिणि ॥३६॥
कुतोऽयमागतो मह्यं वैकुंठगतिरोधकः
जनस्य प्रस्थितस्येव जलदो कालवारिमुक् ॥३७॥
न दोषोऽस्ति मुनेर्नूनं तस्यैवेच्छाहरेः खलु
सुदर्शनं हि दत्त्वापि ममजन्मांतरं कृतम् ॥३८॥
मया संसारभीतेन ग्राह्यं पादांबुजंहरेः
निदाघातपतप्तेन पथिकेनेव पादपः ॥३९॥
किं धनापत्ययोषिद्भिरनित्यैश्चान्यबंधुभिः
गोविंदपरमानंद रामेति ममजल्पतः ॥४०॥
उदासीनवदासीनः कुंटुबेषु हरिं भजन्
प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्यतर्जयन् ॥४१॥
चिंतयन्नित्यहं तात कियद्भिर्वासरैरहम्
प्राप्तवान्स्वगृहं स्नात्वा हरिपादोदकांतरे ॥४२॥
पितुर्मरणमाख्यातं मात्रे बंधुभ्य एव च
श्रुत्वा तेऽपि शुचं चक्रुर्नाविंदन्निममस्थिरम् ॥४३॥
सत्यलोकादि लोकेषु निस्पृहोऽहं गृहे वसन्
मरणं प्राप्तवान्कूले गंगाया मुनिसेविते ॥४४॥
मुनेर्दुर्वाससः शापाज्जातोऽहं वैष्णवे कुले
मरणं चात्र सत्तीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् ॥४५॥
नारद उवाच-
एवं सुराचार्यविनिर्मिते तदा तीर्थे महाभाग पुराकृतानि तौ
द्विजोत्तमौ प्रोच्य मिथः सुतस्थतुर्विचिंतयंतौ हरिपादपल्लवम् ॥४६॥
विचिंतयंतौ हरिमब्जलोचनं चतुर्भुजं नीरदनीलविग्रहम्
निजायुधालंकरणावभासितं स्मृत्वात्र सारूप्यमवापतुर्हरेः ॥४७॥
यस्य क्षेत्रमिमं पुण्यमिंद्रप्रस्थाख्यमुत्तमम्
तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु ॥४८॥
गंगास्नानेन यत्पुण्यं कन्यादानोद्भवं च यत्
श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः ॥४९॥
पुत्रे जाते तु गोदानात्सिंहगे च बृहस्पतौ
गोदावरीजले स्नानाद्यत्फलं भुवि जायते ॥५०॥
तत्फलं श्रवणादस्य जायते नात्र संशयः
अतस्तीर्थोत्तमादन्यत्तीर्थं नास्त्यखिलार्थदम्
यस्मिन्मरणतो नूनं तिर्यंचोऽपि चतुर्भुजाः ॥५१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये निगमबोधोपाख्यानं नाम पंचाधिकद्विशततमोऽध्यायः ॥२०५॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP