उत्तरखण्डः - अध्यायः ९४
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
नारद उवाच-
कार्तिकव्रतिनां पुंसां नियमा ये प्रकीर्तिताः
ताञ्छृणुष्व मया राजन्कथ्यमानान्समंततः ॥१॥
सर्वामिषाणि मांसानि क्षौद्रं सौवीरकं तथा
राजमाषादिकं चापि नैवाद्यात्कार्तिकव्रती ॥२॥
द्विदलं तिलतैलं च तथान्नमश्रुदूषितम्
भावदुष्टं शब्ददुष्टं वर्जयेत्कार्तिकव्रती ॥३॥
परान्नं च परद्रोहं परदारागमं तथा
तीर्थे प्रतिगृहं नापि गृह्णीयात्कार्तिकव्रती ॥४॥
देवदेवद्विजानां च गुरोश्च व्रतिनस्तथा
स्त्रीराजमहतां निंदां वर्जयेत्कार्तिके व्रती ॥५॥
प्राण्यंगमामिषं चूर्णं फले जंबीरमामिषम्
धान्ये मसूरिका प्रोक्ता चान्नं पर्युषितं तथा ॥६॥
अजागोमहिषीक्षीरादन्यदुग्धादि चामिषम्
द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ॥७॥
ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम्
आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः ॥८॥
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम्
चतुर्थकाले भुंजीत कुर्यादेवं सदा व्रती ॥९॥
नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत्
अन्यत्र कार्तिकस्नायि तैलाभ्यंगं न कारयेत् ॥१०॥
पलांडुं लशुनं शिग्रु छत्राकं गृंजनं तथा
नालिकां मूलकं हिंगुं वर्जयेत्कार्तिकव्रती ॥११॥
अलाबुं चापि वृंताकं कूष्मांडं बृहतीफलम्
श्लेष्मातकं कपित्थं च वर्जयेद्वैष्णवव्रती ॥१२॥
रजस्वलांत्यज म्लेच्छ पतितव्रात्यकैः सह
द्विजातिवेदबाह्यैश्च न वदेत्कार्तिकव्रती ॥१३॥
श्वभिर्दृष्टं च काकैश्च सूतकान्नं च वर्जयेत्
द्विःपाचितं च दग्धान्नं वर्जयेत्कार्तिकव्रती ॥१४॥
तिलाभ्यंगं तथा शय्यां परान्नं कांस्यभोजनम्
कार्तिके वर्जयेद्यस्तु परिपूर्णव्रती भवेत्
एतानि वर्जयेन्नित्यं व्रती सर्वव्रतेष्वपि
कृच्छ्राद्यं चापि कुर्वीत स्वशक्त्या विष्णुतुष्टये ॥१५॥
क्रमात्कूष्मांड वृंताकं बृहती मूलकं तथा
श्रीफलं च कलिंगं च फलं धात्रीभवं तथा ॥१६॥
नारिकेरं महालाबुं पटोलं बदरीफलम्
चर्म वैकतकं चापि बिसं वै कट्फलं तथा ॥१७॥
शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु
धात्रीफलं रवौ तद्वद्वर्जयेत्सर्वदा गृही ॥१८॥
एभ्योऽपि वर्जयेत्किंचिद्यद्विष्णुप्रीतये नरः
तत्पुनर्ब्राह्मणे दत्त्वा भक्षयेत्सर्वदैव हि ॥१९॥
एवमेव हि माघेऽपि कुर्याद्वै नियमान्व्रती
हरिजागरणं तत्र विधिप्रोक्तं च कारयेत् ॥२०॥
यथोक्तकारिणं दृष्ट्वा कार्तिकव्रतिनं नरम्
यमदूताः पलायंते गजाः सिंहार्दिता यथा ॥२१॥
वरं विष्णुव्रतं ह्येतदथ यज्ञशताधिकम्
यज्ञकृत्प्राप्नुयात्स्वर्गं वैकुंठं कार्तिकव्रती ॥२२॥
भुक्तिमुक्तिप्रदानीह यानि क्षेत्राणि भूतले
वसंति तानि तद्गेहे कार्तिक्रव्रतकारिणः ॥२३॥
दुःस्वप्न्नं दुष्कृतं किंचिन्मनोवाक्कायकर्मजम्
कार्त्तिकव्रतिनं दृष्ट्वा विलयं यांति तत्क्षणात् ॥२४॥
कार्त्तिकव्रतिनः पुंसो विष्णुवाक्यप्रणोदिताः
रक्षां कुर्वंति शक्राद्या राज्ञो वै किंकरा यथा ॥२५॥
विष्णुव्रतकरा नित्यं यत्र तिष्ठंति पूजिताः
ग्रहभूतपिशाचाद्या नैव तिष्ठंति तत्र वै ॥२६॥
कार्त्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः
न समर्थो भवेद्वक्तुं ब्रह्मापीह चतुर्मुखः ॥२७॥
विष्णुप्रियं सकलकल्मषनाशनं च सर्वत्र पुत्रधनधान्यसमृद्धिकारि
ऊर्जे व्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलन सेवया च ॥२८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनोनाम चतुर्नवतितमोऽध्यायः ॥९४॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP