संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २५३ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २५३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २५३ Translation - भाषांतर श्रीपार्वत्युवाच-भगवन्सर्वमाख्यातं वैभवावस्थितं हरेःएतस्मिन्रामकृष्णाभ्यां चरित्रमति विस्मितम् ॥१॥अहो रामस्यचरितं कृष्णस्य च महात्मनःशृण्वत्या मम देवेश कल्पांतरशतैरपि ॥२॥तृप्तिं नैवेति भूतेश चेतो हरिकथामृतम्अधुना श्रोतुमिच्छामि विष्णोर्माहात्म्यमुत्तमम्तत्पूजनविधिं देव श्रोतुमिच्छाम्यहं तथा ॥३॥श्रीरुद्र उवाच-शृणु देवि प्रवक्ष्यामि हरेश्च सुमहात्मनःस्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितम् ॥४॥शिला मृद्दारुलोहाद्यैः कृत्वा प्रतिकृतिं हरेःश्रौतस्मार्तागमप्रोक्तक्रियासंस्थापनं हि यत् ॥५॥तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणुयस्मिन्संनिहितो विष्णुः स्वयमेव नृणां भुवि ॥६॥पाषाणदार्वोरात्मेशः स्वयं व्यक्तं हि तत्स्मृतम्स्वयं व्यक्तं स्थापितं वा पूजयेन्मधुसूदनम् ॥७॥देवतानां मर्हषीणामर्चनार्थे सनातनःस्वयमेव जगन्नाथः सान्निध्यं याति केशवः ॥८॥यस्य यद्विग्रहे भोग्यं तदेवाविरभूद्भुवितदेव पूजयेन्नित्यं तस्मिन्नेव रमेत्सदा ॥९॥श्रीरङ्गशायी देवेशो विधिनार्च्यः सुरोत्तमःस एवेक्ष्वाकुनाथानां तपसाविरभूद्भुवि ॥१०॥ममापि काश्यां संपूज्यो माधवः कलुषापहःयत्र यत्र गृहे रम्ये स्वयं व्यक्तः सनातनः ॥११॥तत्रतत्र समागम्य रमेऽहं संव्यवस्थितःनाष्टांगयोगे यज्ञेशस्त्वर्चायां विंदते नृणाम् ॥१२॥चक्षुषोर्विषयं प्राप्य ददाति वरमीप्सितम्सर्वावस्थासु सौलभ्यमर्चायां लभ्यते जनैः ॥१३॥अज्ञानामपि सान्निध्यं सर्वदा पृथिवीतलेजंबूद्वीपे महापुण्ये वर्षे वै भारते शुभे ॥१४॥अर्चायां संनिधौ विष्णुर्नेतरेषु कदाचनतत्तस्माद्भारते वर्षे मुनिभिस्त्रिदशैरपि ॥१५॥सेवितः सततं देवि तपोयज्ञक्रियादिभिःभारतेऽस्मिन्महावर्षे नित्यं संनिहितो हरिः ॥१६॥ऐंद्रद्युम्ने तथा कौर्मे सिंहाद्रौ करवीरकेकाश्यां प्रयागे सौम्ये च शालग्रामाचले तथा ॥१७॥द्वारवत्यां नैमिषे च तथा बदरिकाश्रमेकृतशौचे हरेत्पापं पौंडरीके च दंडके ॥१८॥माथुरे वेङ्कटाद्रौ च श्वेताद्रौ गरुडाचलेकांच्यामनंतशयने श्रींरगे वासवाचले ॥१९॥नारायणाचले सौम्ये वाराहे वामनाश्रमेएवमाद्याः स्वयं व्यक्ताः सर्वकामफलप्रदाः ॥२०॥स्वयमेव हि सान्निध्यं यस्मिन्याति जनार्दनःतस्मिन्नेव स्वयं व्यंक्तं वदंति मुनयः शुभाः ॥२१॥महाभागवतश्रेष्ठो विधिना स्थाप्य केशवम्मंत्रेण कुर्यात्सांनिध्यं स्थापनं तद्विशिष्यते ॥२२॥तस्मिन्संपूजयेद्देवं ग्रामेषु च गृहेषु चशालग्रामशिलायां तु गृहार्चा सद्भिरिष्यते ॥२३॥अर्चनं मंत्रपठनं यागयोगो महात्मनःनामसंकीर्तनं सेवा तच्चिह्नैरंकनं तथा ॥२४॥तदीयाराधनं च स्यान्नवधा भिद्यते शुभेतत्तत्कर्मविधानं च विप्रस्य सततं स्मृतम् ॥२५॥महाभागवतः श्रेष्ठो ब्राह्मणो वै गुरुर्नृणाम्सर्वेषामेवलोकानामसौ पूज्यो यथा हरिः ॥२६॥तापादिपंच संस्कारि नवेज्याकर्मकारकःअर्थपंचकविद्विप्रो महाभागवतः स्मृतः ॥२७॥तत्तत्कर्मविधानेज्या क्षत्त्रियस्य विधीयतेतच्चिह्नैरंकने सेवा तदीयानां च पूजनम् ॥२८॥मंत्रवर्णस्य जपनं नामसंकीर्तनं हरेःवंदनं च विशां प्रोक्तं षट्कर्मेज्याविधानतः ॥२९॥नामसंकीर्तनं सेवा पूजनं वंदनं तथाअर्चनं च तदीयानां पंचेज्या शूद्रजन्मनः ॥३०॥साधारणेन सर्वेषां मानसेज्या नृणां प्रियेस्वाधिकारानुरूपं च कार्या चेज्या जगत्पतेः ॥३१॥अनन्यदेवताभक्तैरनन्यफलसाधकैःवेदविद्ब्रह्मतत्त्वज्ञैर्वीतरागैर्मुमुक्षुभिः ॥३२॥गुरुभक्तिसमायुक्तैः सुप्रसन्नैः सुसाधुभिःब्राह्मणैरितरैश्चापि पूजनीयो हरिः सदा ॥३३॥यथोचिता च वर्णस्य कार्या इज्या हरेर्नृणाम्वर्णाश्रमानुरूपं च कर्त्तव्यं वैष्णवैः शुभैः ॥३४॥श्रुतिस्मृत्युदितं सम्यङ्नित्यमत्र समाचरेत्श्रुतिस्मृत्युक्तकर्माणि नातिक्रामेत बुद्धिमान् ॥३५॥श्रुतिस्मृत्युक्तमाचारं यो न सेवेत वैष्णवःस च पाखंडमापन्नो रौरवे नरके वसेत् ॥३६॥तस्माद्वर्णानुरूपां वै कुर्यादिज्यां जगत्पतेःतस्मात्स्मृत्युक्तमाचारं कुर्याद्वै मानवः सदा ॥३७॥साधारणा हि सर्वेषां मानसेज्या शुभे नृणाम्स्वाधिकारं निरीक्ष्यैव कर्म कुर्यादतंद्रितः ॥३८॥शमोदमस्तपः शौचं सत्यमामिषवर्जनम्अस्तेयमेवाहिंसा च सर्वेषां धर्मसाधनम् ॥३९॥तस्माद्वर्णानुरूपेण पूजयेन्मधुसूदनम्रात्रावंते समुत्थाय उपस्पृश्य यथाविधि ॥४०॥नमस्कृत्य गुरून्स्वस्य संस्मरेदच्युतं हृदिसहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ॥४१॥बहिर्ग्रामात्समुसृज्य मूलमंत्रं यथाविधिशौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ॥४२॥दंतधावनपूर्वं तु स्नानं कुर्याद्यथाविधिआदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ॥४३॥मूलमंत्रेणाभिमंत्र्य गायत्र्या च शुभाननेमंत्रेणैवानुलिप्तांगः स्नायात्कृत्वाघमर्षणम् ॥४४॥हरिपादोद्भवां गंगां तत्रावाह्य सुनिर्मलेनिमज्ज्याशु जपेत्सूक्तमघमर्षणमुत्तमम् ॥४५॥आचम्य मार्जनं कुर्यात्पौरुषोक्तक्रमादथपश्चादाशु निमज्ज्याथ मूलमंत्रं जपेद्बुधः ॥४६॥अष्टाविंशतिवारं वा शतमष्टोत्तरं च वाप्रार्थयेदभिमंत्र्याथ जलमंत्रेण वैष्णवः ॥४७॥आचम्य तर्पयेद्देवान्नृषींश्चैव पितॄंस्तथानिपीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः ॥४८॥विमलां मृत्तिकां रम्यामादाय द्विजसत्तमःमंत्रेणैवाभिमंत्र्याथ ललाटादिषु वैष्णवः ॥४९॥धारयेदूर्द्ध्वपुंड्रानि यथासंख्यमतंद्रितःउपास्य विधिवत्संध्यां सावित्रीं च जपेद्बुधः ॥५०॥ संयतात्मा गृहं गत्वा पादौ प्रक्षाल्य वाग्यतःआचम्यैकाग्रमनसा पूजामंडपमाविशेत् ॥५१॥रम्ये शुभ्रतरे पीठे पुष्पोपचय शोभितेतस्मिन्निवेश्य देवं तं लक्ष्मीनारायणं प्रभुम् ॥५२॥पूजयेद्विधिना सम्यग्गंधपुष्पाक्षतादिभिःस्थापने वा स्वयं व्यक्ते गृहार्चायां विधानतः ॥५३॥श्रौतस्मार्तागमोक्तानामर्चनं विधिना द्विजःकुर्याद्भक्त्या यथार्हं च विष्णोः प्रयतमानसः ॥५४॥यथोपदिष्टं गुरुणा तथा कुर्वीत वैष्णवःश्रौतं वैखानसं प्रोक्तं वासिष्ठं स्मार्तमुच्यते ॥५५॥पंचरात्रविधानं च दिव्यागममितीरितम्क्रियालोपं न कर्त्तव्यं विष्णोराराधनं परम् ॥५६॥आवाहनासनार्घ्याद्यैर्गंधपुष्पाक्षतादिभिःधूपैर्दीपैश्च नैवेद्यैस्तांबूलाद्यैर्नमस्कृतैः ॥५७॥कुर्यादाराधनं विष्णोर्यथाशक्त्या मुदान्वितःप्रत्यृचं पुरुषसूक्तेन मूलमंत्रेण वैष्णवः ॥५८॥मंत्रद्वयेन कुर्वीत षोडशैरुपचारकैःभूयः प्रत्युपचारेषु दद्यात्पुष्पाञ्जलिं ततः ॥५९॥आवाहयेज्जगन्नाथं मुद्रया चैव वैष्णवःआसनं तु यथा दद्यात्पुष्पकेण च मुद्रया ॥६०॥दीपार्घ्याचमनं स्नानं पात्रस्थैर्विमलैर्जलैःमंगलद्रव्यसंयुक्तैस्तुलसीदलमिश्रितैः ॥६१॥दद्यात्प्रत्युपचारं तु मूलमंत्रद्वयेन चसुवासितेन तैलेन कुर्यादभ्यंजनं ततः ॥६२॥कस्तूर्याचंदेनेनापि कुर्यादुद्वर्त्तनादिकम्सुगंधवासितैस्तोयैः स्नाप्य मंत्रयुतैः शुभैः ॥६३॥वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधिमधुपर्कं ततो दद्याद्गंधं दद्यात्सुवासितम् ॥६४॥सुरभीणि सुपुष्पाणि भक्त्या सम्यङ्निवेदयेत्धूपं दशांगमष्टांगं दीपं च सुमनोहरम् ॥६५॥नैवेद्यं विविधं दद्यात्पायसापूपमिश्रितम्कर्पूरं तु सतांबूलं भक्त्या चैव निवेदयेत् ॥६६॥दीपैर्नीराजनं कृत्वा पुष्पमालां समर्चयेत्परिणीय प्रणम्याथ स्तुत्वा स्तोत्रैरनुत्तमैः ॥६७॥गरुडाङ्के शाययित्वा मङ्गलार्घ्यं निवेदयेत्संकीर्त्य नामभिः पुण्यैः पश्चाद्धोमं समाचरेत् ॥६८॥हरेर्नैवैद्यशेषेण जहुयाद्वह्निमंडलेप्रत्यृचं पौरुषं सूक्तं श्रीसूक्तं मंगलाह्वयम् ॥६९॥होतव्यमाज्यसंमिश्रं हविषा वैदिकानलेप्रोक्तेन मंत्ररत्नेन जुहुयाद्भक्तिसंयुतम् ॥७०॥अष्टोत्तरशतवारमष्टाविंशतिमेव चयज्ञरूपं महाविष्णुं ध्यायन्वै जुहुयाद्धविः ॥७१॥शुद्धजांबूनदनिभं शंखचक्रगदाधरम्समस्तवेदवेदांतसांगोपांगयुतं प्रभुम् ॥७२॥देव्या श्रिया समासीनं ध्यात्वा होमं समाचरेत्एकैकामाहुतिं पश्चान्नामभिर्जुहुयाद्धविः ॥७३॥नित्यान्भक्तान्समुदिदश्य महाभागवतोत्तमःभूलीला विमलाद्याश्च शक्तयः प्रथमं क्रमात् ॥७४॥अनंतं विहगेंद्रादि देवतास्तदनंतरम्वासुदेवादयः पश्चात्तथा शक्त्यादि देवताः ॥७५॥मूर्त्तयः केशवाद्याश्च तथा संकर्षणादयःमत्स्यकूर्मादयश्चैव तथा चक्रादिहेतयः ॥७६॥कुमुदादयश्च त्रिदशास्तथा चंद्रादिदेवताःइंद्रादिलोकपालाश्च तथा धर्मादिदेवताः ॥७७॥होतव्याः क्रमशस्तस्मिन्संपूज्याश्च विशेषतःएतद्वैकुंठहोमं तु महाभागवतोत्तमः ॥७८॥नित्यार्चनविधौ नित्यं कुर्वीत सुसमाहितःगृहार्चने गृहद्वारि पंचयज्ञविधानतः ॥७९॥दत्त्वा बलिविधानेन पश्चादाचमनं चरेत्उपविश्यासने शुभ्रे कृष्णाजिनकुशोत्तरे ॥८०॥मंत्रयोगे प्रकुर्वीत भोगार्थं सुखमात्मनःसम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ॥८१॥प्राणायामत्रयं कुर्यान्मन्त्रेण विजितेंद्रियःउदङ्मुखं ततः कृत्वा हृत्पङ्कजमनुत्तमम् ॥८२॥विकासं तस्य कुर्वीत विज्ञानरविणा हृदितत्कर्णिकायां वह्न्यर्कशशिबिंबान्यनुक्रमात् ॥८३॥त्रयं त्रयीमये तस्मिंश्चिंतयेद्वैष्णवोत्तमःनानारत्नमयं पीठं तेषामुपरि चिंतयेत् ॥८४॥तस्मिन्हृत्पद्ममूलांते बालार्कसदृशद्युतिम्अष्टैश्वर्यदलं पद्मं मंत्राक्षरमयं चरेत् ॥८५॥तस्मिन्देव्या समासीनं कोटिशीतांशुसंनिभम्चतुर्भुजं सुंदरांगं शंखचक्रगदाधरम् ॥८६॥पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम्श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रधरं प्रभुम् ॥८७॥विचित्राभरणैर्युक्तं दिव्यमंडनमंडितम्दिव्यचंदनलिप्तांगं दिव्यपुष्पोपशोभितम् ॥८८॥तुलसीकोमलदलवनमालाविभूषितम्बालार्ककोटिसदृशं कांत्या देव्या श्रिया सह ॥८९॥सर्वलक्षणलक्षण्या समाश्लिष्टतनुः शिवम्एवं ध्यात्वा जपेन्मंत्रं समाहितमनाः शुचिः ॥९०॥सहस्रं शतवारं वा यथाशक्त्याऽथवापि चमनसैवार्चनं कृत्वा विरमेत्तत्र भक्तितः ॥९१॥तदीयानर्च्चयेद्भक्त्या तस्मिन्काले समागतान्तर्पयित्वान्नपानाद्यैरनुव्रज्य विसर्जयेत् ॥९२॥अर्च्चयित्वा पितॄन्देवांस्तर्पयेच्च विधानतःसंपूज्यातिथिभृत्यांश्च भुंजीयातां च दम्पती ॥९३॥यक्षराक्षस भूतानामर्चनं वर्जयेत्सदायो मोहात्कुरुते विप्रः स चांडालो भवेद्ध्रुवम् ॥९४॥यक्षाणां च पिशाचानां मद्यमांसभुजां तथादिवौकसां तु भजनं सुरापानसमं स्मृतम् ॥९५॥ब्रह्मराक्षसवेतालयक्षभूतार्चनं नृणाम्कुंभीपाकमहाघोर नरकप्राप्तिसाधनम् ॥९६॥कोटिजन्मकृतं पुण्यं यज्ञदानक्रियादिकम्सद्यः सर्वं लयं याति यक्षभूतादिपूजनात् ॥९७॥स्त्रियो वा पुरुषो वापि यक्षभूतादिकार्च्चनात्कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥९८॥क्रिमिर्भूत्वाथ विष्ठायां पितृभिः सह मज्जतियक्षाणां च पिशाचानां तामसानां दिवौकसाम् ॥९९॥निवेदितान्नं योऽश्नाति पूयशोणितभुग्भवेत्यक्षान्भूतगणांश्चान्यान्क्रूरान्वै ब्रह्मराक्षसान् ॥१००॥ उद्दिश्य भुङ्क्ते यो विप्रः सद्यश्चाण्डाल एव सःया नारी पूजयेद्यक्षान्पिशाचोरगराक्षसान् ॥१०१॥सा याति नरकं घोरं कालसूत्रमधोमुखीपितृभिः सह कल्पांतमुषित्वा तत्र दारुणे ॥१०२॥लिहन्मूत्रपुरीषं वै कृच्छ्रात्सूचिमुखैस्तथाकृमिभिर्भक्षमाणांगो यावदाभूतसंप्लवम् ॥१०३॥पश्चाद्भूमौ दशाहेषु जायते शतसंख्ययातस्माद्यक्षादिकानां च देवानामर्च्चनं त्यजेत् ॥१०४॥स्वतंत्रपूजनं यत्र वैदिकानामपि त्यजेत्अर्च्चयित्वा जगद्वंद्यं देवं नारायणं हरिम् ॥१०५॥तदावरणसंस्थानं देवस्य परितोऽर्च्चयेत्हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिःक्षिपेत् ॥१०६॥होमं चैव प्रकुर्वीत तच्छेषेणैव वैष्णवःहरेर्निवेदितुं सम्यग्देवेभ्यो जुहुयाद्धविः ॥१०७॥पितृभ्यश्चापि तद्दद्यात्सर्वमानंत्यमाप्नुयात्प्राणिनां पीडनं यत्तद्विदुषां निरयाय वै ॥१०८॥अदत्तं चैव यत्किंचित्परस्वं गृह्यते नरैःस्तेयं तद्विद्धि गिरिजे नरकस्यैव कारणम् ॥१०९॥लशुनं मद्यपानादि मूलकं गृंजनं तथातिलपिष्टं शिग्रु बिल्वं तथा कोशातकीं तथा ॥११०॥अलाबुं चैव वार्ताकं बीजालद्यं कवचानि चएवमन्यान्यभक्ष्याणि शास्त्रदृष्टानि वै नरः ॥१११॥खादन्नरकमाप्नोति विचित्रमशिवं तथाअवैष्णवानां यच्चान्नं पतितानां तथैव च ॥११२॥अनर्पितं तथा विष्णोः श्वमांससदृशं भवेत्यक्षराक्षसभूतान्नं सुरा मद्यं च गृञ्जनम् ॥११३॥योऽश्नाति निरयं याति पूयशोणितभोजनम्एतैः संस्थापनस्पर्शसहवासादिभिर्नरः ॥११४॥तेपियान्त्येव निरयं विण्मूत्रकृमिभोजनम्पतितानां च संसर्गात्पाखंडानां तथैव च ॥११५॥सर्वयज्ञस्यभोक्तारं पुराणं पुरुषोत्तमम्ज्ञात्वा सर्वं प्रकुर्वीत नित्यनैमित्तिकाः क्रियाः ॥११६॥यक्षराक्षसभूताश्च कूष्माण्डगण भैरवाःनार्च्चनीयाः सदा देवि स्वर्गलोकमभीप्सुभिः ॥११७॥यक्षराक्षसभूतानामर्च्चनं वर्जयेद्द्विजःपैशाचत्वमवाप्नोति कल्पकोटिशतत्रयम् ॥११८॥तस्माद्राक्षसभूतानामर्चनं प्रतिषिध्यतेकल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥११९॥रौरवं नरकं याति यक्षभूतगणार्चनात्शंखचक्रादिभिश्चिह्नैरन्यैः प्रियतमैर्हरेः ॥१२०॥रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत्अगम्यागमनाद्धिंसा परद्रव्यापहारणात् ॥१२१॥अभक्ष्यभक्षणात्सद्यो नरकं समवाप्नुयात्यस्तु पाणिगृहीतां च हित्वाऽन्यां यो स्त्रियं व्रजेत् ॥१२२॥अगम्यागमनं तद्धि सद्यो नरककारकम्पतितानां च संसर्गात्पाखंडानां तथैव च ॥१२३॥विकर्मस्थानां च तथा यात्येव निरयं नरःसंसर्गिणां च संसर्गं तत्संसर्गमपि त्यजेत् ॥१२४॥वैष्णवः कुलमेकं तु वर्जयेत्पापसंयुतम्एकांती संत्यजेद्ग्रामं महापातकमिश्रितम् ॥१२५॥तथैव परमेकान्ती तद्देशमपि वर्जयेत्स्वकर्म्मज्ञानभक्त्यादि साधनं वैष्णवं स्मृतम् ॥१२६॥हरेराज्ञानुरूपेण कर्मज्ञानादि यश्चरेत्स एकांती भवेद्विप्रो वासुदेवपरायणः ॥१२७॥अकृत्यं वैष्णवः पापबुद्ध्या सम्यक्परित्यजेत्एकांती संत्यजेच्छास्त्रं दूषणान्मनसापि च ॥१२८॥तथैव परमैकांती हेयबुद्ध्या परित्यजेत्नित्यं नैमित्तिकं काम्यं कृत्यं तु त्रिविधं स्मृतम् ॥१२९॥ज्ञानं तथैवलोकेऽस्मिन्मुनिभिः संप्रकीर्तितम्कृत्याकृत्यविवेकं च परलोकस्य चिंतनम् ॥१३०॥तत्प्राप्तिसाधनं विष्णोः स्वरूपज्ञानमेव चभक्तियुक्तो भवेद्भक्तो नवधा सा प्रकीर्तिता ॥१३१॥सुदर्शनोर्द्ध्वपुंड्रादि तच्चिह्नैरंकनं शुभम्सद्गुरोमंत्रपठनमर्चनं विधिना हरेः ॥१३२॥स्मरणं कीर्तनं विष्णोः सेवा च परमात्मनःप्रणामस्तस्य पुरतस्तदीयानां च पूजनम् ॥१३३॥प्रसादतीर्थसेवा च भक्तिर्नवविधा स्मृतायस्मात्प्रपद्यते देवं शरणं वैष्णवो हरिम् ॥१३४॥प्रपत्तिः सा तु विज्ञेया त्रिविधा संप्रकीर्तितातामसी राजसी चैव सात्विकी त्रिविधा स्मृता ॥१३५॥सापि त्रिधाकृता सिद्धिः सामान्या सर्वदेहिनाम्एतच्चतुष्टयं देवि हेयं संत्यज्य वैष्णवः ॥१३६॥उपायभूतं ब्रह्मैवमवलंबेत वैष्णवम्उपायभावात्संत्यज्य कर्मज्ञानादिकं नरः ॥१३७॥कुर्वीत भगवत्प्रीत्यै महाभागवतोत्तमःत्रिकालमर्चयेद्विष्णुं भक्त्या वै पुरुषोत्तमम् ॥१३८॥नैमित्तिके विशेषेण पूजयेद्विधिना शुभेप्रत्यहं कार्तिके मासि जातीपुष्पैः समर्चयेत् ॥१३९॥दद्यादखंडं दीपं च नियतात्मा दृढव्रतःब्राह्मणान्भोजयित्वांते हरिसायुज्यमाप्नुयात् ॥१४०॥धनुष्युषसि देवेशं मासमेकं निरंतरम्अर्चयेदुत्पलैर्देवि करवीरैः सितासितैः ॥१४१॥धूपदीपैश्च नैवेद्यैर्यथाशक्त्या निवेदयेत्समाप्तौ भोजयेद्विप्रान्महाभागवतोत्तमान् ॥१४२॥अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयम्तपो मास्युदिते भानौ स्नात्वा नद्यां विशेषतः ॥१४३॥अर्च्चयेन्माधवं पुष्पैरुत्पलैश्च शुभाननेपायसं सघृतं दिव्यं भक्त्या तत्र निवेदयेत् ॥१४४॥स्नात्वा संपूजयेद्विष्णुं मासमेकं निरंतरम्शर्करांबुयुतं नित्यमुद्यानं विनिवेदयेत् ॥१४५॥वैष्णवान्पूजयेद्भक्त्या मासान्ते शुभदर्शनेमधुमासि तथा नित्यं बकुलैश्चंपकैरपि ॥१४६॥पूजयेज्जगतामीशं गुडान्नं च निवेदयेत्मासांते वैष्णवान्विप्रान्भोजयेत्सुसमाहितः ॥१४७॥सहस्रवार्षिकीं पूजां प्रतिनित्यमवाप्नुयात्माधवे पूजयेद्देवं शतपत्रैर्महोत्पलैः ॥१४८॥पूजयित्वा विधानेन दध्यन्नं फलसंयुतम्गुडोदकं च भक्त्या वै तस्मिन्देवि निवेदयेत् ॥१४९॥लक्ष्म्या युक्तो जगन्नाथः प्रीतो भवति पार्वतिशुक्रे तु शुक्लकमलैः पाटलैः कुमुदोत्पलैः ॥१५०॥ अर्चयित्वा हृषीकेशमन्नं चूतफलैर्युतम्निवेदयित्वा भक्त्या वै गवांकोटिप्रदो भवेत् ॥१५१॥वैष्णवान्भोजयित्वाथ सर्वमानंत्यमाप्नुयात्आषाढे देवदेवेशं लक्ष्मीभर्तारमच्युतम् ॥१५२॥श्रीपुष्पैरर्चयेन्नित्यं पायसान्नं निवेदयेत्मासान्ते भोजयेद्विप्रान्महाभागवतोत्तमान् ॥१५३॥षष्टिवर्षसहस्रस्य पूजां प्राप्नोत्यसंशयःनभोमास्यर्चयेद्विष्णुं पुन्नागैः केतकीदलैः ॥१५४॥अर्चयित्वाच्युतं भक्त्या न भूयो जन्मभाग्भवेत्दद्यादपूपान्भक्त्याथ शर्कराघृतमिश्रितान् ॥१५५॥ब्राह्मणान्भोजयेत्तद्वत्सर्वमानंत्यमाप्नुयात्नभस्येऽप्यर्चयेदीशं कुंदैः कुरबकैरपि ॥१५६॥क्षीरान्नं गुडसंमिश्रं भक्त्या तत्र निवेदयेत्गवांकोटिप्रदानस्य प्रत्यहं फलमाप्नुयात् ॥१५७॥नीलोत्पलैरिषे मासि पूजयेन्मधुसूदनम्भक्त्या निवेदयेत्तस्मिन्क्षीरमापूपमिश्रितम् ॥१५८॥कल्पकोटिसहस्राणि कल्पकोटिशतानि चवैष्णवं लोकमाप्नोति मुदितः स्वजनैर्वृतः ॥१५९॥ऊर्जे मासि तथा देवि कोमलैस्तुलसीदलैःपूजयित्वाच्युतं भक्त्या तत्सायुज्यमवाप्नुयात् ॥१६०॥क्षीराज्यशर्करोपेतमन्नं वै पायसं तथाअपूपं च क्रमेणैव भक्त्या सम्यङ्निवेदयेत् ॥१६१॥अमायां मंदवारे च वैष्णवर्क्षे तथैव चरविसंक्रमे व्यतीपाते ग्रहणं चंद्र सूर्ययोः ॥१६२॥विशेषेणार्चयेद्विष्णुं यथाशक्त्या वराननेगुरोरुत्क्रांतदिवसे जन्मर्क्षेषु तथा हरेः ॥१६३॥इष्टिं च वैष्णवीं कुर्याच्छक्त्या वै द्विजसत्तमःदद्यात्पुष्पांजलिं तत्र प्रत्यर्चं वेदसंमितम् ॥१६४॥पारणं चापि कुर्वीत चरुणा पायसेन वावैष्णवान्भोजयेद्विप्राञ्छक्त्या दद्याच्च दक्षिणाम् ॥१६५॥कुलकोटिं समुधृत्य वैष्णवं पदमाप्नुयात्सर्ववेदैरशक्तश्चेद्यष्टुं भागवतोत्तमम् ॥१६६॥वैष्णवैरनुवाकैर्वा सप्तरात्रं निरंतरम्पुष्पांजलिसहस्रं तु होमं च प्रत्यहं चरेत् ॥१६७॥प्रीतये वा भगवतः प्रतिश्लोकं यजेदबुधःअथवा मंत्ररत्नं हि सप्तरात्रं निरंतरम् ॥१६८॥अष्टोत्तरसहस्रं तु जुहुयाद्धविषा यजेत्विशेषेणार्चयेद्विद्वान्महाभागवतोत्तमान् ॥१६९॥अंते चावभृथं कुर्याद्यथाविभवसारतःवैष्णवैरनुवाकैश्च कुर्यादवभृथं द्विजः ॥१७०॥अत्र स्नात्वा विधानेन यथाशक्त्या द्विजोत्तमःशुभे पात्रांतरे रम्ये पादौ प्रक्षाल्य भक्तितः ॥१७१॥अर्चयेद्गंधपुष्पाद्यैर्वस्त्रैराभरणादिभिःतांबूलेन फलैर्वापि यथाशक्त्या समर्चयेत् ॥१७२॥भोजयित्वान्नपानाद्यैः प्रणम्य च पुनःपुनःआसीमांतमनुव्रज्य नमस्कृत्य विसर्जितम् ॥१७३॥पुनः प्रणम्य भक्त्याथ शनैस्तत्र निवर्त्तितःगृहं प्रविश्य देवेशं पूजयेत्प्रयतात्मवान् ॥१७४॥एवमभ्यर्चयेद्विष्णुं यावज्जीवमतंद्रितःतदीयांश्च विशेषेण पूजयेत्सर्वदा शुभे ॥१७५॥आराधनानां सर्वेषां विष्णोराराधनं परम्तस्मात्परतरं देवि तदीयानां समर्चनम् ॥१७६॥अर्चयित्वापि गोविंदं तदीयान्नार्चयेत्पुनःन स भागवतो ज्ञेयः केवलं दांभिकः स्मृतः ॥१७७॥पुमांस्तस्मात्प्रयत्नेन वैष्णवान्पूजयेत्सदासर्वं तरति दुःखौघं महाभागवतार्चनात् ॥१७८॥एवमुक्तं मया देवि विष्णोराराधनं परम्नित्यनैमित्तिकं चैव तदीयानां च पूजनम् ॥१७९॥पौरुषं तस्य याथात्म्यं फलसाधनमेव चतस्यावसथदेहं च कर्माद्यपि चतुष्टयम्तव प्रोक्तं मया देवि किमन्यच्छ्रोतुमिच्छसि ॥१८०॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे विष्णुपूजाविधानवैष्णवाचारकथनंनाम त्रिपंचाशदधिकद्विशततमोऽध्यायः ॥२५३॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP