संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २३२ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २३२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २३२ Translation - भाषांतर शंकर उवाच-ततः सुरगणाः सर्वे दानवाद्या महाबलाःउत्पाट्य मंदरं शैलं चिक्षिपुः पयसांनिधौ ॥१॥ततो नारायणः श्रीमान्भगवान्भूतभावनःकूर्मरूपेण तं शैलं दधारामितविक्रमः ॥२॥अनादिमध्यांतवपुर्विश्वरूपः सनातनःअधारयद्गिरिवरं संपूज्यो जगदीश्वरः ॥३॥तथैकेन भुजेनैव ईश्वरः सर्वगोऽव्ययःततो देवासुराः सर्वे ममंथुः क्षीरसागरम् ॥४॥सर्प्पराजेन संवेष्ट्य घर्घरं मंदराचलम्मथ्यमानेऽथ दुग्धाब्धौ दैवतैः सुमहाबलैः ॥५॥उत्पादनार्थं लक्ष्म्याश्च सर्व एव महर्षयःउपोष्य नियमं कृत्वा जेपुः श्रीसूक्तमेव च ॥६॥सहस्रनामपठनं चक्रुर्दिव्या द्विजोत्तमाःएकादश्यां तु शुद्धायां मथ्यमाने महांबुधौ ॥७॥उपोष्य ऋषयः सर्वे जप्तं श्रीमंत्रमुत्तमम्कांक्षमाणाश्च ये जप्तुं लक्ष्मीनारायणं हरिम् ॥८॥ध्यात्वा समर्च्चयामासुर्द्विजाग्र्या मुनिसत्तमाःततस्तस्मिन्मुहूर्ते तु मथ्यमाने महांबुधौ ॥९॥समभूत्तत्र प्रथमं कालकूटं महाविषम्महापीडं महाघोरं संवर्ताग्निसमप्रभम् ॥१०॥दृष्ट्वा प्रदुद्रुवुः सर्वे भयार्ता देवदानवाःततस्तान्विद्रुतान्दृष्ट्वा भयार्त्तान्सुरसत्तमान् ॥११॥ततस्तानब्रुवं वाक्यमहं तत्र शुभेक्षणेभोभो देवगणाः सर्वैर्न भेतव्यं विषं प्रति ॥१२॥अहमाहारयिष्यामि कालकूटं महाविषम्इत्युक्तास्ते मया सर्वे देवा इंद्र पुरोगमाः ॥१३॥साधुसाध्विति वाक्यैर्मां तुष्टुवुः प्रणता भृशम्तद्दृष्ट्वा मेघसंकाशं प्रादुर्भूतं महाविषम् ॥१४॥ध्यात्वा नारायणं देवं हृदये गरुडध्वजम्उदयादित्यसंकाशं शंखचक्रगदाधरम् ॥१५॥श्रीभूमिसहितं देवं तप्तकांचनकुण्डलम्एकाग्रमनसा ध्यात्वा सर्वदुःखहरं प्रभुम् ॥१६॥नामरूपं महामंत्रं जप्त्वा लक्ष्म्यासमन्वितम्तद्विषं तु महाघोरमाद्यं सर्वभयंकरम् ॥१७॥नामत्रयप्रभावाच्च विष्णोः सर्वगतस्य वैविषं तदभवज्जीर्णं लोकसंहारकारकम् ॥१८॥अच्युतानंत गोविन्द इति नामत्रयं हरेःयो जपेत्प्रयतोभक्त्या प्रणवाद्यं नमोंतकम् ॥१९॥तस्य मृत्युभयं नास्ति विषरोगाग्निजं महत्नामत्रयं महामंत्रं जपेद्यः प्रयतात्मवान् ॥२०॥कालमृत्युभयं चापि तस्य नास्ति किमन्यतःइति नामत्रयेणैव पीतं देवि मया विषम् ॥२१॥ततः प्रहृष्टास्त्रिदशास्तुष्टुवुर्मां सुविस्मिताःमां प्रणम्य पुनर्देवा ममंथुः क्षीरसागरम्तस्मिन्प्रमथ्यमाने तु मया देवैश्च भामिनि ॥२२॥ज्येष्ठा देवी समुत्पन्ना रत्नस्रग्वाससा वृताउत्पन्ना साऽब्रवीद्देवान्किंकर्त्तव्यं मयेति वै ॥२३॥तामब्रुवंस्तु ते देवीं सर्वदेवगणा भृशम्देवा ऊचुःयेषां गृहांतरे रम्ये कलहः संप्रवर्त्तते ॥२४॥तत्ते स्थानं प्रयच्छामो वस तत्राशुभान्वितापरुषं भाषणं नित्यं वदंत्यनृतवादिनः ॥२५॥संध्याकाले तु ये पापाः स्वपंति मलचेतसःतेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी ॥२६॥कपालकेशभस्मास्थि तुषांगारानि यत्र तुतत्र ते सततं स्थानं भविष्यति न संशयः ॥२७॥यस्यवेश्म कपालास्थि भस्मकेशादि चिह्नितम्तत्र वसाशुभे नित्यं कलिना सह नित्यशः ॥२८॥अकृत्वा पादयोः शौचं यस्त्वाचामति दुर्म्मतिःतं भजस्व महादेवि कलुषेण भृशं वृतम् ॥२९॥तुषांगारकपालाश्मवालुका वस्त्र चर्म्मभिःदंतधावनकर्तारो भविष्यंति नराधमाः ॥३०॥रमस्व कलिना देवि तेषां वेश्मसु नित्यशःतिलपिष्टं कलंजं च कलिगं शिग्रु गृंजनम् ॥३१॥छत्राकं विड्वराहं च बिल्वं कोशातकीफलम्अलाबुं च पलांडुं च ये खादंति नराधमाःतेषां गेहे ह्यवस्थानं देवी दारिद्र्यदे सदा ॥३२॥रुद्र उवाच-इत्यादिश्य सुराः सर्वे ज्येष्ठां च कलिवल्लभाम्पुनश्च मंथनं चक्रुः क्षीराब्धिं सुसमाहिताः ॥३३॥ततश्च वारुणी देवी समुत्पन्ना शुभाननेअनंतो नागराजोऽथ तां जग्राह सुलोचनाम् ॥३४॥ततः सुरा समुत्पन्ना सर्वाभरणभूषितावैनतेयस्य भार्याभूत्सर्वलक्षणशोभिता ॥३५॥ततोऽप्सरोगणा दिव्या गंधर्वाश्च महौजसःजज्ञिरे रूपसंपन्ना मधुगायनतत्पराः ॥३६॥ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयःधन्वंतरिः पारिजातं सुरभिः सर्वकामधुक् ॥३७॥एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसःततः प्रभातसमये द्वादश्यामुदिते रवौ ॥३८॥मथ्यमाने पुनस्तस्मिन्देवैरिंद्र पुरोगमैःततः प्रहृष्टवदनैस्तूयमाना महर्षिभिः ॥३९॥उत्पन्ना श्रीर्महालक्ष्मी सर्वलोकेश्वरी शुभाबालार्ककोटिसंकाशा कनकांगदभूषिता ॥४०॥हेमांबुजसमासीना सर्वलक्षणशोभितापद्मपत्त्रविशालाक्षी नीलकुंचितमूर्द्धजा ॥४१॥दिव्यचंदनलिप्तांगी दित्यपुष्पैरलंकृतानानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ॥४२॥तनुमध्या जगद्धात्री पीनोन्नतपयोधराचतुर्हस्ता विशालाक्षी पूर्णेंदुसदृशानना ॥४३॥वसुपात्रं मातुलुंगं स्वर्णपद्मयुगं शुभम्विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ॥४४॥अम्लानपंकजां मालां धारयंती ह्युरः स्थलेददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ॥४५॥ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम्नारायणीं जगद्धात्रीं नारायणहृदालयाम् ॥४६॥तां विलोक्य महालक्ष्मीं प्रहृष्टाः सर्वदेवताःअवादयंतः पटहान् दिविदेवगणा भृशम् ॥४७॥ववर्षुः पुष्पवर्षाणि वनदेव्यो निरंतरम्जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥४८॥ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरःजज्वलुश्चाग्नयः शांताः प्रसन्नाश्च दिशो दश ॥४९॥अनंतरं शीतरश्मिरुदभूत्क्षीरसागरेसुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ॥५०॥नक्षत्राधिपतिश्चाभूच्चंद्रो वै लोकमातुलःततो जाया हरेः पुण्या तुलसी लोकपावनी ॥५१॥समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेःततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ॥५२॥तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाःसमेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ॥५३॥स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताःततः प्रसन्ना सा देवि सर्वान्देवानुवाच ह ॥५४॥श्रीरुवाच-वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाःरुद्र उवाच-ऊचुः प्रांजलयो देवाः श्रियं नम्रात्ममूर्तयः ॥५५॥देवा ऊचुः -प्रसीद कमले देवि सर्वलोकेश्वरप्रियेविष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ॥५६॥त्रैलोक्यं पालया देवी नित्या त्वं परमेश्वरीयदपांगाश्रितं सर्वं जगत्स्थावरजंगमम् ॥५७॥त्वया विलोकिताः सर्वे प्रभवंति दिवौकसःमाता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ॥५८॥एतदिच्छामहे देवि जगन्मातर्नमोस्तु तेरुद्र उवाच-इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी ॥५९॥एवमस्त्विति तान्देवान्प्राह नारायणप्रियाततो नारायणः श्रीशः शंखचक्रगदाधरः ॥६०॥तथैवाविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरेततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् ॥६१॥ऊचुः प्रांजलयः सर्वे प्रहृष्टवदनाः शुभाःदेवा ऊचुः-गृहाण देवीं सर्व्वेश महिषीं तव वल्लभाम् ॥६२॥जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम्रुद्र उवाच-इत्युक्त्वा मुनिभिः सर्वे देवा ब्रह्मपुरोगमाः ॥६३॥नानारत्नमये दिव्ये पीठे बालार्कसंनिभेनिवेश्य देवीं देवं च आनंदाश्रुपरिप्लुताः ॥६४॥दिव्याम्बरैर्दिव्यमाल्यैर्नानारत्नविभूषितैःलक्ष्म्या सह समासीनमर्चयामासुरच्युतम् ॥६५॥गंधैर्धूपैश्च दीपैश्च नैवेद्यैश्च सुधामयैःअप्राकृतैः फलैर्दिव्यैरर्चयामासुरीश्वरीम् ॥६६॥अमृतादुत्थिता देवी तुलसी कोमला शुभातया श्रीपादयुगलमर्च्चयामासुरंजसा ॥६७॥प्रदक्षिणत्रयं कृत्वा नमस्कृत्वा मुहुर्मुहुःतष्टुवुस्तुतिभिर्द्देवा हर्षपूर्णाश्रुविक्लवाः ॥६८॥ततः प्रसन्नो भगवान्सर्वदेवेश्वरो हरिःअभीष्टान्प्रददौ तेभ्यो वरान्देव्या सह प्रभुः ॥६९॥ततः सुहृष्टाः सुरमानुषाद्या लक्ष्मीकटाक्षार्प्पित दृष्टिपूताःप्रभूतधान्यार्थयुता निरंतरं सुखं परं प्रापुरनामया भृशम् ॥७०॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमा महेश्वरसंवादे लक्ष्म्युत्पत्तिर्नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥२३२॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP