संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २२६ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २२६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २२६ Translation - भाषांतर शंकर उवाच -न्यासेवाप्यर्चने वापि मंत्रमेकांतिनः श्रयेत्अवैष्णवोपदिष्टेन मंत्रेण न परा गतिः ॥१॥अवैष्णवोपदिष्टंचेत्पूर्वमंत्रवरंद्वयम्पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः ॥२॥सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितःकुले महति जातोऽपि न गुरुः स्यादवैष्णवः ॥३॥यस्तु मंत्रद्वयं सम्यगध्यापयति वैष्णवःस आचार्यस्तु विज्ञेयो भवबंधविदारकः ॥४॥आचार्यं संश्रयित्वाथ वत्सरं सेवयेद्दिवजःतस्य वृत्तिं परिज्ञात्वा मंत्रमध्यापयेद्गुरुः ॥५॥कृत्वा तापादिसंस्कारान्पश्चान्मंत्रमुदीरयेत्तापं पुंड्रं तथा नाम कृत्वा वै विधिना गुरुः ॥६॥पश्चादध्यापयेन्मंत्रं शिष्यं निर्मलचेतसम्चक्रेण विधिना तप्तं ताप इत्यभिधीयते ॥७॥पुंड्रमूर्द्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यतेततो मंत्रं विधानेन शिष्यमध्यापयेद्गुरुः ॥८॥न्यासमष्टाक्षरं मंत्रमन्यं वा वैष्णवं मनुम्न्यासमेवात्र परमं वैष्णवानां शुभानने ॥९॥तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यतेन्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते ॥१०॥न्यासात्परतरं नास्ति मन्त्रं सत्यं ब्रवीमि तेन्यासं द्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे ॥११॥द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत्द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति ॥१२॥तस्माद्वयमधीत्येव पश्चान्मंत्रमनुत्तमम्श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः ॥१३॥मंत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात्नैसर्गप्रणवाद्यन्तु मंत्रमित्युच्यतेबुधैः ॥१४॥नान्यत्र सर्वमंत्रेषु प्रणवस्वस्वभावतःपूर्वं तु सर्वमंत्राणां योजयेत्प्रणवं शुभम् ॥१५॥ॐकारः प्रणवं ब्रह्म सर्वमंत्रेषु नायकःआदौ सर्वत्र युंजीत मंत्राणां तु शुभानने ॥१६॥स्वभावात्प्रणवन्तस्मिन्मूलमंत्रे प्रतिष्ठितम्ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ ॥१७॥ततो नारायणायेति पंचार्णानि यथाक्रमम्एवमष्टाक्षरो मंत्रो ज्ञेयः सर्वार्थसाधकः ॥१८॥सर्वदुःखहरः श्रीमान्सर्वमंत्रात्मकः शुभःऋषिर्नारायणस्तस्य देवता श्रीश एव च ॥१९॥छंदस्तु देवी गायत्री प्रणवो बीजमुच्यतेनित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः ॥२०॥प्रथमं पदमोङ्कार द्वितीयं नम उच्यतेतृतीयं नारायणायेति पदत्रयमुदाहृतम् ॥२१॥अकारश्चाप्युकारश्च मकारश्च ततः परम्वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् ॥२२॥अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यतेमकारस्त्वनयोर्दासः पंचविंशः प्रकीर्तितः ॥२३॥वासुदेवस्वरूपं तदकारेणोच्यतै बुधैःउकारेण श्रियो देव्या रूपं मुनिभिरुच्यते ॥२४॥मकारेणोच्यते जीवः पंचविंशोदितः पुमान्भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च ॥२५॥ट वर्गेण तवर्गेण ज्ञानं धादयस्तथामनः पकारेणैवोक्तं फकारेण त्वहंकृतिः ॥२६॥बकारेण भकारेण महान्प्रकृतिरुच्यतेआत्मा तु समकारः स्यात्पंचविंशः प्रकीर्तितः ॥२७॥देहेंद्रियमनः प्राणादिभ्योन्योऽनन्यसाधनःभगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः ॥२८॥अवधारणवाच्येवमुकारः कैश्चिदुच्यतेश्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते ॥२९॥भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनीआकारेणोच्यते विष्णुः कल्याणगुणसागरः ॥३०॥श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान्जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबांधवः ॥३१॥जगतामीश्वरी नित्या विष्णोरनपगामिनीमाता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा ॥३२॥जगदाधारभूता श्रीरुकारेणात्र चोच्यतेमकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः ॥३३॥ज्ञानाश्रमो ज्ञानगुणश्चेतनः प्रकृतेः परःन जडो निर्विकारश्च एकरूप स्वरूपभाक् ॥३४॥अणुर्नित्यो व्याप्तिशीलश्चिदानंदात्मकस्तथाअहमर्थोऽव्ययः क्षेत्री भिन्नरूपं सनातनः ॥३५॥अदाह्योच्छेद्यो ह्यक्लैद्यस्त्वशोष्योक्षर एव चएवमादिगुणोपेतश्शेषभूतः परस्य वै ॥३६॥मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदादासभूतो हरेरेव नान्यस्य तु कदाचन ॥३७॥एवं दासत्वमेवास्य मध्यमेवावधार्यतेइत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानघे ॥३८॥विवृतिः प्रणवस्यार्थ मन्त्रशेषेण वै शुभेपरस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते ॥३९॥तस्मान्महदहंकारौ मनसा विनिवर्त्तयेत्स्वोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते ॥४०॥अहंकृतिर्मकारः स्यान्नकारस्तन्निषेधकःतस्मात्तु मनसैवास्य अहंकारविमोचनम् ॥४१॥मनसा सर्वसिद्धिः स्यादन्यथा नाशमाप्नुयात्नमसा सहितं किंचित्तदहंकार उच्यते ॥४२॥अहंकारेण युक्तस्य सुखं किंचिन्न विद्यतेअहंकारविमूढात्मा अंधे तमसि मज्जति ॥४३॥तस्मान्न मनसा चात्र स्वातंत्र्यं प्रतिषिध्यतेभगवत्परतंत्रोऽसौ तदायत्तश्च जीवति ॥४४॥तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यतेईश्वरस्यैव संकल्पाद्वर्त्तते स्वचराचरम् ॥४५॥तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतःईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ॥४६॥तस्मिन्न्यस्तभरः श्रीशे तत्कर्मैव समाचरेत्परमात्मा हरिस्स्वामी स्वमहं तस्य सर्वदा ॥४७॥इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हिइत्येवं मनसा त्यक्तमहंता ममतोर्जितम् ॥४८॥देहेष्वहं मतिर्मूलं संसृतौ कर्मबंधनेतस्मान्महदहंकारौ मनसा वर्जयेद्बुधः ॥४९॥अथ नारायणपदं वक्ष्यामि गिरजे शुभेनारा इत्यात्मनां संघास्तेषां गतिरसौ पुमान् ॥५०॥त एव चायनं तस्य तस्मान्नारायणः स्मृतःसर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगत् ॥५१॥योऽसौ व्याप्यस्थितो नित्यं स वै नारायणः स्मृतःनाराश्चेति सर्वपुंसां समूहाः परिकीर्तिताः ॥५२॥गतिरालंबनं तेषां तस्मान्नारायणः स्मृतःनराज्जातानि तत्वानि नाराणीति विदुर्बुधाः ॥५३॥तान्येव चायनं तस्य तेन नारायणस्स्मृतःकल्पांतेपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ॥५४॥पुनः संसृज्यते येन स वै नारायणः स्मृतःचराचरं जगत्कृत्स्नं नार इत्यभि धीयते ॥५५॥तस्य वासं गतिर्येन तेन नारायणः स्मृतःनारो नराणां संघातस्तस्यासावयनं गतिः ॥५६॥तेनासौ मुनिभिर्नित्यं नारायण इतीरितःप्रभवन्ति यतो लोका महाब्धौ पृथुफेनवत् ॥५७॥पुनर्यस्मात्प्रलीयन्ते तस्मान्नारायणः स्मृतःयो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान् ॥५८॥ईशः सर्वस्य जगतः स वै नारायणः स्मृतःनारायणः परंब्रह्म तत्वं नारायणः परम् ॥५९॥यच्च किंचिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वाअंतर्बंहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥६०॥अपहतपाप्मा पुरुषः सर्वभूतांतरस्थितःदिव्यएकस्सदा नित्यो हरिर्नारायणोऽच्युतः ॥६१॥यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव चस्प्रष्टा च स्पर्शितव्यश्च ध्याता ध्यातव्यमेव च ॥६२॥वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिज्जगत्तच्च सर्वं हरिः श्रीशो नारायण उदाहृतः ॥६३॥सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्स लोकान्सर्वतो व्याप्य अत्यतिष्ठद्दशांगुलम् ॥६४॥यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिःउतामृतत्वस्येशानो यदन्नेन विराट्पुमान् ॥६५॥स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिःहिरण्मयोऽथ भगवान्सोऽमृतः शाश्वतः शिवः ॥६६॥पतिर्विश्वस्य जगतः सर्वलोकेश्वरं प्रभुःहिरण्यगर्भाः सविता अनंतोऽसौ महेश्वरः ॥६७॥भगवानिति शब्दोऽयं तथा पुरुष इत्यपिवर्त्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ॥६८॥ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत्शास्ता चराचरस्यैको यतीनां परमा गतिः ॥६९॥यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितःतस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥७०॥योसावकारो वै विष्णुर्योऽसौ नारायणो हरिःस एव पुरुषो नित्यः परमात्मा महेश्वरः ॥७१॥यस्मादुद्भूतमैश्वर्यं यस्मिन्कस्मिंश्च वर्ततेतस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथानिरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ॥७२॥आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैःतस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥७३॥असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरःविभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः ॥७४॥श्रीभूनीलापतिर्योसावीश्वरस्स उदाहृतःतस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥७५॥असौ यज्ञेश्वरो यज्ञो यज्ञभुक्यज्ञकृद्विभुःयज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः ॥७६॥यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्रतत्संनिधानादपयांति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ॥७७॥योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनःसंतर्पयति लोकांस्त्रीन्स एव परमेश्वरः ॥७८॥येन पूर्णेन हविषा देवा यज्ञमतन्वततस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः ॥७९॥तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरेतस्मादश्वा अजायंत गावश्च पुरुषादयः ॥८०॥पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वैहरेः सर्वं समुद्भूतं जगत्स्थावरजंगमम् ॥८१॥मुखबाहूरुपादाः स्युस्तस्य वर्णा यथाक्रमम्पद्भ्यां तु पृथिवी तस्य शिरसा द्यौरजायत ॥८२॥मनसश्चंद्रमा जातश्चक्षुषश्च प्रभाकरःमुखादग्निः सहस्राक्षो वायुः प्राणात्सदागतिः ॥८३॥नाभेर्विरिंचिर्गगनं जगत्सर्वं चराचरम्यस्मात्सर्वं समुद्भूतं जगद्विष्णोः सनातनात् ॥८४॥तस्मात्सर्वमयो विष्णुर्नारायण इतीरितःएवं सृष्ट्वा जगत्सर्वं पुनः संग्रसते हरिः ॥८५॥निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवत्ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च ॥८६॥निगृह्य हरते यस्मात्तस्माद्धरिरहोच्यतेअसावेकार्णवीभूते मायावटतले पुमान् ॥८७॥जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनःआसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः ॥८८॥न ब्रह्मा न च रुद्रश्च न देवा न महर्षयःनेमे द्यावापृथिव्यौ च न सोमो न च भास्करः ॥८९॥न नक्षत्राणि लोकाश्च न चांडं महदावृतम्यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे ॥९०॥सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतःतस्य दास्यं चतुर्थ्यानु मंत्रे प्रोक्तं तु पार्वति ॥९१॥दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत्एवमर्थं विदित्वा वै पश्चान्मंत्रं प्रयोजयेत् ॥९२॥अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छतिन तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने ॥९३॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मंत्रार्थोपदेशोनाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥२२६॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP