संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ९९

उत्तरखण्डः - अध्यायः ९९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
स मां संपूज्य विधिवद्दानवेंद्रो ऽतिभक्तितः
संप्रहस्य तदा वाक्यं जगाद नृपसत्तम ॥१॥
जलंधर उवाच-
कुतस्त्वागम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित्
यदर्थमिह चायातस्तदा ज्ञापय मां मुने ॥२॥
नारद उवाच-
गतः कैलासशिखरं दैत्येंद्राहं यदृच्छया
तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ॥३॥
योजनायुतविस्तीर्णे कल्पद्रुम महावने
कामधेनुशताकीर्णे चिंतामणि सुदीपिते ॥४॥
तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा
क्वापीदृशी भवेद्वृद्धिस्त्रिलोक्यां वा न वेति च ॥५॥
तावत्तवापि दैत्येंद्र समृद्धिः सम्भृता मया
तद्विलोकनकामोऽहं त्वत्सान्निध्यमिहागतः ॥६॥
त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां ध्रुवम्
तर्कयामि शिवादन्यत्त्रिलोक्यां न समृद्धिमान् ॥७॥
अप्सरो नागकन्याश्च यद्यपि त्वद्वशे स्थिताः
तथापि ता न पार्वत्या रूपेण सदृशा ध्रुवम् ॥८॥
यस्या लावण्यजलधौ निमग्नश्चतुराननः
स्वधैर्यममुचत्पूर्वं तया कान्योपमीयते ॥९॥
वीतरागोऽपि हि यथा मदनारिः स्वलीलया
विश्वतंत्रोऽपि तपसा स चात्मवशगः कृतः ॥१०॥
सौंदर्यगहने भ्रामन्शबरीरूपया पुरा
यस्याः पुनः पुनः पश्यन्रूपं धाता विसर्जने ॥११॥
ससर्जाप्सरसस्तास्तास्तत्समैकापि नाभवत्
अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्य सा वरा ॥१२॥
तथा न तव दैत्येंद्र सर्वरत्नाधिपस्य च
एवमुक्त्वा तमामंत्र्य गते मयि स दैत्यराट् ॥१३॥
तद्रूपश्रवणादासीदनंगज्वरपीडितः
अथ संप्रेषयामास दूतं च सिंहिकासुतम् ॥१४॥
त्र्यंबकाय तदा किंचिद्विष्णुमायाविमोहितः
कैलासमगमद्राहुः सर्वशुक्लेंदुवर्चसम् ॥१५॥
कार्त्स्न्येन कृष्णपक्षेंदुवर्चसं स्वांगजेन तु
निवेदितस्तदादेशान्नंदिना च प्रवेशितः
त्र्यंबकाभ्रूलतासंज्ञा प्रेरितो वाक्यमब्रवीत् ॥१६॥
राहुरुवाच-
देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ॥१७॥
श्मशानवासिनो नित्यं मुंडमालाधरस्य च
दिगंबरस्य ते भार्या कथं हैमवती शुभा ॥१८॥
अहं रत्नाधिनाथोऽस्मि सा च स्त्री रत्नसंज्ञका
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ॥१९॥
नारद उवाच-
वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ॥२०॥
सिंहास्यः प्रचलज्जिह्वः सज्वलन्नयनो महान्
ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चापरः ॥२१॥
स तं खादितुमारेभे दृष्ट्वा राहुर्भयातुरः
अधावदतिवेगेन बहिः स च दधार तम् ॥२२॥
स च राहुर्महाबाहुर्मेघगंभीरया गिरा
उवाच देवदेवेशं पाहि मां शरणागतम् ॥२३॥
ब्राह्मणं मां महादेव खादितुं समुपागतः
एतस्माद्रक्ष देवेश शरणागतवत्सल ॥२४॥
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाब्रवीत्
नैवासौ वध्यतामेति दूतोऽयं परवान्यतः ॥२५॥
मुंचेति पुरुषः श्रुत्वा राहुं तत्याज सोंबरे
राहुं त्यक्त्वा स षुरुषो महादेवं व्यजिज्ञपत् ॥२६॥
पुरुष उवाच-
क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा
किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो ॥२७॥
ईश्वर उवाच-
संभक्षयात्मनः शीघ्रं मांसं त्वं हस्तपादयोः ॥२८॥
नारद उवाच-
सशिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वयम्
हस्तपादोद्भवं मांसं शिरःशेषो यदाभवत् ॥२९॥
दृष्ट्वा शिरोऽवशेषं तु सुप्रसन्नः सदाशिवः
पुरुषं भीमकर्माणं तमुवाच सविस्मयः ॥३०॥
ईश्वर उवाच-
त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारगः सदा
त्वदर्चां नैव कुर्वंति नैव ते मत्प्रियंकराः ॥३१॥
नारद उवाच-
तदाप्रभृति देवस्य द्वारे कीर्तिमुखः स्थितः
नार्चयंतीह ये पूर्वं तेषामर्चा वृथा भवेत् ॥३२॥
राहुर्विमुक्तो यस्तेन सोऽपतद्बर्बरस्थले॥
अतः स बर्बरोद्भूत इति भूमौ पृथां गतः ॥३३॥
ततश्च राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः
समेत्य सर्वं कथयां बभूव जलंधरायेशविचेष्टितं तत् ॥३४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकामाहात्म्ये श्रीकृष्णसत्यभामासंवादे दूतसंवादो जालंधरोपाख्यानंनाम नवनवतितमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP