संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १२५

उत्तरखण्डः - अध्यायः १२५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः
सूतसूत महाभाग त्वया लोकहितैषिणा
कथितं कार्तिकाख्यानं भुक्तिमुक्तिप्रदायकम् ॥१
अधुना माघमाहात्म्यं वद नो लोमहर्षणे
श्रुतेन येन लोकानां संशयः क्षीयते महान् ॥२॥
पुरा केन महाभाग लोकेऽस्मिन्संप्रकाशितम्
माघस्नानस्य माहात्म्यं सेतिहासं तदादिश ॥३॥
सूत उवाच
साधुसाधु मुनिश्रेष्ठा यूयं कृष्णपरायणः
यत्पृच्छथ मुदायुक्ता भक्त्या कृष्णकथा मुहुः ॥४॥
कथयिष्यामि माघस्य माहात्म्यं पुण्यवर्धनम्
पापघ्नं शृण्वतां पुंसां स्नातानां चारुणोदये ॥५॥
एकदापार्वती विप्राः शंकरं लोकशंकरम्
पप्रच्छ विनयोपेता स्पृष्ट्वा तच्चरणांबुजम् ॥६॥
पार्वत्युवाच
देवदेव महादेव भक्तानामभयप्रद
प्रसीद नाथ विश्वेश यत्पृच्छे तद्वदाधुना ॥७॥
श्रुता नानाविधा धर्मास्त्वत्तः पूर्वं मया विभो
अधुना श्रोतुमिच्छामि माहात्म्यं माघजं वद ॥८॥
तत्तु केन पुरा चीर्णं को विधिः का च देवता
तत्सर्वं विस्तराद्ब्रूहि यतस्त्वं भक्तवत्सलः ॥९॥
महेश उवाच
अध्वराऽवभृथस्नात ऋषिभिः कृतमंगलः
पूजितो नागरैः सर्वैः स्वपुरान्निर्गतो बहिः ॥१०॥
दिलीपो भूभृतां श्रेष्ठो मृगयारसिको नृपः
कौतूहलसमाविष्ट आखेटव्यूहसंवृतः ॥११॥
उपानद्रूढपादस्तु नीलोष्णीष उरच्छदी
बद्धगोधांगुलित्राणो धनुष्पाणिः सरीसृपः ॥१२॥
बद्धक्षुद्रासिधानुष्कैस्तथाभूतैश्च पत्तिभिः
गांधारेषु सुरम्येषु वनेषु विपुलेषु च ॥१३॥
उल्लंघितमहास्रोता युवा पंचास्यविक्रमः
मुदा क्रीडति तैः सार्द्धं कुंजेषु मृगयन्मृगान् ॥१४॥
हन्यतां हन्यतामेष मृगो वैष पलायते
इति जल्पन्स्वभृत्येषु स्वयमुत्पत्त्य हंति च ॥१५॥
इतस्ततः पुनर्याति क्वचित्पश्यन्वनस्थलीम्
विटपोड्डीनसंत्रस्त लीन केकिकुलाकुलाम् ॥१६॥
हरिणीगणवित्रस्तां धावच्छावकदिङ्मुखाम्
क्वचित्फेरवफेत्कारतारारावविभीषणाम् ॥१७॥
खड्गयूथैः क्वचिल्लक्ष्मीं दधानामिव दंतिनाम्
क्वचित्कोटरसंदष्टोलूकनादविनादिनीम् ॥१८॥
मृगारिपदमुद्राभिर्मुद्रितां च क्वचित्क्वचित्
शार्दूलनखनिर्भिन्न रोहिद्रक्तारुणां क्वचित् ॥१९॥
पीवरस्तनभारार्त सुस्निग्धमहिषीगणैः
अवरोधाजिरक्षोणीं सूचयंती मनः क्वचित् ॥२०॥
क्वचिद्वृक्षघनच्छन्नां वन्यपुष्पसुगंधिनीम्
क्वचिल्लतागृहद्वारां भृंगशब्दसुशोभनाम् ॥२१॥
अर्धनिःसृतनिर्मोक नागभीमबृहद्विलाम्
बिलेषु लीनाजगरैर्भीमां निर्मोकसर्पिणीम् ॥२२॥
क्वचिद्दावानलज्वालां शिलाज्योतिः सुशोभनाम्
फूत्कारशब्दसंपूर्णां मृगव्याघ्रसमाकुलाम् ॥२३॥
प्रविमुंचञ्छुनां यूथं शशकेषु क्वचित्क्वचित्
पल्वलेषु च विश्रम्य पुनर्याति वनान्तरम् ॥२४॥
एवं व्रजति राजेन्द्रे व्याधवर्गे च वल्गति
कुर्वन्कोलाहलं तत्र सारंगो निर्गतो वनात् ॥२५॥
स्फालवेगक्रमाक्रांत दुर्गमार्गमहीतलः
कदाचिद्गगनारूढः कदाचिद्भूमिगोचरः ॥२६॥
वक्रस्रोतोऽतिगंभीरं कण्टकद्रुमसंकुलम्
प्रविष्टो विषमारण्यं राजाऽसौ तत्पदानुगः ॥२७॥
दूराद्दूरतरं गत्वा देशाद्देशं च निर्जनम्
मृगादर्शनसंरम्भ संशुष्कगलकन्धरः ॥२८॥
ताम्रतालुमुखः स्विन्नः श्रांतपत्तिः स्खलद्ध्वनिः
अतीत्य दीर्घमार्गान्स तृषार्तो मध्यगे रवौ ॥२९॥
ददर्शाग्रे तु कासारं स्पर्धयंतमपांपतिम्
घनपादपतीरस्थं सुतीर्थं विमलं शुभम् ॥३०॥
विशालं विकचांभोजं मधुमत्तमधुव्रतम्
पद्मिनीपत्रपालाशच्छन्नं मरकतैरिव ॥३१॥
स्वच्छंदमुच्छलन्मत्स्यं स्वच्छं साधुमनो यथा
चलज्जलचरैर्मिश्रं वीचिराजिविराजितम् ॥३२॥
अंतर्ग्राहगणक्रूरं खलानामिव मानसम्
क्वचिच्छैवालदुर्गम्यं कृपणस्यैव मंदिरम्
नानाविहङ्गसर्वार्तिं शमयंतं दिवानिशम् ॥३३॥
दातारमिव सर्वस्वैरापन्नार्तिप्रणाशनम्
तर्पयंतं निजांभोभिः श्वापदान्स्वपितॄनिव ॥३४॥
हरंतं सर्वसंतापं हिमांशुरिव चाह्निकम्
तं दृष्ट्वाभूद्गतग्लानिश्चातको जलदं यथा ॥३५॥
तत्र पीतजलो राजा कृतमाध्याह्निकक्रियः
भुक्त्वा खेटकमांसानि सहायैः सहितो नृपः ॥३६॥
उवास सरसस्तीरे सुरम्यां कथयन्कथाम्
ततः शरासने बाणं कृत्वा रात्रौ स्थितस्तरौ ॥३७॥
व्याधाः संधानमास्थाय रुरुधुः ककुभां पथः
एवं स्थितेषु वीरेषु वने विस्तार्य वागुराम् ॥३८॥
निशार्धे निर्गतं यूथं सूकराणां तटे तटे
चरित्वा सरसीकंदान्पपात व्याधसंकुले ॥३९॥
राज्ञा विद्धाश्च ते क्रोडा व्याधैश्च बहवो हताः
क्षणेनैव वराहास्ते विद्धाः पेतुर्महीतले ॥४०॥
तान्दृष्ट्वा तुमुलं नादं व्याधाश्चक्रुः सुदर्पिताः
धावंतः प्रमुदायुक्ता मिलिता यत्र भूपतिः ॥४१॥
तानादाय भटैर्भूयो निःसृतः सरसीतटात्
स्वपुरं गंतुकामोऽसौ दृष्टवान्पथि तापसम् ॥४२॥
ब्राह्मणं वृद्धहारीतं शंखचक्रसुशोभितम्
नियमैर्दुष्करैरुग्रैः परिक्षीणकलेवरम् ॥४३॥
अस्थिशेषं महद्दांतं विस्फुरत्कर्कशत्वचम्
दधानं हारिणं चर्म वसानं मृदुवल्कलम् ॥४४॥
कुर्वाणं नैगमं जाप्यं नखलोमजटाधरम्
तं वनाश्रमिणं दृष्ट्वा मार्गं दत्त्वा ससंभ्रमः ॥४५॥
प्रणम्य शिरसा राजा कृतपद्मांजलिस्थितः
अथ चैनमलंकारैर्द्विजो निश्चित्य भूमिपम् ॥४६॥
उवाच श्रेयसे हेतोः परोपकृतिवांच्छया
किमर्थं गम्यते राजन्काले पुण्यतमे शुभे ॥४७॥
माघमासे विहायैव प्रातःस्नानं सरोवरे
प्रत्युवाच ततो राजा नाहं जाने द्विजोत्तम ॥४८॥
माघस्नानफलं कीदृक्तन्मे कथय विस्तरात्
इति भूपवचः श्रुत्वा प्राह वैखानसो मुनिः ॥४९॥
भगवान्द्युमणिः शीघ्रमभ्युदेति तमोपहा
स्नानकालोऽयमस्माकं न कथाऽवसरो नृप ॥५०॥
स्नात्वा गच्छ वसिष्ठं तं पृच्छस्व स्वकुलप्रभुम्
इत्युक्त्वा तापसो मौनी प्रातःस्नानाय निर्गतः ॥५१॥
प्रत्यावृत्य दिलीपोऽपि तत्र स्नात्वा यथाविधि
पुनः स्वनगरीं वीरो गतोऽसौ हर्षपूरितः ॥५२॥
अन्तःपुरे निवेद्याथ वानप्रस्थकथां पुनः
श्वेताश्वरथमारुह्य सुश्वेतच्छत्रचामरः ॥५३॥
सालंकारः सुवासाश्च संवृत्तो मंत्रिभिः सह
जयशब्दान्पुनः शृण्वन्स्तुतो मागधबंदिभिः ॥५४॥
वसिष्ठस्याश्रमं यात ऋषिवाक्यमनुस्मरन्
तत्रैव नत्वा ब्रह्मर्षिं विनयाचारपूर्वकम् ॥५५॥
दत्तासनो गृहीतार्घ्य आशीर्भिः समलंकृतः
सानंदं मुनिना पृष्टः कुशलं भूपतिर्यदा ॥५६॥
तदाब्रवीद्वचो राजा हर्षयन्मुनिमानसम्
सोऽपि वैखानसेनोक्तं पप्रच्छ मधुराकृतिः ॥५७॥
दिलीप उवाच
भगवंस्त्वत्प्रसादेन श्रुता विस्तरतो मया
आचारो दंडनीतिश्च राजधर्माश्च ये परे ॥५८॥
चतुर्णामपि वर्णानामाश्रमाणां च याः क्रियाः
दानानि तद्विधानानि यज्ञाश्च विधयस्तथा ॥५९॥
व्रतानि तत्प्रदिष्टानि विष्णोराराधनं तथा
अधुना श्रोतुमिच्छामि माघस्नाने च यत्फलम्
विधेयं यद्विधानेन तन्मे ब्रह्मन्मुने वद ॥६०॥
वसिष्ठ उवाच
सम्यगुक्तं परं श्रेयो लोकत्रयहितावहम्
निर्मलीकरणं तेन मुनिना वनवासिना ॥६१॥
कटाक्षैः कामिनीनां ते प्रत्यासन्नमखंडिताः
कामयंते मृगार्के ते स्रोतसि स्नातुमेव च ॥६२॥
विना वह्निं विना यज्ञमिष्टापूर्तं विना प्रिये
वांच्छंति सद्गतिं स्नातुं प्रातर्माघे बहिर्जले ॥६३॥
गोभूहिरण्यमाणिक्य स्वर्ण धेन्वादिकानि ये
अदत्त्वेच्छंति चैकार्णे माघं स्नाता नराधिप ॥६४॥
त्रिःसप्ताहव्रतैः कृच्छ्रैः पराकैश्च निजां तनुम्
अशोष्येच्छंति ये स्वर्गं तपसि स्नांतु ते सदा ॥६५॥
हरेः पूजा च वैशाखे तपः पूजा च कार्तिके
तपोहोमस्तथा दानं त्रयं माघे विशिष्यते ॥६६
सानुबंधोऽतिपर्यासो धराधीशो भवेद्ध्रुवम्
कैवल्योत्पादका बुद्धि यया वा न भवेत्पुनः ॥६७॥
पदध्र्या वरिवस्या सा विहिता दिव्यलोचनैः
तदनन्नं तपो दानं माघेमासि नृपोत्तम ॥६८॥
सकामो वा प्रजा ये वा हरये तद्विनापि वा
कायशुद्धिव्रती भूत्वा चतुर्द्धास्नानजं फलम् ॥६९॥
निरन्ना अदितिः सस्नौ माघे द्वादशवत्सरे
पुत्रांश्च द्वादशादित्यान्लभे त्रैलोक्यदीपकान् ॥७०॥
सुभगा रोहिणी माघा दानशीलात्वरुंधती
शची च रूपसंपन्ना प्रासादे सप्तभूमिके ॥७१॥
विमलीकृतशोभाढ्यो नर्तकी ललिताजिरे
द्वीपवर्णसमुच्छिन्ने रूपवत्स्त्रीजनाकुले ॥७२॥
गीतवादित्रनिर्घोषे मंगलाचारशोभिते
वेदध्वनिपवित्रे च विद्वद्विप्रैरलंकृते ॥७३॥
सुरार्चनरते रम्ये सदातिथिनिषेविते
मुदितांस्ते वसंतीह यैः स्नानं मकरे रवौ ॥७४॥
यैर्दत्तं बहु माघे च मुरारिश्चार्चितः स्तुतः
इष्टवस्तुपरित्यागान्नियमस्य तु पालनात् ॥७५॥
धर्मसूतिः सदा माघः पापमूलं निकृंतति
काममूलः फलद्वारा निष्कामो ज्ञानदः सदा ॥७६॥
ये लोका ज्ञानशीलानां ये लोका विपिनौकसाम्
ये लोका विष्णुभक्तानां ते माघस्नायिनां सदा ॥७७॥
देवलोकान्निवर्तंते पुण्यैरन्यैः परंतप
कदाचिन्न निवर्तंते माघस्नानरता नराः ॥७८॥
माघे स्नात्वा तु यो धेनुं दद्यान्मर्त्यः पयस्विनीम्
तस्या यावंति रोमाणि सर्वांगे च नृपोत्तम ॥७९॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
माघस्नानं प्रकुर्वाणो यो दद्यात्सगुडांस्तिलान् ॥८०॥
पातकं तस्य प्रक्षाल्य निर्मलो भाति वै नरः
सर्वेषां धान्यराशीनां तिलाः पापप्रणाशनाः ॥८१॥
तस्मान्माघे प्रयत्नेन तिला देया नृपोत्तम
माघस्नानं प्रकुर्वाणो दद्याद्ब्राह्मणभोजनम् ॥८२॥
पितॄन्संतर्प्य शुद्धात्मा याति विष्णोः परंपदम्
तस्मात्सर्वप्रयत्नेन माघो दानेन नीयते ॥८३॥
अदानं न क्षिपेन्माघं सर्वदा नृपसत्तम
वित्तानुसारं ज्ञात्वा वै माघे दानं सदा ददेत् ॥८४॥
माघस्नानं तु यः कुर्यादुपानहकमंडलून्
ददाति ब्राह्मणेभ्यश्च स स्वर्गे तिष्ठति ध्रुवम् ॥८५॥
माघस्नानमयं राजन्कुर्वाणस्तप उत्तमम्
दानं विना क्षिपेन्नैव दानात्स्वर्गमवाप्यते ॥८६॥
दानेन प्राप्यते स्वर्गो दानेन प्राप्यते सुखम्
दानेन हीयते पापं महापातकजं नृप ॥८७॥
अदानं न तपो भाति ह्यसूर्यं गगनं यथा
असंततिकुलं यद्वादाचारेण विना गृहम् ॥८८॥
नातः परतरं किंचित्पवित्रं पापनाशनम्
विद्याधराय संगीतं भृगुणा मणिपर्वते ॥८९॥
राजोवाच
ब्रह्मन्कदा भृगुर्विप्रो निजगाद महीधरे
तस्मै धर्मोपदेशं च कथ्यतां मे कुतूहलात् ॥९०॥
वसिष्ठ उवाच
द्वादशाब्दं पुरा राजन्न ववर्ष बलाहकः
तेनोद्विग्नाः प्रजाः क्षीणा गताः सर्वा दिशो दश ॥९१॥
खिलीभूते तदा मध्ये हिमवद्विंध्ययोर्नृप
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिते ॥९२॥
सोपप्लवे तदा लोके लुप्तधर्मे च निष्प्रभे
फलमूलान्नपानीय शून्ये वै भूमिमंडले ॥९३॥
विंध्यपादतरुच्छन्न रम्यरेवातटाश्रमात्
सहशिष्यैश्च निर्गम्य हिमाद्रिं स गतो भृगुः ॥९४॥
तत्र तिष्ठति कैलासगिरेः पश्चिमतो गिरिः
मणिकूट इति ख्यातो हेमरत्नशिलोच्चयः ॥९५॥
अधोऽधस्फटिकश्वेतो मध्ये नीलशिलो गिरिः
भूतिभिः सर्वतः शुक्लो नीलकंठ इवाबभौ ॥९६॥
सर्वत्रासौ नीलशिलो हेमरेखांतरांतरः
स्फुरद्विद्युल्लतः कृष्णो जीमूतइव राजते ॥९७॥
मूर्ध्नि नीलशिलः शैल अधः कांचनमेखलः
नारायण इवाभाति परिवीत इवांबरः ॥९८॥
अमेखला सुनीलाभो मध्ये मध्ये सितोपलः
सतारकमिव व्योम शुशुभे स महीधरः ॥९९॥
लब्ध्वात्मनस्तनुं शुभ्रां दीप्तदिव्यौषधीधरः
बहुद्योतकरो भाति द्वितीय इव चंद्रमाः ॥१००॥
अधित्यकासु संगीतैः किन्नरीणां सकीचकैः
रंभापत्रपताकाभिः शोभते स सदाऽचलः ॥१०१॥
हरितोपलवैदूर्य पद्मरागशिताश्मनाम्
रुग्रश्मिमंडलैः सोऽग इंद्रचापैरिवावृतः ॥१०२॥
सर्वधातुमयैर्हेमैर्नानारत्नैः प्रशोभितः
सोऽग्निज्वालैरिवात्युच्चैः शृंगैः सर्वत्र वेष्टितः ॥१०३॥
तस्यागत्य नितंबेषु सतृणा सुशिलासु च
विद्याधर्यः प्रदेवंते स्वपतीन्कामविक्लवाः ॥१०४॥
निरुद्धांतर्मरुन्मार्गा जितक्लेशा विरागिणः
ध्यायंत्यहर्निशं ब्रह्म रम्यसानुगुहासु च ॥१०५॥
साक्षसूत्रकराः सिद्धा अर्धोन्मीलितलोचनाः
आराधयंति भूतेशं सुंदरीषु दरीषु च ॥१०६॥
मंदारकुसुमामोद सुरभीकृतदिङ्मुखः
एष निर्झरिणी वारि झंकारमुखरः सदा ॥१०७॥
उपत्यकासु खेलद्भिर्वनस्थैः कलभैर्गजैः
कस्तूरीमृगयूथैश्च चारुचित्रमृगैस्तथा ॥१०८॥
विलसच्चामरीवृंदैर्विचित्रैः श्वापदैस्तथा
नदत्पारावतैश्चैव चकोरैश्चापि कोकिलैः ॥१०९॥
राजहंसमयूरैश्च सदा रम्यः स पर्वतः
सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ॥११०॥
राजोवाच-
बह्वाश्चर्यमयः शैलः सर्वसिद्धिसमाश्रयः
भगवन्कियदुच्छ्रायः कियदायामविस्तरः ॥१११॥
ऋषिरुवाच
षट्त्रिंशद्योजनोच्छ्रायो मस्तके दशयोजनः
आयामविस्तराभ्यां स मूले षोडशयोजनः ॥११२॥
हरिचंदनमंदारचूतराजिविराजितः
देवदारुद्रुमाकीर्णः सरलार्जुनशोभितः ॥११३॥
कालागरुलवंगैश्च निकुंजैश्च लतागृहैः
विराजते गिरिश्रेष्ठः सदा पुष्पफलप्रदः ॥११४॥
तं दृष्ट्वा पर्वतं रम्यं तदा दुर्भिक्षपीडितः
भृगुश्चकार तत्रैव वसतिं हृष्टमानसः ॥११५॥
तस्मिन्मनोहरे शैले कंदरेषु वनेषु च
चिरकालं तपस्तेपे तपःसु निरतो भृगुः
एवं तिष्ठति राजेंद्र द्विजे स्वाश्रमवासिनि ॥११६॥
अवतीर्यागतौ शैलाद्द्वौ विद्याधरदंपती
समागम्य मुनिं नत्वा स्थितौ तावतिदुःखितौ ॥११७॥
तथाविधौ च तौ दृष्ट्वा मंजुवाक्यं द्विजोऽब्रवीत्
वद विद्याधर प्रीत्या युवां किमतिदुःखितौ ॥११८॥
श्रुत्वा तस्य मुनेर्वाक्यं प्राह विद्याधरो द्विजम्
श्रूयतां तापसश्रेष्ठ मम दुःखस्य कारणम् ॥११९॥
सुकृतस्य फलं प्राप्य प्राप्तोऽस्मि त्रिदशालयम्
लब्ध्वाऽपि देवतादेहं मुखं व्याघ्रस्य मेऽभवत् ॥१२०॥
न जाने कर्मणः कस्य विपाकोऽयमुपस्थितः
इति संस्मृत्य संस्मृत्य न लेभे शर्म मे मनः ॥१२१॥
अन्यच्च श्रूयतां विप्र येन मे ह्याकुलं मनः
जायेयं मम कल्याणी मधुवाणी सुरूपिणी ॥१२२॥
नृत्यगीतकलाभिज्ञा सर्वसद्गुणशालिनी
यस्मिन्काले कुमारीयं तदा चाऽमलयानया ॥१२३॥
विपंचीं परिवादिन्या तंत्रीभिः सप्तभिर्भृशम्
वीणावादरसाभिज्ञस्तोषितो नारदो मुनिः ॥१२४॥
मुग्धभावेपि गायंत्या त्वनया रक्तकंठया
विचित्रस्वरनादज्ञो देवराजोऽपि तोषितः ॥१२५॥
अस्याः कौतुकभिन्नांग्या वादयंत्या विपंचिकाम्
नानावक्रगतिस्निग्धं श्रुत्वा तं पंचमध्वनिम् ॥१२६॥
तुतोषोद्भिन्नरोमांचो धुन्वन्मौलि महेश्वरः
शीलौदार्यगुणग्रामरूपयौवनसंपदा ॥१२७॥
नानया सदृशी नाके काचिदस्ति नितंबिनी
क्वेयं देवमुखी रामा क्वाहं व्याघ्रमुखः पुमान् ॥१२८॥
इति ब्रह्मन्सदाचिंत्य दह्यामि हृदि सर्वदा
इति विद्याधरप्रोक्तं श्रुत्वा चेक्ष्वाकुनंदनः ॥१२९॥
त्रिकालज्ञो भृगुः प्राह प्रहसन्दिव्यलोचनः
शृणु विद्याधरश्रेष्ठ विचित्रं कर्मणां फलम् ॥१३०॥
प्राप्य प्राज्ञा न मुह्यंति मुह्यंत्यज्ञानचेतसः
मक्षिकापदमात्रं तु यथा हि विषमं विषम् ॥१३१॥
क्रियात्वविहिताल्पापि विपाके दारुणा तथा
उपोष्यैकादशीं माघे तैलाभ्यंगः कृतस्त्वया ॥१३२॥
द्वादश्यां प्राग्भवे देहे तेन व्याघ्रमुखोभवान्
उपोष्यैकादशीं पुण्यां द्वादश्यां तैलसेवनात् ॥१३३॥
कुरूपं प्राप्तवान्देहं पुराह्येवं पुरूरवाः
दृष्ट्वात्मनः कुकायं स तेन दुःखेन दुःखितः ॥१३४॥
गिरिराजं समागम्य देवतासरसस्तटे
स्थित्वा च परमप्रीत्या शुचिः स्नातः कुशासने ॥१३५॥
नवनीलघनश्यामं नलिनायतलोचनम्
शंखचक्रगदापद्मधरं पीतांबरावृतम् ॥१३६॥
कौस्तुभेन विराजंतं वनमालाधरं हरिम्
चिंतयन्हृदये राजा निग्रहीताखिलेंद्रियः ॥१३७॥
मासत्रयं निराहारस्तपस्तेपे सुदारुणम्
अल्पेन तपसा तुष्टः सप्तजन्मकृतार्चनः ॥१३८॥
संस्मरंस्तस्य भूपस्य तदा प्रादुरभूत्स्वयम्
माघस्य शुक्लपक्षे तु द्वादश्यां मकरे रवौ ॥१३९॥
शंखाद्भिरभिषिच्याशु मुदा तं चक्रवर्तिनम्
वासुदेवो ददौ तस्मै स्मारयंस्तैलचेष्टितम् ॥१४०॥
अतीव सुंदरं रूपं कमनीयं मनोहरम्
येन तं चकमे देवी उर्वशी देवनायिका ॥१४१॥
इत्थं लब्धवरो राजा कृतकृत्यः पुरं गतः
इति कर्मगतिं ज्ञात्वा किं विद्याधर खिद्यते ॥१४२॥
भवान्परिजिहीर्षुश्चेद्दानवस्य विरूपताम्
शीघ्रं मद्वचनादेव प्राचीनाघविनाशनम् ॥१४३॥
माघमासे कुरु स्नानं मणिकूटनदीजले
मुनिसिद्धसुरैर्जुष्टे कथयिष्यामि तद्विधिम् ॥१४४॥
तवभाग्यवशान्माघो निकटः पंचमेऽहनि
पौषस्यैकादशीं शुक्लामारभ्य स्थंडिलेशयः ॥१४५॥
मासमेकं निराहारस्त्रिकालं स्नानमाचर
त्रिकालमर्चयन्विष्णुं त्यक्तभोगो जितेंद्रियः ॥१४६॥
माघस्यैकादशीशुक्ला यावद्विद्याधरोत्तम
ततो निर्दग्धपापं त्वां द्वादश्यां पुण्यवासरे ॥१४७॥
अभिषिच्य शिवैस्तोयैर्मंत्रपूतैरहं सुर
कामवक्त्रोपमं वक्त्रं करिष्यामि तवानघ ॥१४८॥
देवतावदनोभूत्वा त्वं विद्याधरसत्तम
अनया वरवर्णिन्या सार्द्धं क्रीड यथासुखम् ॥१४९॥
ज्ञातमाघप्रभावस्त्वं माघस्नानं सदा कुरु
यथामनोरथावाप्तिर्जायते तव सर्वदा .॥.१५०॥
इत्युक्तं भृगुणा तस्मै सर्वज्ञेन महात्मना
विद्याधराय राजेंद्र पुनर्गाथा उदाहृता ॥१५१॥
माघस्नानैर्विपन्नाश माघस्नानैरघक्षयः
सर्वयज्ञाधिको माघः सर्वदानफलप्रदः ॥१५२॥
माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति
तीव्राच्च तपसो माघो भो विद्याधर गर्जति ॥१५३॥
पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके
अविमुक्ते प्रयागे च गंगासागरसंगमे ॥१५४॥
यत्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः
तत्फलं प्राप्यते माघे त्र्यहस्नानान्न संशयः ॥१५५॥
स्वर्गलोके चिरं रागो येषां मनसि वर्तते
यत्र क्वापि जले तैस्तु स्नातव्यं मकरे रवौ ॥१५६॥
आयुरारोग्यसंपत्तिरूपसौभाग्यता गुणाः
येषां मनोरथस्तैस्तु न त्याज्यं माघमज्जनम् ॥१५७॥
ये च बिभ्यंति नरकाद्ये दरिद्राच्च संचितात्
सर्वथा तैः प्रयत्नेन माघे कार्यं निमज्जनम् ॥१५८॥
दारिद्र्य पापदौर्भाग्य पंकप्रक्षालनाय च
माघस्नानान्न चान्योऽस्ति उपायो राजसत्तम ॥१५९॥
श्रद्धाहीनानि कर्माणि तथात्यल्पफलानि वै
फलं ददाति संपूर्णं माघस्नानं यथा तथा ॥१६०॥
अकामो वा सकामो वा यत्र क्वापि बहिर्जले
इहामुत्र च दुःखानि माघस्नायी न विंदति ॥१६१॥
पक्षद्वये यथा चंद्रो वर्द्धते क्षीयते तथा
पातकं क्षीयते माघे पुण्यराशिश्च वर्धते ॥१६२॥
यथा च खन्या जायंते रत्नानि विविधानि च
स्नानात्पुण्यानि जायंते नराणां माघतस्तथा ॥१६३॥
कामधेनुर्यथा कामं चिंतामणिस्तु चिंतितम्
माघस्नानं ददातीह तद्वत्सर्वान्मनोरथान् ॥१६४॥
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा
द्वापरे तु कलौ ज्ञानं माघः सर्वयुगेषु च ॥१६५॥
सर्वेषामेव वर्णानामाश्रमाणां च भूपते
माघस्नानं तु धर्मस्य धाराभिरभिवर्षति ॥१६६॥
वसिष्ठ उवाच
इति वाक्यं भृगोः श्रुत्वा तस्मिन्नेवाश्रमे सुरः
सहैव भृगुणा माघे गिरौ निर्झरिणी तटे ॥१६७॥
यथोक्तविधिना स्नानमकरोद्भार्यया सह
भृगोरनुग्रहात्सोऽथ संप्राप्य मनसेप्सितम् ॥१६८॥
देवतावदनो भूत्वा मुमुदे मणिपर्वते
आजगाम भृगुर्विध्यं तमनुग्राह्य हर्षितः ॥१६९॥
मणिमयगिरिराजे स्नानमात्रेण माघे मदनवदनरूपस्तत्र विद्याधरोऽभूत्
क्षपितनियमदेहो विंध्यपादावतीर्णो भृगुरपि सहशिष्यैराजगामाथ रेवाम् ॥१७०॥
अखिलभुवनसारं माघमाहात्म्यमेतद्द्विजवरभृगुणोक्तं भूपविद्याधराय
विविधफलविचित्रं यः शृणोतीह नित्यं रुचिरसकलकामान्देववत्प्राप्नुयात्सः ॥१७१॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे पंचविंशत्यधिकशततमोऽध्यायः ॥१२५॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP