संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ५३

उत्तरखण्डः - अध्यायः ५३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
आषाढस्य सिते पक्षे का च एकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद ॥१॥
श्रीकृष्ण उवाच-
कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम्
शयनीं नामनामेति सर्वपापहरां पराम् ॥२॥
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम् ॥३॥
पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा
अतः परा न राजेंद्र वर्त्तते मोक्षदायिनी ॥४॥
एतस्मात्कारणाद्राजन्श्रूयतां गतिरुत्तमा
भवेन्नराणां श्रोतॄणां कथायाः श्रवणादपि ॥५॥
ते सदा वैष्णवा राजन्मम भक्तिपरायणाः
आषाढे वामनश्चैव पूज्यते परमेश्वरः ॥६॥
वामनः पूजितो येन कमलैः कमलेक्षणः
आषाढस्य सिते पक्षे कामिकाया दिने तथा ॥७॥
तेनार्चितं जगत्सर्वं त्रयो देवाः सनातनाः
कृता चैकादशी येन हरिवासरमुत्तमम् ॥८॥
युधिष्ठिर उवाच-
संशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम
कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः ॥९॥
कथं च भूमौ संवेशः किं कुर्वंति जनाः परे
एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम ॥१०॥
श्रीकृष्ण उवाच -
श्रूयतां राजशार्दूल कथां पापहरां पराम्
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥११॥
बलिनामा पूर्वमासीद्दैत्यस्त्रेतायुगे नृप
पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः ॥१२॥
यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम्
भक्त्या च परया राजन्यज्ञकृद्व्रतकृत्तथा ॥१३॥
परं विचार्य बहुधा मघोना चैव सूक्तिभिः
गुरुणा दैवतैः सार्द्धं बहुधा पूजितोऽप्यहम् ॥१४॥
ततो वामनरूपेण अवतारे च पंचमे
अत्युग्ररूपेण तदा सर्वब्रह्मांडरूपिणा ॥१५॥
वाक्छलेन जिता दैत्याः सत्यमाश्रित्य संस्थितः
शुक्रस्तं वारयामास यन्नारायण इत्ययम् ॥१६॥
याचिता वसुधा राजन्सार्द्धत्रयपदी मया
संकल्पोदकमात्रे तु करे तेनैव चार्पिते ॥१७॥
रूपमीदृग्विधं राजंस्तदा शृणु मया कृतम्
भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी ॥१८॥
स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरम्
जनलोके च हृदयं तपोलोके तु कंठकम् ॥१९॥
सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्द्ध्वकम्
चंद्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च ॥२०॥
देवाः सेंद्राश्च नागाश्च यक्षगंधर्वकिन्नराः
स्तुवंतो वेदसंभूतैः सूक्तैश्च विविधैस्तथा ॥२१॥
करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही
अर्द्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा ॥२२॥
गतो रसातलं राजन्दानवो मम पूजकः
क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम् ॥२३॥
विनयेनानतोसौ वै सुप्रसन्नो जनार्दनः
आषाढशुक्लपक्षे तु कामिका हरिवासरः ॥२४॥
तस्यामेका च मूर्तिर्मे बलिमाश्रित्य तिष्ठति
द्वितीया शेषपृष्ठे वै क्षीरसागरमध्यतः ॥२५॥
स्वपित्येव महाराज यावदागामि कार्तिकी
तावद्भवेत्सुधर्मात्मा सर्वधर्मोत्तमोत्तमः ॥२६॥
व्रतं च कुरुते मर्त्यः स याति परमां गतिम्
एतस्मात्कारणाद्राजन्कर्त्तव्या च प्रयत्नतः ॥२७॥
नातः परतरा काचित्पवित्रा पापनाशिनी
यस्यां स्वपिति देवेशः शंखचक्रगदाधरः ॥२८॥
तस्यां च पूजयेद्देवं शंखचक्रगदाधरम्
रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः ॥२९॥
नास्याः पुण्यस्य संख्यानं कर्तुं शक्तश्चतुर्मुखः
एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम् ॥३०॥
सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम्
स च लोके मम सदा श्वपचोऽपि प्रियंकरः ॥३१॥
दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च
चातुर्मास्यं नयंतीह ते नरा मम वल्लभाः ॥३२॥
चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा ॥३३॥
दुग्धमाश्वयुजि त्याज्यं कार्तिके द्विदलं त्यजेत्
अथवा ब्रह्मचर्यस्थः स याति परमां गतिम् ॥३४॥
एकादश्या व्रतेनैव पुमान्पापैर्विमुच्यते
कर्तव्या सर्वदा राजन्विस्मर्तव्या न कर्हिचित् ॥३५॥
शयनी बोधिनी मध्ये या कृष्णैकादशीभवेत्
सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन ॥३६॥
शृणुयाच्चैव यो राजन्कथां पापहरां पराम्
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥३७॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे देवशयन्येकादशीनाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP