संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६५

उत्तरखण्डः - अध्यायः १६५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
भूतालयं ततो गच्छेत्तीर्थं पापहरं पदम्
भूतालयो वटो यत्र यत्र प्राची तु चंदना ॥१॥
भूतालये नरः स्नात्वा कृष्णाष्टम्यामुपोषितः
यस्तु कृष्णतिलान्दद्यान्न स प्रेतोऽभिजायते ॥२॥
पितॄनुद्दिश्य यो दद्यादुदकुंभं तिलैः सह
पूर्वजान्प्रेतभावात्स मोचयेन्नात्र संशयः ॥३॥
यस्य नाम्ना नरः स्नाति प्रेतत्वात्स विमुच्यते
चतुर्दश्यामथाष्टम्यां प्रभाते विमलोदके ॥४॥
तीर्थे भूतालये स्नात्वा दृष्ट्वा भूतालयं वटम्
भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम् ॥५॥
इति श्रीभूतेश्वरतीर्थम्
अतस्तीर्थात्परं तीर्थं घटेश्वरमिति स्मृतम्
यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवम् ॥६॥
यत्र साभ्रमती  तीर्थं घटो वै परमो महान्
दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः ॥७॥
तत्र गत्वा विशेषेण प्लक्षपूजां करोति यः
मनसाभीप्सितान्कामाँल्लभते मानवो भुवि ॥८॥
इति घटेश्वरतीर्थम्
ततो गच्छेन्नरो भक्त्या वैद्यनाथेति विश्रुतम्
तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः ॥९॥
पितॄन्संतर्प्य विधिना सर्वयज्ञफलं लभेत्
विजयो देवसंभूतः सर्वपापक्षयंकरः
यं दृष्ट्वा विविधान्कामान्प्राप्नुयुस्ते नराः सदा ॥१०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे विजयीतीर्थमाहात्म्यंनाम पंचषष्ट्यधिकशततमोऽध्यायः ॥१६५॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP