संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६४

उत्तरखण्डः - अध्यायः १६४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
अत्र तीर्थं महच्चान्यत्कश्यपाख्यं सुरेश्वरि
यत्र ह्रदो महानासीन्नगदेव विनिर्मितः ॥१॥
तत्र कुशेश्वरो नाम देवो यत्र विराजते
यत्र कुंडं तथा रम्यं कश्यपेन विनिर्मितम् ॥२॥
तत्र स्नात्वा तु भो देवि न नरो निरयं व्रजेत्
अग्निहोत्रकरा विप्रा नित्यं वेदपरायणाः ॥३॥
निवसंति महदेवि काश्यपायां बहुश्रुताः
यथा काशी तथा चेयं नगरी ऋषिनिर्मिता ॥४॥
काश्यपेन यतश्चात्र तप्तं बहुतरं तपः
गंगा वै तपसा येन आनीतेशजटोद्भवा ॥५॥
सा गंगा काश्यपी देवि महापातकनाशिनी
यस्या दर्शनमात्रेण मुच्यंते दुष्टकिल्बिषात् ॥६॥
गोदानं च प्रशंसंति रथदानं तथैव च
श्राद्धं कृत्वा तु तत्रैव दानं देयं प्रयत्नतः ॥७॥
कलौ युगे तथा घोरे महापातकनाशनम्
कश्यपाख्यं समं तीर्थं न भूतं न भविष्यति ॥८॥
यत्र वै देवताः सर्वा ऋषयो वीतकल्मषाः
नित्यं तिष्ठंति देवेशि तीर्थराजप्रसादतः ॥९॥

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
साभ्रमती माहात्म्ये कश्यपह्रदमाहात्म्यं नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥१६४॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP