उत्तरखण्डः - अध्यायः ११२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
श्रीकृष्ण उवाच
इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः
संपूज्य नारदं भक्त्या विससर्ज तदा प्रिये ॥१॥
तस्माद्व्रतत्रयं ह्येतन्ममातीवप्रियंकरम्
माघकार्तिकयोस्तद्वत्तथैवैकादशीव्रतम् ॥२॥
वनस्पतीनां तुलसी मासानां कार्तिकः प्रियः
एकादशी तिथीनां च क्षेत्राणां द्वारका मम ॥३॥
एतेषां सेवनं यस्तु करोति च जितेंद्रियः
स मे वल्लभतां याति न तथा यजनादिभिः ॥४॥
पापेभ्यो न भयं तेन कर्त्तव्यं नियमादपि
एतेषां सेवनं कांते कुर्वता मत्प्रसादतः ॥५॥
सत्यभामोवाच
विस्मापनीयं तन्नाथ यत्त्वया कथितं मम
परदत्तेन पुण्येन कलहा मुक्तिमागता ॥६॥
इत्थं प्रभावो मासोऽयं कार्त्तिकस्ते प्रियंकरः
स्वामिद्रोहादिपापानि स्नानदानैर्गतानि यत् ॥७॥
दत्तं च लभते पुण्यं यत्परेण कृतं विभो
अदत्तं केन मार्गेण लभते चापि मानवः ॥८॥
श्रीकृष्ण उवाच
अदत्तान्यपि पुण्यानि पापानि च यथा नरैः
प्राप्यंते कर्मणा येन तद्यथावन्निशामय ॥९॥
देशग्रामकुलानि स्युर्भागभांजि कृतादिषु
कलौ तु केवलं कर्त्ता फलभुक्पुण्यपापयोः ॥१०॥
अकृतेऽपि हि संसर्गे व्यवस्थेयमुदाहृता
संसर्गात्पुण्यपापानि यथा यांति निबोध तत् ॥११॥
एकत्रमैथुनाद्यानादेकपात्रस्थभोजनात्
फलार्द्धं प्राप्नुयान्मर्त्यो यथावत्पुण्यपापयोः ॥१२॥
अध्यापनाद्याजनाद्वाप्येकपंक्त्यशनादपि
तुर्यांशं पुण्यपापानां नित्यं प्राप्नोति मानवः ॥१३॥
एकासनादेकयानान्निःश्वासस्यांगसंगतः
षडंशं फलभागी स्यान्नयतं पुण्यपापयोः ॥१४॥
स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि
दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः ॥१५॥
दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः ॥१६॥
परस्य निंदां पैशुन्यं धिक्कारं च करोति यः
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः ॥१७॥
कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः
पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः ॥१८॥
तस्य सेवानुरूपेण द्रव्यं किंचिन्न दीयते
सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत्
एकपंक्त्यश्नतां यस्तु लंघयेत्परिवेषणम् ॥१९॥
तस्य पापषडंशं तु लभेद्वै परिवेषकः
स्नानसंध्यादिकं कुर्वन्यः स्पृशेद्वा प्रभाषते ॥२०॥
स पुण्यकर्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम्
धर्मोद्देशेन यो द्रव्यमपरं याचते नरः ॥२१॥
तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम्
अपहृत्य परद्रव्यं पुण्यकर्म करोति यः ॥२२॥
कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम्
नापनुद्य ऋणं यस्तु परस्य म्रियते नरः ॥२३॥
धनी तत्पुण्यमाधत्ते स्वधनस्यानुरूपतः
बुद्धिदस्त्वनुमंता च यश्चोपकरणप्रदः ॥२४॥
बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् ॥२५॥
शिष्याद्गुरुः स्त्रियो भर्त्ता पितापुत्रात्तथैव च
स्वपतेरपि पुण्यस्य योषिदर्द्धमवाप्नुयात् ॥२६॥
चित्तस्यानुव्रता शश्वद्वर्तते तुष्टिकारिणी
परहस्तेन दानादि कुर्वतः पुण्यकर्मणि ॥२७॥
विना भृतकपुत्राभ्यां कर्त्ता षष्ठांशमुद्धरेत्
वृत्तिदो वृत्तिसंभोक्तुः पुण्यमष्टांशमुद्धरेत् ॥२८॥
आत्मनो वा परस्यापि यदि सेवां न कारयेत् ॥२९॥
श्रीकृष्ण उवाच
इत्थं ह्यदत्तान्यपि पुण्यपापान्या यांति नित्यं परसंचितानि
शृणुष्व चेमं इतिहासमग्र्यं पुराभवं पुण्यमतिप्रदं च ॥३०॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे पुण्यपापांशकथनंनाम द्वादशाधिकशततमोऽध्यायः ॥११२॥
N/A
References : N/A
Last Updated : November 20, 2020
TOP