संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः २४९ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः २४९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २४९ Translation - भाषांतर श्रीरुद्र उवाच-सत्राजितस्य तनया नाम्ना सत्या यशस्विनीपृथिव्यंशेन संभूता भार्यां कृष्णस्य वा परा ॥१॥वैवस्वती महाभागा कालिंदी नाम नामतःतृतीया तस्य भार्या सा लीलांशा समुपस्थिता ॥२॥विंदानुविंदस्य सुतां मित्रविंदां शुचिस्मिताम्स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ॥३॥पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान्तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः ॥४॥सत्राजितो महारत्नं स्यमंताख्यं महीपतिःअनुजाय ददौ सोऽयं प्रसेनाय महात्मने ॥५॥ययाचे तं मणिवरं कदाचिन्मधुसूदनःउवाच वासुदेवं तं प्रसेनः प्रसभं तदा ॥६॥प्रसेन उवाच-भारानष्टसुवर्णानि नित्यं प्रसवते मणिःतस्मात्कस्य न दातव्यं स्यमंताख्यमिदं मया ॥७॥महादेव उवाच-कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास हकदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः ॥८॥प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैःप्रत्येकं वै मृगान्हंतुमनुयाताः सहस्रशः ॥९॥एक एव महारण्ये प्रसेनो दूरमागतःतं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः ॥१०॥तं सिंहं जांबबान्हत्वा मणिं गृह्य महाबलःप्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम् ॥११॥तस्मिन्नस्तंगते सूर्ये वासुदेवं सहानुगःचतुर्थ्यामुदितं चंद्रं दृष्ट्वा स्वं पुरमाविशत् ॥१२॥ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम्हत्वा प्रसेनं गोविंदो मृगव्याजेन कानने ॥१३॥स्यमंतकं मणिवरमग्रहीदविशंकयातदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम् ॥१४॥अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौदर्शयामास तान्सर्वान्सिंहेन निहतं वने ॥१५॥लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम्एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम् ॥१६॥दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशंकितःतत्र नाना मणिवरद्योतिते विमले गृहे ॥१७॥सुतं जांबवतो धात्री दोलामारोप्य लीलयादोलामुखे मणिं धृत्वा दोलयन्गायती मुदा ॥१८॥सिंहः प्रसेनमवधीत्सिंहो जांबवता हतःसुकुमारक मा रोदीस्तव ह्येष स्यमंतकः ॥१९॥तच्छ्रुत्वा वासुदेवोऽथ शंखं दध्मौ प्रतापवान्तेन नादेन महता निर्जगामात्र जांबवान् ॥२०॥तयोर्युद्धमभूद्घोरं दशरात्रं निरंतरम्मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् ॥२१॥कृष्णस्य बलवृद्धिं च तथात्मबलसंक्षयम्अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः ॥२२॥सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनःस आगतो मम स्वामी दातुं मम मनोरथम् ॥२३॥एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत्प्रांजलि प्राह गोविंदं को भवानिति विस्मयात् ॥२४॥निवर्त्य कदनं शौरिः प्रोचे गंभीरया गिराश्रीकृष्ण उवाच-पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः ॥२५॥ममरत्नं स्यमंताख्यं हृतवांस्त्वं सुनिर्भयःतद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि ॥२६॥महादेव उवाच-तच्छ्रुत्वा जांबवान्हृष्टः प्रणनामाथ दंडवत्परिणीय नमस्कृत्य विनयात्प्राह केशवम् ॥२७॥जांबवानुवाच-धन्योस्मि कृतकृत्योस्मि तव संदर्शनात्प्रभोदासोऽहं पूर्वभावेन तव देवकिनंदन ॥२८॥दत्तवानसि गोविंद कदनं पूर्वकांक्षितम्मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वयातत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत ॥२९॥महादेव उवाच-इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनःनानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ॥३०॥शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणामधुपर्कविधानेन पूजयित्वा यदूद्वहम् ॥३१॥वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतःपुत्रीं जांबवतीं नाम कन्यां लावण्यसंयुताम् ॥३२॥कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसेअन्यैश्च मणिमुख्यैश्च स्यमंताख्यं ददौ मणिम् ॥३३॥तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहाददौ तस्मै परां मुक्तिं प्रीत्या जांबवते हरिः ॥३४॥गृहीत्वा तनयां तस्य कन्यां जांबवतीं मुदाविनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम् ॥३५॥सत्राजिते ददौ रत्नं स्यमंताख्यं यदूत्तमःदुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम् ॥३६॥मासि भाद्रपदे शुक्ले चतुर्थ्यां चंद्रदर्शनम्मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत् ॥३७॥प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरःस्यमंतस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते ॥३८॥सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम्मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः ॥३९॥स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाःएकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ॥४०॥अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनःरुक्मिणी सत्यभामा च कालिंदी च शुचिस्मिता ॥४१॥मित्रविंदा जांबवती नाग्नजित्यः सुलक्ष्मणासुशीला नाम तन्वंगी महिषी चाष्टमी स्मृता ॥४२॥भूमिपुत्रो महावीर्यो नरको नाम राक्षसःजित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे ॥४३॥अदित्या देवमातुश्च कुंडले च सुवर्चसीबलाज्जग्राह देवानां रत्नानि विविधानि च ॥४४॥ऐरावतं महेंद्रस्य तथैवोच्चैःश्रवं हयम्माणिक्यादि धनेशस्य शंखपद्मनिधिं तथा ॥४५॥स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनंदनःवज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम् ॥४६॥तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम्उवास व्योमगो दिव्यो नगर्यां विमलेंबरे ॥४७॥ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम्भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम् ॥४८॥कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम्देवानामभयं दत्वा वैनतेयं व्यचिंतयत् ॥४९॥तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलःप्रांजलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ॥५०॥ तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवःसंस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ॥५१॥प्रदीप्यमानमाकाशे यथा सूर्यस्य मंडलम्राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम् ॥५२॥ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपितदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ॥५३॥चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरःततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः ॥५४॥उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुःततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः ॥५५॥केशवं ताडयामासुः पलालैरिव पावकम्ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः ॥५६॥दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैःतेषां शिरोधरा नागानश्वांश्चैव तरस्विनः ॥५७॥चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमःकेचिच्चक्रेण संछिन्नास्तथान्ये शरताडिताः ॥५८॥गदया निहताः केचिद्राक्षसास्तद्रणाजिरेएवं ते राक्षसाः सर्वे पातिता धरणीतले ॥५९॥शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराःनिहत्य दानवान्सर्वान्पुंडरीकायतेक्षणः ॥६०॥पाञ्चजन्यं महाशंखं प्रदध्मौ पुरुषोत्तमःततः स नरको दैत्यो धनुरादाय वीर्यवान् ॥६१॥दिव्यं स्यंदनमारुह्य ययौ युद्धाय केशवम्तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ॥६२॥बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोःततोऽर्द्धचंद्र बाणेन वासुदेवः सनातनः ॥६३॥तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान्ससर्जास्त्रं महादिव्यं नरकस्य महोरसि ॥६४॥स तेन भिन्नहृदयः पपातोर्व्यां महासुरःशक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन् ॥६५॥उपगम्य ततः कृष्णः समीपं तस्य रक्षसःभूम्या संप्रार्थितः प्राह वरं वृण्विति राक्षसम्स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम् ॥६६॥न मे कृत्यं वरेणास्ति नरकोऽहं तथापि चअन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम् ॥६७॥मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वरये नरा मंगलस्नानं कुर्वंति मधुसूदनन तेषां निरयप्राप्तिर्भवत्वेवं भयापह ॥६८॥महादेव उवाच-एवमस्त्विति गोविंदो ददौ तस्मै वरं प्रभुःततः पश्यन्हरेः साक्षाच्छरदंबुज सन्निभौ ॥६९॥चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौअर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा ॥७०॥त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेःततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥७१॥ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयःप्रविश्य नगरं तस्य कृष्णः कमललोचनः ॥७२॥बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम्कुंडले देवमातुश्च तथैवोच्चैःश्रवो हयम् ॥७३॥ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम्सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे ॥७४॥पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बलीकन्याषोडशसाहस्रं हृतवान्नरकस्तदा ॥७५॥सन्निरुद्धास्तु ताः सर्वा नरकांतःपुरे तदादृष्ट्वा कृष्णं महावीर्यं कंदर्पशतसंनिभम् ॥७६॥भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम्एतस्मिन्नेव काले तु गोविंदोऽनंतरूपवान् ॥७७॥तासां करग्रहं चक्रे विधिना पुरुषोत्तमःनरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा ॥७८॥गोविंदं शरणं जग्मुस्तानरक्षद्घृणानिधिःतद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात् ॥७९॥ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियःदेवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत् ॥८०॥वैनतेयं समारुह्य सत्यया सह केशवःस्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम् ॥८१॥प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनःअवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः ॥८२॥ववंदे मातरं तत्र वंद्यां तां त्रिदिवौकसाम्संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला ॥८३॥निवेश्यासनमुख्ये तु पूजयामास भक्तितःआदित्या वसवो रुद्राः शतक्रतुपुरोगमाः ॥८४॥तत्र संपूजयामासुर्यथार्हं परमेश्वरम्शचीगृहं समागम्य सत्यभामा यशस्विनी ॥८५॥तया समर्चिता देव्या समासीना सुखासनेतस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः ॥८६॥शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताःप्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा ॥८७॥नीलनिर्मलकेशे च बबंध स्वस्य मूर्धनिअवमान्य शची तत्र सत्यभामां यशस्विनीम् ॥८८॥अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम्इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा ॥८९॥विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्वितासमेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा ॥९०॥सत्योवाच-एषा शची यदुश्रेष्ठ पारिजातेन गर्विताअदत्त्वा मम गोविंद बबंध स्वस्य मूर्द्धनि ॥९१॥महादेव उवाच-सत्यया भाषितं श्रुत्वा वासुदेवो महाबलःउत्पाट्य पारिजातं तु निवेश्य गरुडोपरि ॥९२॥आरुह्य सत्यया तूर्णं वैनतेयं महाबलम्प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः ॥९३॥ततः कोपसमाविष्टो देवराजः शतक्रतुःरुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः ॥९४॥ऐरावतं समारुह्य ययौ युद्धाय केशवम्ततो देवगणाः सर्वे परिवार्य्य जनार्दनम् ॥९५॥ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम्कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम् ॥९६॥वैनतयस्तु संक्रुद्धः पक्षपातेन वीर्यवान्पातयामास तान्देवान्पलालानीव मारुतः ॥९७॥ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुःमुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया ॥९८॥जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलयाततो भीतः सहस्राक्षो नागेंद्रादवरुह्य सः ॥९९॥प्रांजलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम्प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च ॥१००॥ इंद्र उवाच-देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरादत्तो मम सुराणां च कथं स्थास्यति मानुषे ॥१०१॥महादेव उवाच-ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम्शच्यावमानिता सत्या तव गेहे सुरेश्वर ॥१०२॥अदत्त्वा पारिजातानि सत्यायै सा पुलोमजास्वयमेव स्वशिरसि धारयामास ते प्रिया ॥१०३॥अस्या निमित्तं देवेंद्र पारिजातो हृतो मयाअस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर ॥१०४॥तव गेहे पारिजातं स्थापयामीति वासवतस्मादद्य न दातव्यः पारिजातः सुरेश्वर ॥१०५॥देवतानां हितार्थाय प्रापयिष्यामि भूतलेतावत्तिष्ठतु देवेंद्र पारिजातो ममालये ॥१०६॥मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छयामहादेव उवाच-एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम् ॥१०७॥एवमस्त्विति गोविंदं नमस्कृत्य स वज्रभृत्प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः ॥१०८॥कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितःसंस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह ॥१०९॥सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम्रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः ॥११०॥निशासु तासां सर्वासां गृहेषु मधुसूदनःविश्वरूपधरः श्रीमानुवास स सुखप्रदः ॥१११॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडेउमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपंचाशदधिकद्विशततमोऽध्यायः ॥२४९॥ N/A References : N/A Last Updated : November 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP